रत्नत्रयपरीक्षा · श्लोक 81-100
प्रत्यात्मनियता एता वृत्तयो बन्धनात्मिकाः
आभ्यो विविक्तमात्मानं न हि पश्यन्ति पुद्गलाः ॥
परमात्मैव वागात्मा वागेवात्मेति च श्रुतेः
वैखरी श्रोत्रजे बोधे मध्यमा सविकल्पके ॥
पश्यन्ती मध्यमोत्पाद समुद्योगेषु लक्ष्यते
यदावृत्तिरशेषेण विलीना चित्तसंश्रया ॥
तदा सूक्ष्मा विशुद्धेव चिदाभात्यविवेकतः
न सो ऽस्ति प्रत्ययो ऽणूनां यः शब्दानुगमादृते ॥
अनुविद्धमिह ज्ञानं सर्वं शब्देन जायते
सैषा चतुर्विधा वृत्तिर् निवृत्त्यादिकलाश्रयात् ॥
पञ्चधा भिद्यते भूयः कलास्ता बिन्दुवृत्तयः
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिश्च पञ्चमी ॥
शान्त्यतीताः कला एता याभिव्याप्तो ऽध्वपञ्चकम्
तत्त्वाध्वा भुवनाध्वा च वर्णाध्वा च पदात्मकः ॥
मन्त्राध्वा व्यापकस्तेषां कलाध्वा बिन्दुमाश्रितः
त्यक्त्वैकमेकं सम्प्राप्य कलादिष्वजरामरम् ॥
पदमासाद्यते पुम्भिर् अतो ऽध्वानः कलादयः
कलाध्वा वर्णितः पूर्वं निवृत्त्यादिविभेदतः ॥
व्याप्तिं तस्याभिधास्यामि साधाराङ्काधिदेवताम्
साकारकारणामात्म बिन्दुशक्तिशिवाश्रयाम् ॥
निवृत्तौ पार्थिवं तत्त्वं पुराण्यष्टोत्तरं शतम्
तेषु कालानलादीनाम् अनन्ताण्डस्य षड् बहिः ॥
प्राच्यादिषु दशस्वासन्न् आशास्वेकैकशो दश
रुद्राणां शतसंख्यानां वीरभद्रस्य चोपरि ॥
भद्रकाल्याश्च भुवने क्षकारो ऽर्णेषु कीर्तितः
एकाशीतिपदा देवी प्रतिसर्गपदक्रमात् ॥
अष्टाविंशतिसंख्यसितु पदैरत्र प्रतिष्ठिता
मन्त्रावजातहृदयौ तत्र सा तु परा कला ॥
भुवनादीनभिव्याप्य पञ्च पञ्चसु वर्तते
पीतैषा चतुरश्रा च कठिना वज्रलाञ्छिता ॥
ध्यातव्योद्यदनेकार्चिर् मांसला हृदयाम्बुजे
तत्प्रलीनाणुसंघस्य संकल्पो विनिवर्तते ॥
अनासाद्य फलं तेन निवृत्तिरभिधीयते
ब्रह्मात्र कारणं मन्त्रः सद्योजातो ऽधिदेवता ॥
प्रतिष्ठायां तु चत्वारि कलायामवनीं विना
भूतानि पञ्च तन्मात्राः पञ्च कर्मेन्द्रियाणि च ॥
पञ्च बुद्धीन्द्रियाण्यासन् मनोऽहङ्कारबुद्धयः
अव्यक्तमपि वर्णाश्च हादिटान्ता विलोमतः ॥
त्रयोविंशतिराम्नाताः षट्पञ्चाशत् पुराणि च
जलतेजो ऽनिलाकाश बुद्ध्यव्यक्तेष्वहङ्कृतौ ॥
मूल पाठ: Ratnatrayaparīkṣā · Edition: Vajravallabha Dvivedi's edition: Astaprakaranam Varanasi: Sampurnanand Sanskrit University, 1988. (Yogatantragranthamala, 12) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0