भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 105

105.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सुवर्णशिलातीर्थमाहात्म्यवर्णनं नाम चतुरधिकशततमो ऽध्यायः ॥
र्क्व् अध्याय 105
श्रीमार्कण्डेय उवाच:
करञ्जाख्यं ततो गच्छेत् सोपवासो जितेन्द्रियः ।
तत्र स्नात्वा तु राजेन्द्र सर्वपापैः प्रमुच्यते

105.2

अर्चयित्वा महादेवं दत्त्वा दानं तु भक्तितः ।
सुवर्णं रजतं वापि मणिमौक्तिकविद्रुमान्

105.3

पादुकोपानहौ छत्रं शय्यां प्रावरणानि च ।
कोटिकोटिगुणं सर्वं जायते नात्र संशयः

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc