रेवाखाण्ड (संशोधित पाठ) · अध्याय 102
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे संकर्षणतीर्थमाहात्म्यवर्णनं नामैकाधिकशततमो ऽध्यायः ॥
र्क्व् अध्याय 102
मार्कण्डेय उवाच:
मन्मथेशं ततो गच्छेत् सर्वदेवनमस्कृतम् ।
स्नानमात्रान्नरो राजन्यमलोकं न पश्यति
अनपत्या या च नारी स्नायाद् वै पाण्डुनन्दन ।
पुत्रं सा लभते पार्थ सत्यसङ्घं दृढव्रतम्
तत्र स्नात्वा नरो राजञ्छुचिः प्रयतमानसः ।
उपोष्य रजनीमेकां गोसहस्रफलं लभेत्
कामिकं तीर्थराजं तु तादृशं न भविष्यति ।
त्रिरात्रं कुरुते राजन्स गोलक्षफलं लभेत्
तत्र नृत्यं प्रकर्तव्यं तुष्यते परमेश्वरः ।
गीतवादित्रनिर्घोषै रात्रौ जागरणेन च
एरण्ड्यां च महादेवो दृष्टो मे मन्मथेश्वरः ।
किं समर्थो यमो रुष्टो भद्रो भद्राणि पश्यति
कामेन स्थापितः शम्भुरेतस्मात् कामदो नृप ।
सोपानः स्वर्गमार्गस्य पृथिव्यां मन्मथेश्वरः
विशेषश्चात्र सन्ध्यायां श्राद्धदाने च भारत ।
अन्नदानेन राजेन्द्र कीर्तितं फलमुत्तमम्
एतत्ते सर्वमाख्यातं तव भक्त्या तु भारत ।
पृथिव्यां सागरान्तायां प्रख्यातो मन्मथेश्वरः
गोदानं पाण्डवश्रेष्ठ त्रयोदश्यां प्रकारयेत् ।
चैत्रे मासि सिते पक्षे तत्र गत्वा जितेन्द्रियः
रात्रौ जागरणं कृत्वा देवस्याग्रे नृपोत्तम ।
दीपं भक्त्या घृतेनैव देवस्याग्रे निवेदयेत्
स्त्र्यथ वा पुरुषो वापि सममेतत्फलं स्मृतम्
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0