भाषा

ENहिગુ
ग्रंथ पाठ

रत्नावलीनाटिका · अध्याय 4

4.1

सुसंगता । सकरुणम् । हा पिअसहि साअरिए । हा लज्जालुए । हा सहीजणवच्छले । हा उदारसीले । हा सोम्मदंसणे । कहिं दाणिं तुमं मए पेक्खिदव्वा । इति रोदिति । ऊर्ध्वम् अवलोक्य निःश्वस्य च । ऐ देव्वहदअ । जै सा असामण्णरूवसोहा तादिसी तए णिम्मिदा ता कीस उण ईदिसं अवत्थन्तरं पाविदा । इअं च रअणमाला जीविदणिरासाए ताए कस्स वि बम्हणस्स हत्थे पडिवादेसु त्ति भणिअ मम हत्थे समप्पिदा । ता जाव कं पि बम्हणं अण्णेसामि । परिक्रम्यावलोक्य च । एसो क्खु अज्जवसन्तओ इदो ज्जेव्व आअच्छदि । ता जाव एदस्स ज्जेव्व पडिवादैस्सं ।
ततः प्रविशति हृष्टो वसन्तकः ।

4.2

विदूषकः । ही ही भो । अज्ज क्खु पिअवअस्सेण पसादिदाए देवीए वासवदत्ताए बन्धणादो मोआविअ सहत्थदिण्णेहिं मोदएहिं उदरं मे पूरिदं । अण्णं च । पट्टंसुअजुअलं कण्णाहरं च दिण्णं । ता जाव पिअवअस्सं पेक्खामि ।

4.3

सुसंगता । रुदती सहसोपसृत्य । अज्जवसन्तअ । चिट्ठ दाव ।

4.4

विदूषकः । दृष्ट्वा । कधं । सुसंगदा । भोदि सुसंगदे । किं णिमित्तं रोदीअदि । किं णु साअरिआए अच्चाहिदं संवुत्तं ।

4.5

सुसंगता । एदं जेव्व णिवेदैस्सं । सा खु तवस्सिणी देवीए उज्जैणिं पेसिद त्ति पवादं कदुअ अद्धरत्ते उवट्ठिदे ण जाणीअदि कहिं णीद त्ति ।

4.6

विदूषकः । सोद्वेगम् । हा भोदि साअरिए । अदिणिग्घिणं देवीए कदं ।

4.7

सुसंगता । इअं च रअणमाला ताए जीविदणिरासाए अज्जवसन्तअस्स हत्थे पडिवादेसु त्ति भणिअ मम हत्थे समप्पिदा । ता गेण्हदु अज्जो एदं ।

4.8

विदूषकः । सकरुणम् । ण मे ईदिसे पत्थावे हत्थे एदं गेण्हिदुं पसरदि । उभौ रुदतः ।

4.9

सुसंगता । कृताण्जलिः । ताए ज्जेव्व अणुग्गहं करन्तो अङ्गीकरेदु अज्जो ।

4.10

विदूषकः । विचिन्त्य । अध वा उवणेहि जेण इमाए ज्जेव्व साअरिआविरहदुक्खिदं पिअवअस्सं विणोदैस्सं ।

4.11

सुसंगतोपनयति ।

4.12

विदूषकः । गृहीत्वा निरूप्य सविस्मयम् । सुसंगदे । कुदो उण ताए ईदिस्सस्स अलङ्कारस्स समागमो ।

4.13

सुसंगता । अज्ज । मए वि एदं जेव्व कोदूहलेण पुच्छिदा आसि ।

4.14

विदूषकः । तदो ताए किं भणिदं ।

4.15

सुसंगता । तदो सा उद्धं पेक्खिअ दीहं णिस्ससिअ सुसंगदे किं तुह एदाए कधाए त्ति भणिअ रोदिदुं पौत्ता ।

4.16

विदूषकः । कधिदं जेव्व सामण्णजणदुल्लहेण इमिणा परिच्छएण । सव्वधा महाहिजणसंभवाए ताए होदव्वं ति । सुसंगदे । पिअवअस्सो दाणिं कहिं ।

4.17

सुसंगता । अज्ज । एसो क्खु भट्टा देवीभवणादो णिक्कमिअ फडिअसिलामण्डवं गदो । ता गच्छदु अज्जो । अहं पि देवीए पासवत्तिणी भविस्सं ।
इति निष्क्रान्तौ ।
इति प्रवेशकः ।
ततः प्रविशत्य् आसनस्थो राजा ।

4.18

राजा । विचिन्त्य ।
सव्याजैः शपथैः प्रियेण वचसा चित्तानुवृत्त्याधिकं
वैलक्ष्येण परेण पादपतनैर् वाक्यैः सखीनां मुहुः ।
प्रत्यासत्तिम् उपागता न हि तथा देवी रुदत्या यथा
प्रक्षाल्येव तयैव बाष्पसलिलैः कोपो ऽपनीतः स्वयम् ॥ 64 ॥ (4.1)
सोत्कण्ठं निःश्वस्य । इदानीं देव्यां प्रसन्नायां सागरिकाचिन्तैव मां बाधते । तथा हि
अम्भोजगर्भसुकुमारतनुस् तद् आसौ
कण्ठग्रहे प्रथमरागघने विलीय ।
सद्यः पतन्मदनमार्गणरन्ध्रमार्गैर्
मन्ये मम प्रियतमा हृदयं प्रविष्टा ॥ 65 ॥ (4.2)
यो ऽपि मे विश्रामस्थानं वसन्तकः सो ऽपि देव्या संयतस् तिष्ठति । तत् कस्याग्रे बाष्पमोक्षं करोमि । इति निःश्वसति ।
ततः प्रविशति विदूषकः ।

4.19

विदूषकः । राजानं दृष्ट्वा । एसो क्खु णिरन्तरुक्कण्ठापरिक्खामं पि सविसेससलाहणीअं तणुं समुव्वहन्तो उदिदो विअ दुदिआचन्दो अधिअदरं सोहदि पिअवअस्सो । ता जाव णं उवसप्पामि । उपसृत्य । सोत्थि भवदो । दिट्ठिआ वड्ढसि देवीहत्थगदेणावि मए पुणो वि एदेहिं अच्छीहिं जं दिट्ठो सि ।

4.20

राजा । दृष्ट्वा सहर्षं । कथम् । वसन्तकः प्राप्तः । सखे । परिष्वजस्व माम् ।

4.21

विदूषकः परिष्वजते ।

4.22

राजा । वेषेणैव निवेदितस् ते देव्याः प्रसादः । तत् कथ्यताम् इदानीम् । सागरिकायाः किं वर्तत इति ।

4.23

विदूषको ऽधोमुखस् तिष्ठति ।

4.24

राजा । वयस्य । किं न कथयसि ।

4.25

विदूषकः । भो । अप्पिअं ति णिवेदिदुं ण पारेमि ।

4.26

राजा । कथम् । अप्रियम् । व्यक्तम् उत्सृष्टं जीवितं तया । हा प्रिये सागरिके । इति मोहं नाटयति ।

4.27

विदूषकः । ससंभ्रमम् । समस्ससदु समस्ससदु पिअवअस्सो ।

4.28

राजा । समाश्वस्य सास्रम् ।
प्राणाः परित्यजत कामम् अदक्षिणं मां
हे दक्षिणा भवत मद्वचनं कुरुध्वम् ।
शीघ्रं न याथ यदि तन्मुषिताः स्थ नूनं
याता सुदूरम् अधुना गजगामिनी सा ॥ 66 ॥ (4.3)

4.29

विदूषकः । भो मा अण्णधा संभावेहि । सा खु देवीए उज्जैणिं पेसिदा । अदो मए अप्पिअं ति भणिदं ।

4.30

राजा । अहो । निरनुरोधा मयि देवी । वयस्य । केनैतद् आख्यातम् ।

4.31

विदूषकः । भो +।, सुसंगदाए । अण्णं च । ताए ज्जेव्व मम हत्थे केणावि कज्जेण इअं रअणमाला पेसिदा ।

4.32

राजा । किम् अपरम् । मां समाश्वासयितुम् । तद् वयस्योपनय ।

4.33

विदूषक उपनयति ।

4.34

राजा । गृहीत्वा रत्नमालां निर्वर्ण्य हृदये विन्यस्य । अहह ।
कण्ठाश्लेषं समासाद्य तस्याः प्रभ्रष्टयानया ।
तुल्यावस्था सखीवेयं तनुर् आश्वास्यते मम ॥ 67 ॥ (4.4)
वयस्य । त्वम् एव परिधत्स्व येन वयम् एनां दृष्ट्वा धृतिं करिष्यामः ।

4.35

विदूषकः । जं भवं आणवेदि । इति परिदधाति ।

4.36

राजा । सास्रम् । वयस्य । दुर्लभं पुनर्दर्शनं प्रियायाः ।

4.37

विदूषकः । दिशो ऽवलोक्य सभयम् । भो । मा एव्वं मन्तेहि । कदा वि को वि इध संचरदि ।
ततः प्रविशति खड्गहस्ता वसुंधरा ।

4.38

वसुंधरा । उपसृत्य । जअदु जअदु भट्टा । एसो क्खु रुमण्णदो भाइणेओ विजअवम्मा पिअं किं पि णिवेदिदुकामो दुवारे चिट्ठदि ।

4.39

राजा । वसुंधरे । अविलम्बितं प्रवेशय ।

4.40

वसुंधरा । जं देवो आणवेदि । इति निष्क्रम्य विजयवर्मणा सह पुनः प्रविश्य च । विजअवम्मं । एसो क्खु भट्टा । ता उवसप्पदु अज्जो णं ।

4.41

विजयवर्मा । उपसृत्य । जयति जयति देवः । देव । दिष्ट्या वर्धसे रुमण्वतो विजयेन ।

4.42

राजा । सपरितोषम् । विजयवर्मन् । अपि जिताः कोसलाः ।

4.43

विजयवर्मा । देवस्य प्रसादेन ।

4.44

राजा । साधु रुमण्वन् साधु । अचिरान् महत्प्रयोजनम् अनुष्ठितम् । विजयवर्मन् । तत् कथय कथाम् । अतिविस्तरतः श्रोतुम् इच्छामि ।

4.45

विजयवर्मा । देव । श्रूयताम् । इतो देवादेशात् कतिपयैर् एव वासरैर् अनेककरितुरगपदातिदुर्निवारेण महता बलसमूहेन गत्वा रुमण्वान् विन्ध्यदुर्गावस्थितस्य कोसलपतेर् द्वारम् अवष्टभ्य समावासयितुम् आरब्धवान् ।

4.46

राजा । ततस् ततः ।

4.47

विजयवर्मा । ततः कोसलेश्वरो ऽपि दर्पात् परिभवम् असहमानो हास्तिकप्रायम् आत्मसैन्यं सज्जीकृतवान् ।

4.48

विदूषकः । विजअवम्मं । लहुं आचक्ख । वेददि मे हिअअं ।

4.49

राजा । ततस् ततः ।

4.50

विजयवर्मा । देव । कृतनिश्चयश् चासौ
योद्धुं निर्गत्य विन्ध्याद् अभवद् अभिमुखस् तत्क्षणं दिग्विभागान्
विन्ध्येनेवापरेण द्विपपतिपृतनापीडबन्धेन रुन्धन् ।
वेगाद् बाणान् विमुञ्चन्न् अथ समदगजोत्पिष्टपत्तिर् निपत्य
प्रत्यायाद् वाञ्छिताप्तिद्विगुणितरभसस् तं रुमण्वान् क्षणेन ॥ 68 ॥ (4.5)
अपि च ।अस्त्रव्यस्तशिरस्त्रशस्त्रकषणैः कृत्तोत्तमाङ्गे मुहुर्
व्यूढासृक्सरिति स्वनत्प्रहरणैर् घर्मोद्वमद्वह्निनि ।
आहूयाजिमुखे स कोसलपतिर् भग्ने प्रधाने बले

4.51

राजा । कथम् । अस्मदीयान्य् अपि बलानि भग्नानि ।

4.52

विजयवर्मा । एकेनैव रुमण्वता शरशतैर् मत्तद्विपस्थो हतः ॥ 69 ॥ (4.6)

4.53

विदूषकः । जअदु जअदु भवं । जिदं अम्हेहिः । इति नृत्यति ।

4.54

राजा । साधु कोसलपते साधु । मृत्युर् अपि ते श्लाघ्यो यस्य शत्रवो ऽप्य् एवं पुरुषकारं वर्णयन्ति ।

4.55

विजयवर्मा । रुमण्वान् अपि कोसलेषु मद्भ्रातरं ज्यायांसं जयवर्माणं स्थापयित्वा प्रहारव्रणितं हास्तकप्रायम् अशेषसैन्यम् अनुवर्तमानः शनैः शनैर् आगत एव ।

4.56

राजा । वसुंधरे । उच्यतां यौगन्धरायणः । प्रदीयतां मत्प्रसादो ऽस्येति ।

4.57

वसुंधरा । जं देवो आणवेदि । इति विजयवर्मणा सह निष्क्रान्ता ।
ततः प्रविशति काञ्चनमाला ।

4.58

काञ्चनमाला । आणत्त म्हि देवीए जधा । हञ्जे कञ्चणमाले । गच्छ । एदं इन्दआलिअं अज्जौतस्स दंसेहि त्ति । परिक्रम्यावलोक्य च । एसो क्खु भट्टा । ता जाव णं उवसप्पामि । उपसृत्य । जअदु जअदु भट्टा । भट्टा । देवी विण्णवेदि । एसो क्खु उज्जैणीदो सम्बरसिद्धी णाम इन्दआलिओ आअदो । ता पेक्खदु णं अज्जौत्तो त्ति ।

4.59

राजा । अस्ति नः कौतुकम् ऐन्द्रजालिके । तच् छीघ्रं प्रवेशय ।

4.60

काञ्चनमाला । जं देवो आणवेदि । इति निष्क्रम्य पिच्छिकाव्यग्रहस्तेनैन्द्रजालिकेन सह प्रविश्य । एदु एदु अज्जो ।

4.61

ऐन्द्रजालिकः परिक्रामति ।

4.62

काञ्चनमाला । एसो भट्टा । ता उवसप्पदु अज्जो ।

4.63

ऐन्द्रजालिकः । जअदु जअदु भट्टा । उपसृत्य पिच्छिकां भ्रामयित्वा ।
पणमह चलणे इन्दस्स इन्दआलम्मि लद्धणामस्स ।
तह अज्जसम्बरस्स विमाआसुपडिट्ठिअजसस्स ॥ 70 ॥ (4.7)
देव ।किं धरणीए मिअङ्गोआआसे महिहरो जले जलणो ।
मज्झण्हम्मि पओसोदाविज्जौ देहि आणत्तिं ॥ 71 ॥ (4.8)

4.64

विदूषकः । भो वअस्स । अविहिदो होदि । भो । ईदिसो से अवट्ठम्भो जेण सव्वं संभावीअदि ।

4.65

ऐन्द्रजालिकः । देव ।
किं जप्पिएण बहुणाजं जं हिअएण महसि संदट्ठु ।
तं तं दावेमि अहङ्गुरुणो मन्तप्पहावेण ॥ 72 ॥ (4.9)

4.66

राजा । काञ्चनमाले । उच्यतां देवी । युष्मदीय एवायम् ऐन्द्रजालिको विजनीकृतश् चायम् उद्देशः । तद् आगच्छ । सहिताव् एवैनं पश्याव इति ।

4.67

काञ्चनमाला । जं भट्टा आणवेदि । इति निष्क्रम्य वासवदत्तया सह प्रविश्य ।

4.68

वासवदत्ता । हञ्जे कञ्चणमाले । उज्जैणीदो आअदो त्ति अत्थि मे तस्सिं इन्दआलिए पक्खवादो ।

4.69

काञ्चनमाला । णादिकुलबहुमाणो क्खु एसो देवीए । ता एदु भट्टिणी ।
इति परिक्रामतः ।

4.70

काञ्चनमाला । भट्टिणि । एसो भट्टा । ता उवसप्पदु देवी ।

4.71

वासवदत्ता । उपसृत्य । जअदु जअदु अज्जौत्तो ।

4.72

राजा । देवि । बहु तेन गर्जितम् । तद् इहस्थाव् एवैनं पश्याव ।

4.73

वासवदत्तोपविशति ।

4.74

राजा । भद्र । प्रस्तूयतां बहुविधम् इन्द्रजालम् ।

4.75

ऐन्द्रजालिकः । जं देवो आणवेदि । इति बहुविधं नाट्यं कृट्वा पिच्छिकां भ्रामयन् ।
हरिहरबम्हप्पमुहेदेवे दावेमि देवराअं च ।
गअणम्मि सिद्धविज्जाहरबहुसत्थं च णच्चन्तं ॥ 73 ॥ (4.10)
सर्वे सविस्मयं पश्यन्ति ।

4.76

राजा । ऊर्ध्वं दृष्ट्वासनाद् अवतरन् । आश्चर्यम् आश्चर्यम् ।

4.77

विदूषकः । अच्छरीअं अच्छरीअं ।

4.78

राजा । देवि । पश्य ।
एष ब्रह्मा सरोजे रजनिकरकलाशेखरः शङ्करो ऽयं
दोर्भिर् दैत्यान्तको ऽयं सधनुरसिगदाचक्रचिह्नैश् चतुर्भिः ।
एषो ऽप्य् ऐरावतस्थस् त्रिदशपतिर् अमी देवि देवास् तथान्ये
नृत्यन्ति व्योम्नि चैताश् चलचरणरणन्नूपुरा दिव्यनार्यः ॥ 74 ॥ (4.11)

4.79

वासवदत्ता । अच्छरीअं अच्छरीअं ।

4.80

विदूषकः । आ दासीए पुत्त इन्दआलिअ । किं एदेहिं देवेहिं अच्छराहिं च दंसिदाहिं । जै एदिणा परितुट्ठेण कज्ज ता साअरिअं दंसेहि ।
ततः प्रविशति वसुंधरा ।

4.81

वसुंधरा । जअदु जअदु भट्टा । अमच्चो जोअन्धराअणो विण्णवेदि । एसो क्खु विक्कमबाहुणो पधाणो अमच्चो वसुभूदी कञ्चुइणा सह अणुप्पेसिदो । तं अरिहदि देवो इमस्सिं जेव्व सुन्दरमुहुत्तए पेक्खिदुं । अहं पि कज्जसेसं समाविअ आअदो ज्जेव्व त्ति ।

4.82

वासवदत्ता । अज्जौत्त । चिट्ठदु दाव पेक्खणं । माउलकुलादो पधाणो अमच्चो वसुभूदी आअदो । तं दाव पेक्खदु अज्जौत्तो ।

4.83

राजा । यथाह देवी । ऐन्द्रजालिकं प्रति । भद्र । विश्रम्यताम् इदानीम् ।

4.84

ऐन्द्रजालिकः । जं देवो आणवेदि । एक्को उण खेडणओ अवस्सं देवेण पेक्खिदव्वो ।

4.85

राजा । भद्र । एवम् । द्रक्ष्यामः ।

4.86

इति निष्क्रान्त ऐन्द्रजालिकः ।

4.87

वासवदत्ता । कञ्चणमाले । देहि से पारितोसिअं ।

4.88

काञ्जनमाला । जं देवी आणवेदि । इति निष्क्रान्ता ।

4.89

राजा । वसन्तक । प्रत्युद्गम्य प्रवेश्यतां वसुभूतिः ।

4.90

विदूषकः । जं भट्टा आणवेदि । इति निष्क्रान्तः ।
ततः प्रविशतो वसन्तकेन सह वसुभूतिबाभ्रव्यौ ।

4.91

वसुभूतिः । समन्ताद् अवलोक्य । अहो वत्सेश्वरस्य भवनद्वारभासः । तथा हि
आक्षिप्तो जयकुञ्जरेण तुरगान् निर्वर्णयन् वल्लभान्
संगीतध्वनिना हृतः क्षितिभुजां गोष्ठीषु तिष्ठन् क्षणम् ।
सद्यो विस्मृतसिंहलेन्द्रविभवः कक्षाप्रदेशेष्व् अहो
द्वाःस्थेनैव कुतूहलेन महता ग्राम्यो यथाहं कृतः ॥ 75 ॥ (4.12)

4.92

बाभ्रव्यः । अद्य खलु चिरात् स्वामिनं द्रक्ष्यामीति यत् सत्यम् आनन्दातिशयेन किम् अप्य् अवस्थान्तरम् अनुभवामि । कुतः ।
विवृद्धिं कम्पस्य प्रथयतितरां साध्वसवशाद्
अविस्पष्टां दृष्टिं तिरयतितरां बाष्पपटलैः ।
स्खलद्वर्णां वाणीं जडयतितरां गद्गदतया
जरायाः साहाय्यं मम हि परितोषो ऽद्य कुरुते ॥ 76 ॥ (4.13)

4.93

विदूषकः । अग्रे भूत्वा । एदु एदु अमच्चो ।

4.94

वसुभूतिः । विदूषकस्य कण्ठे रत्नमालां दृष्ट्वापवार्य । बाभ्रव्य । ज्ञायते । सैवेयं रत्नमाला या देवेन राजपुत्र्यै प्रस्थानकाले दत्तेति ।

4.95

बाभ्रव्यः । अमात्य । अस्ति सादृश्यम् । तत् किं वसन्तकाद् अवगच्छामि प्रभवम् अस्याः ।

4.96

वसुभूतिः । बाभ्रव्य । मा मैवम् । महति राजकुले रत्नानां बाहुल्यान् न दुर्लभो भूषणानां संवादः ।

4.97

विदूषकः । राजानम् उद्दिश्य । एसो क्खु महाराओ । ता उवसप्पदु अमच्चो ।

4.98

वसुभूतिः । उपसृत्य । विजयतां महाराजः ।

4.99

राजा । उत्थाय । आर्ये । अभिवादये ।

4.100

वसुभूतिः । श्रेयान् भूयाः ।

4.101

राजा । आसनम् आसनम् आर्याय ।

4.102

विदूषकः । आसनम् आनीय । एदं आसणं । ता उवविसदु अमच्चो ।

4.103

वसुभूतिर् उपविशति ।

4.104

विदूषकः । अमच्च । एसा देवी वासवदत्ता पणामं करेदि ।

4.105

वसुभूतिः । आयुष्मति । वत्सराजसदृशं पुत्रम् आप्नुहि ।

4.106

बाभ्रव्यः । देव । बाभ्रव्यः प्रणमति ।

4.107

राजा । पृष्ठे हस्तं दत्त्वा । बाभ्रव्य । इत आस्यताम् ।

4.108

बाभ्रव्य उपविशति ।

4.109

राजा । आर्य वसुभूते । अपि कुशलं तत्रभवतः सिंहलेश्वरस्य ।

4.110

वसुभूतिः । ऊर्ध्वम् अवलोक्य निःश्वस्य च । देव । न जाने । किं विज्ञापयामि मन्दभाग्य इति ।

4.111

वासवदत्ता । सविषादम् आत्मगतम् । हद्धी हद्धी । किं दाणिं वसुभूदी कधैस्सदि ।

4.112

राजा । वसुभूते । कथय । पर्याकुल इवास्मि ।

4.113

बाभ्रव्यः । अपवार्य । अमात्य । चिरम् अपि स्थित्वा यत् कथनीयं तद् इदानीम् एव कथ्यताम् ।

4.114

वसुभूतिः । सास्रम् । न शक्यं निवेदयितुम् । तथाप्य् एष कथयामि मन्दभाग्यः । देव । यासौ सिंहलेश्वरेण स्वदुहिता रत्नावली नामायुष्मती वासवदत्तां दग्धाम् उपश्रुत्य देवाय पूर्वप्रार्थिता सती दत्ता ।

4.115

राजा । अपवार्य । देवि । किम् इदम् अलीकं त्वन्मातुलामात्यः कथयति ।

4.116

वासवदत्ता । अज्जौत्त । अहं पि ण जाणामि । को एत्थ अलिअं मन्तेदि त्ति ।

4.117

विदूषकः । तदो ताए किं संवुत्तं ।

4.118

वसुभूतिः । सा च युष्मदन्तिकम् आनीयमाना यानभङ्गात् सागरे निमग्ना । इति रुदन्न् अधोमुखस् तिष्ठति ।

4.119

वासवदत्ता । सास्रम् । हा हदम् हि मन्दभाइणी । हा बहिणिए । कहिं सि । देहि मे पडिवअणं ।

4.120

राजा । देवि । समाश्वसिहि समाश्वसिहि । दुःखग्रहा गतिर् दैवस्य । वहनभङ्गपतितोत्थितौ नन्व् एताव् एव ते निदर्शनम् । इति वसुभूतिबाभ्रव्यौ दर्शयति ।

4.121

वासवदत्ता । अज्जौत्त । जुज्जदि एदं । कुदो उण मे एत्तिआइं भाअधेआइं ।

4.122

राजा । अपवार्य । बाभ्रव्य । कथय । किम् एतत् ।

4.123

नेपथ्ये कलकलः ।
हर्म्याणां हेमशृङ्गश्रियम् इव निचयैर् अर्चिषाम् आदधानः
सान्द्रोद्यानद्रुमाग्रग्लपनपिशुनितात्यन्ततीव्राभितापः ।
कुर्वन् क्रीडामहीध्रं सजलजलधरश्यामलं धूमपातैर्
एष प्लोषार्तयोषिज्जन इह सहसैवोत्थितो ऽन्तःपुरे ऽग्निः ॥ 77 ॥ (4.14)
अपि च ।देवीदाहप्रवादो ऽयं यो ऽभूल् लावणके पुरा ।
करिष्यन्न् इव तं सत्यं मन्ये ऽग्निर् अयम् उत्थितः ॥ 78 ॥ (4.15)

4.124

राजा । ससंभ्रमम् उत्थाय । कथम् । अन्तःपुरे ऽग्निः । कष्टम् । देवी वासवदत्ता दग्धा । हा प्रिये वासवदत्ते ।

4.125

वासवदत्ता । परित्ताअदु परित्ताअदु अज्जौत्तो ।

4.126

राजा । कथम् । अतिसंभ्रमाद् इहस्थापि देवी नोपलक्षिता । देवि । समाश्वसिहि समाश्वसिहि ।

4.127

वासवदत्ता । अज्जौत्त । ण अत्तणो कारणेण एव्वं भणामि । एसा खु मए णिग्घिणाए इध संजमिदा साअरिआ विवज्जदि । ता परित्ताअदु अज्जौत्तो ।

4.128

राजा । कथम् । सागरिका विपद्यते । देवि । एष गच्छामि ।

4.129

वसुभूतिः । देव । किम् अकारण एव पतङ्गवृत्तिः क्रियते ।

4.130

बाभ्रव्यः । देव । युक्तम् आह वसुभूतिः ।

4.131

विदूषकः । राजानम् उत्तरीये गृहीत्वा । भो । मा खु साहसं करेहि ।

4.132

राजा । उत्तरीयम् आकर्षन् । धिङ् मूर्ख । सागरिका विपद्यते । किम् अद्यापि प्राणा धार्यन्ते । धूमाभिभवं नाटयन् ।
विरम विरम वह्ने मुञ्च धूमानुबन्धं
प्रकटयसि किम् उच्चैर् अर्चिषां चक्रवालम् ।
विरहहुतभुजाहं यो न दग्धः प्रियायाः
प्रलयदहनभासा तस्य किं त्वं करोषि ॥ 79 ॥ (4.16)

4.133

वासवदत्ता । कधं । मम दुक्खकारिणीए वअणादो एव्वं अज्झवसिदं अज्जौत्तेण । ता अहं पि अणुगमिस्सं ।

4.134

विदूषकः । परिक्रामन्न् अग्रतो भूत्वा । अहं पि पधोवदेसओ होमि ।

4.135

वसुभूतिः । कथम् । प्रविष्ट एव ज्वलनं वत्सराजः । तन् ममापि दृष्टराजपुत्रीविपत्तेर् युक्तम् आत्मानम् आहुतीकर्तुम् ।

4.136

बाभ्रव्यः । सास्रम् । हा महाराज । किम् इदम् अकारण एव भरतकुलं संशयतुलाम् आरोपितम् । अथ वा किं प्रलापेन । अहम् अपि भक्तिसदृशम् आचरामि ।
इति सर्वे ऽग्निप्रवेशं नाटयन्ति ।
ततः प्रविशति निगडसंयता सागरिका ।

4.137

सागरिका । हद्धी हद्धी । आ । समन्तदो पज्जलिदो हुदवहो अज्ज दुक्खावसाणं मे करिस्सदि ।

4.138

राजा । अये । इयम् आसन्नहुतवहा सागरिका वर्तते । तत् त्वरितम् एनां संभावयामि ।

4.139

सागरिका । राजानं दृष्ट्वात्मगतम् । कधं । अज्जौत्तो । ता एदं पेक्खिअ पुणो मे जीविदासा संवुत्ता । प्रकाशम् । परित्ताअदु परित्ताअदु भट्टा ।

4.140

राजा । भीरु । अलं भयेन ।
मुहूर्तम् अपि सह्यतां बहुल एष धूमोद्गमो
हहा धिग् इदम् अंशुकं ज्वलति ते स्तनात् प्रच्युतम् ।
मुहुः स्खलसि किं कथं निगडसंयतासि द्रुतं
नयामि भवतीम् इतः प्रियतमे ऽवलम्बस्व माम् ॥ 80 ॥ (4.17)
कण्ठे गृहीत्वा निमीलिताक्षः स्पर्शं नाटयति । अहो । क्षणाद् अपगतो मे संतापः । अयि । समाश्वसिहि समाश्वसिहि ।
व्यक्तं लग्नो ऽपि भवतीं न धक्षति हुताशनः ।
यतः संतापम् एवायं स्पर्शस् ते हरति प्रिये ॥ 81 ॥ (4.18)
उन्मील्याक्षिणी दिशो ऽवलोक्य सागरिकां च मुक्त्वा । अहो महद् आश्चर्यम् ।
क्वासौ गतो हुतवहस् तदवस्थम् एतद्
अन्तःपुरं ...
वासवदत्तां दृष्ट्वा । ... कथम् अवन्तिनृपात्मजेयम् ।

4.141

वासवदत्ता । राज्ञः शरीरं परामृश्य सहर्षम् । दिट्ठिआ । अक्खदसरीरो अज्जौत्तो ।

4.142

राजा ।
बाभ्रव्यो एष ...

4.143

बाभ्रव्यः । देव । इदानीं प्रत्युज्जीवितो ऽस्मि ।

4.144

राजा । ... वसुभूतिर् अयं ...

4.145

वसुभूतिः । विजयतां महाराजः ।

4.146

राजा । ... वयस्य

4.147

विदूषकः । जअदु जअदु भवं ।

4.148

राजा । विचिन्त्य सवितर्कम् ।
स्वप्ने मतिर् भ्रमति किं न्व् इदम् इन्द्रजालम् ॥ 82 ॥ (4.19)

4.149

विदूषकः । भो । मा संदेहं करेहि । भणिदं खु तेण दासीए पुत्तएण इन्दजालिएण जधा । अवस्सं जेव्व देवेण एक्को मे खेडणओ पेक्खिदव्वो त्ति ।

4.150

राजा । देवि । त्वद्वचनाद् इयम् आनीता सागरिका ।

4.151

वासवदत्ता । विहस्य । अज्जौत्त । जाणिदं मए ।

4.152

वसुभूतिः । सागरिकां निवर्ण्यापवार्य । बाभ्रव्य । सदृशीयं राजपुत्र्याः ।

4.153

बाभ्रव्यः । अमात्य । ममाप्य् एतद् एवं मनसि वर्तते ।

4.154

वसुभूतिः । राजानम् उद्दिश्य । देव । कुत इयं कन्यका ।

4.155

राजा । देवी जानाति ।

4.156

वसुभूतिः । देवि । कुतः पुनर् इयं कन्यका ।

4.157

वासवदत्ता । अमच्च । एसा खु साअरिआदो पाविद त्ति भणिअ अमच्चजोअन्धराअणेण मम हत्थे णिक्खित्ता । अदो ज्जेव्व साअरिअ त्ति सद्दावीअदि ।

4.158

राजा । स्वगतम् । यौगन्धरायणेन न्यस्तेयम् । कथम् असौ ममानिवेद्य किं चित् करिष्यति ।

4.159

वसुभूतिः । अपवार्य । बाभ्रव्य । यथा सुसदृशी वसन्तकस्य कण्ठे रत्नमाला अस्याश् च सागरात् प्राप्तिस् तथा व्यक्तम् एवेयं सिंहलेश्वरस्य दुहिता रत्नावली । उपसृत्य प्रकाशम् । आयुष्मति रत्नावलि । त्वम् एतावतीम् अवस्थां गतासि ।

4.160

सागरिका । दृष्ट्वा सास्रम् । कधं । अमच्चो वसुभूदी ।

4.161

वसुभूतिः । हा हतो ऽस्मि मन्दभाग्यः । इति भुमौ पतति ।

4.162

सागरिका । वसुभूतेर् उपरि पतन्ती । हा ताद । हा अम्ब । कहिं सि । देहि मे पडिवअणं ।

4.163

वासवदत्ता । ससंभ्रमम् । अज्जकञ्चुइ । इअं सा मम बहिणिआ रअणावली ।

4.164

बाभ्रव्यः । देवि । इयम् एव सा ।

4.165

वासवदत्ता । रत्नावलीम् आलिङ्ग्य । बहिणिए । समस्सस समस्सस ।

4.166

राजा । कथम् । उदात्तवंशप्रभवस्य सिंहलेश्वरस्य विक्रमबहोर् आत्मजेयम् ।

4.167

विदूषकः । रत्नावलीं दृष्ट्वा स्वगतम् । पढमं जेव्व मए भणिदं । ण क्खु ईदिसो सामण्णजणस्स परिच्छओ भोदि त्ति ।

4.168

वासवदत्ता । सास्रं बाहू प्रसार्य । ऐ एहि । इदाणिं पिअबहिणिए । बन्धुसिणेहं दंसेहि ।

4.169

वसुभूतिः । आयुष्मति । समाश्वसिहि समाश्वसिहि । नन्व् इयं ते ज्यायसी भगिनी दुःखम् आस्ते । तत् परिष्वजस्वैनाम् ।

4.170

रत्नावली । समाश्वस्य राजानं तिर्यग् अवलोक्य स्वगतम् । किदावराहा खु अहं देवीए । ता ण सक्कणोमि मुहं दंसिदुं । इत्य् अधोमुखी तिष्ठति ।

4.171

वासवदत्ता । अपवार्य । अज्जौत्त । लज्जामि अहं इमिणा अत्तणो णिसंसत्तणेण । ता अवणेहि से बन्धणं ।

4.172

राजा । सपरितोषम् । यथाह देवी । इति सागरिकां मुञ्चति ।

4.173

वासवदत्ता । अज्जौत्त । अमच्चजोअन्धराअणेण एत्तिअं कालं दुज्जणीकिद म्हि जेण जाणन्तेण वि ण मे णिवेदिदं ।
ततः प्रविशति यौगन्धरायणः ।

4.174

यौगन्धरायणः ।
देव्या मद्वचनाद् यथाभ्युपगतः पत्युर् वियोगस् तथा
सा देवस्य कलत्रसंघटनया दुःखं मया स्थापिता ।
तस्याः प्रीतिम् अयं करिष्यति जगत्स्वामित्वलाभः प्रभोः
सत्यं दर्शयितुं तथापि वदनं शक्नोमि नो लज्जया ॥ 83 ॥ (4.20)
अथ वा किं क्रियत ईदृशम् अत्यन्तमाननीयेष्व् अपि निरनुरोधवृत्ति स्वामिभक्तिव्रतम् । निरूप्य । अयं देवः । यावद् उपसर्पामि । उपसृत्य । जयति जयति देवः । देव । क्षम्यतां यन् मयानिवेद्य कृतम् ।

4.175

राजा । यौगन्धरायण । किम् अनिवेद्य कृतम् ।

4.176

यौगन्धरायणः । करोत्व् आसनपरिग्रहं देवः । सर्वं विज्ञापयामि ।
सर्व उपविशन्ति ।

4.177

यौगन्धरायणः । देव । श्रुयताम् । येयं सिंहलेश्वरदुहिता सा सिद्धेनादिष्टा यथा । यो ऽस्याः पाणिग्रहणं करिष्यति स सार्वभौमो राजा भविष्यतीति । ततस् तत्प्रत्ययाद् अस्माभिः स्वामिनो ऽर्थे बहुशः प्रार्थ्यमानेनापि सिंहलेश्वरेण देव्या वासवदत्तायाश् चित्तखेदं परिहरता यदा न दत्ता ।

4.178

राजा । तदा किम् ।

4.179

यौगन्धरायणः । तदा लावणके देवी दग्धेति प्रसिद्धिम् उत्पाद्य तदन्तिकं बाभ्रव्यः प्रहितः ।

4.180

राजा । यौगन्धरायण । अतः परं श्रुतम् एव मया । अथेयं देवीहस्ते किम् इत्य् अनुचिन्त्य स्थापिता ।

4.181

विदूषकः । अणाचक्खिदं पि एदं जाणीअदि ज्जेव्व जधा । अन्तेउरगदा सुहेण दे दंसणपधं गमिस्सदि त्ति ।

4.182

राजा । गृहीतो ऽभिप्रायस् ते वसन्तकेन ।

4.183

यौगन्धरायणः । यथाज्ञापयति देवः ।

4.184

राजा । ऐन्द्रजालिकवृत्तान्तो ऽपि मन्ये त्वत्प्रयोग एव ।

4.185

यौगन्धरायणः । अन्यथान्तःपुरे बद्धाया अस्याः कुतो देवेन दर्शनम् । अदृष्टायाश् च वसुभूतिना कुतः परिज्ञानम् । विहस्य । परिज्ञातायाश् च भगिन्याः संप्रति यथा करणीयं तत्र देवी प्रमाणम् ।

4.186

वासवदत्ता । अज्जौत्त । फुडां जेव्व किं ण भणासि जधा । पडिवादेहि मे रअणावलिं ति ।

4.187

विदूषकः । भोदि । सुट्ठु तए जाणिदो अमच्चस्स अहिप्पाओ ।

4.188

वासवदत्ता । एहि रअणावलि एहि । एत्तिअं पि दाव मम बहिणिआणुरूवं भोदु । इति रत्नावलीं स्वकीयैर् आभरणैर् अलङ्कृत्य हस्ते गृहीत्वा राजानम् उपसृत्य । अज्जौत्त । एदं रअणावलिं पडिच्छ ।

4.189

राजा । सहर्षं हस्तौ प्रसार्य । को देव्याः प्रसादं न बहु मन्यते ।

4.190

वासवदत्ता । अज्जौत्त । दूरे क्खु एदाए णादिकुलं । ता तधा करेसु जधा बन्धुजणं ण सुमरेदि । इति समर्पयति ।

4.191

राजा । यथाज्ञापयति देवी ।

4.192

विदूषकः । सहर्षं नृत्यति । ही ही भो । जअदु जअदु भवं । पुढवी खु दाणिं हत्थगदा पिअवअस्सस्स ।

4.193

वसुभूतिः । देवि । स्थाने देवीशब्दम् उद्वहसि ।

4.194

बाभ्रव्यः । इदानीं सफलपरिश्रमो ऽस्मि संवृत्तः ।

4.195

यौगन्धरायणः । देव । किं ते भूयः प्रियम् उपकरोमि ।

4.196

राजा । किम् अतः परम् अपि प्रियम् अस्ति । यतः ।
नीतो विक्रमबाहुर् आत्मसमतां प्राप्तेयम् उर्वीतले
सारं सागरिका ससागरमहीप्राप्त्य् एकहेतुः प्रिया ।
देवी प्रीतिम् उपागता च भगिनीलाभाज् जिताः कोसलाः
किं नास्ति त्वयि सत्य् अमात्यवृषभे यस्मिन् करोमि स्पृहाम् ॥ 84 ॥ (4.21)
तथापीदम् अस्तु भरतवाक्यम् ।
उर्वीम् उद्दामसस्यां जनयतु विसृजन्वासवो वृष्टिम् इष्टाम्
इष्टैस् त्रैविष्टपानां विदधतु विधिवत्प्रीणनं विप्रमुख्याः ।
आकल्पान्तं च भूयत् समुपचितसुखः संगमः सज्जनानां
निःशेषा यान्तु शान्तिं पिशुनजनगिरो दुर्जया वज्रलेपाः ॥ 84 ॥ (4.22)
इति निष्क्रान्ताः सर्वे ।
इति चतुर्थो ऽङ्कः ।

मूल पाठ: Ratnāvalīnāṭikā · Edition: Carl Cappeller in: Otto Böhtlingk: Sanskrit-Chrestomathie, 3. verbesserte und vermehrte Auflage, herausgegeben von Richard Garbe, Leipzig 1909, pp. 326-382. · Data entry Martin Straube · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc