भाषा

ENहिગુ
ग्रंथ पाठ

रत्नत्रयपरीक्षा · श्लोक 61-80

61

तथा विद्येश्वरो ऽनन्तो मायामाक्रम्य तेजसा
ततः सृष्टिं प्रकुरुते सविकल्पकबोधवान् ॥

62

अणुत्वेअ सति कर्तृत्वाद् अस्मत्प्रेष्यो यथा जनः
अन्ये वृत्तिपरीणाम भेदवादविशारदाः ॥

63

गुरवः कथयन्त्येनम् अन्यथोक्तविशेषणम्
परिणामस्य कर्तायं न तु वृत्तेस्ततस्तथा ॥

64

इदमेवं मया क्षुब्धम् इष्टं सम्पादयेद् ध्रुवम्
इति जानाति यः शक्तः स कर्ता परिणामिनाम् ॥

65

परिणामिष्वयं धर्मो वृत्तिमत्स्वन्यथा भवेत्
तथा हि सर्वो निर्धूत विकल्पमवलोकयन् ॥

66

वस्तु लोको विजानाति सविकल्पकमन्यथा
अनन्तेनापि शब्दानु विद्धविज्ञानपूर्वकम् ॥

67

सर्वं चेदिह विज्ञातम् इष्येतैष करोति च
सविकल्पं विजानामीत्य् अवबोधाभिमानतः ॥

68

वृत्तिरेव मता बिन्दोः पटस्येव कुटी ततः
निर्विकल्पकबोधे ऽपि बिन्दुमीशो ऽधितिष्ठति ॥

69

नैवं विद्येश्वरो मायाम् एषा हि परिणामिनी
न वृत्तिपरिणामाभ्यां कर्तृभेदो ऽवधार्यते ॥

70

कुर्वतो ऽपि कुटीं बुद्धिः सविकल्पा हि दृश्यते
शब्दतत्त्वमघोषा वाग् ब्रह्म कुण्डलिनी ध्रुवम् ॥

71

विद्याशक्तिः परा नादो महामायेति देशिकैः
बिन्दुरेवं समाख्यातो व्योमानाहतमित्यपि ॥

72

चतस्रो वृत्तयस्तस्य याभिर्व्याप्तास्त्रिधाणवः
वैखरी मध्यमाभिख्या पश्यन्ती सूक्ष्मसंज्ञिता ॥

73

तत्र सा वैखरी श्रोत्र ग्राह्या यार्थस्य वाचिका
स्थानेषु विधृते वायौ कृतवर्णपरिग्रहा ॥

74

प्रयोक्तॄणामियं प्रायः प्राणवृत्तिनिबन्धना
केवलं बुद्ध्युपादाना क्रमाद् वर्णानुपायिनी ॥

75

अन्तःसंजल्परूपा तु न श्रोत्रमुपसर्पति
प्राणवृत्तिमतिक्रम्य वर्तते मध्यमाह्वया ॥

76

अविभागेन वर्णानां सर्वतः संहृतिक्रमात्
स्वयम्प्रकाशा पश्यन्ती मायूराण्डरसोपमा ॥

77

स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी
यस्यां दृष्टस्वरूपायाम् अधिकारो निवर्तते ॥

78

पुरुषे षोडशकले तामाहुरमृताह्वयाम्
केवलः परमानन्दो घोरो नित्योदितः प्रभुः ॥

79

नास्तमेति न चोदेति न श्रान्तो न विकारवान्
सर्वभूतान्तरचरः शब्दब्रह्मात्मको रविः ॥

80

भित्त्वा यं बोधखड्गेन निर्गच्छन्त्यविशङ्किताः
तामेव वाणीं सूक्ष्माख्याम् आहुरात्मविदो जनाः ॥

मूल पाठ: Ratnatrayaparīkṣā · Edition: Vajravallabha Dvivedi's edition: Astaprakaranam Varanasi: Sampurnanand Sanskrit University, 1988. (Yogatantragranthamala, 12) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc