रत्नत्रयपरीक्षा · श्लोक 101-118
अष्टावष्टौ पदान्येक विंशतिस्तत्र संख्यया
शिरो वामश्च मन्त्रौ द्वौ विष्णुः कारणमुच्यते ॥
सा तु शुक्लार्धचन्द्राभा नीलोत्पलदलाङ्किता
ध्यातव्या गलपद्मान्तर् बहुलालोकशालिनी ॥
तत्प्रलीनाणुसंघस्य संकल्पो ऽर्थप्रसिद्धये
प्रतिष्ठितो यतस्तेन प्रतिष्ठा नाम सा कला ॥
वामदेवो ह्यधिष्ठाता वाच्यमन्त्रात्मको मतः
विद्यायां सप्त पुरुषो रागो नियतिसंयुतः ॥
विद्या कला च कालश्च मायातत्त्वानि तत्र तु
मायादिभुवनानां च विज्ञेयाः सप्तविंशतिः ॥
ञादयो ऽत्र घकारान्ता वर्णाः सप्त विलोमतः
पदानि विंशतिर्मन्त्रौ शिखाघोरौ व्यवस्थितौ ॥
रुद्रो ऽत्र कारणं मन्त्रो बहुरूपो ऽधिदेवता
सा तु स्फुरदनेकार्चिस् त्रिकोणा स्वस्तिकाङ्किता ॥
ध्यातव्या तालुपद्मान्तर् नीलाञ्जनसमद्युतिः
तत्प्रलीनाणुसंघस्य संकल्पो ऽशेषगोचरः ॥
सवार्थद्योतको येन तेन विद्येति गीयते
शान्तौ तु त्रीणि तत्त्वानि दशाष्टौ भुवनानि च ॥
कथितान्यत्र वर्णास्तु गादिकान्तास्त्रयो मताः
पदान्येकादशात्रासन् मन्त्रौ वक्त्रतनुच्छदौ ॥
भुवनादीन्यभिव्याप्य पञ्च षड्बिन्दुलाञ्छिता
षट्कोणोदितमल्पान्त सहस्रकिरणद्युतिः ॥
ध्यातव्या सा परा शक्तिर् भ्रूमध्यकमलोदरे
तत्प्रलीनाणुसंघस्य द्वेषरागाद्यभावतः ॥
संकल्पस्य प्रशान्तत्वाच् छान्तिरेषा निगद्यते
ईश्वरः कारणं तत्र मन्त्रस्तत्पुरुषाह्वयः ॥
तदधिष्ठायको ज्ञेयः पुरुषस्त्वधिदेवता
अत्र च त्रीणि तत्त्वानि पञ्चमी तु परा कला ॥
शिवतत्त्वात्मकं तत्र पुराणि दश पञ्च च
वर्णा विसर्गपूर्वा ये षोडश स्वरसंज्ञिताः ॥
ओमित्याद्यं पदं मन्त्राः शिवास्त्रेशानशब्दिताः
शान्त्यतीता च पञ्चाध्व गर्भिणी परमा कला ॥
चिन्तनीया महाकाश स्वरूपा मूर्धपङ्कजे
ईशानो मन्त्रराडेनाम् अधितिष्ठति कारणम् ॥
देवः सदाशिवस्तत्र कलाध्वेति प्रकीर्तितः
व्यापको भुवनादीनाम् अभिव्याप्तः स बिन्दुना ॥
मूल पाठ: Ratnatrayaparīkṣā · Edition: Vajravallabha Dvivedi's edition: Astaprakaranam Varanasi: Sampurnanand Sanskrit University, 1988. (Yogatantragranthamala, 12) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0