रत्नत्रयपरीक्षा · श्लोक 41-60
जलादिक्षितिपर्यन्तं तत्त्वजातमसूत सा
अविशुद्धजडत्वेन मायामार्गतया तथा ॥
दुःखानुषङ्गान्मायेय कार्माणवमलान्वयैः
सकलाणूपभोग्यत्वात् परिणामोदयैरपि ॥
माया जडान्तरव्याप्ता परिणामवती च यत्
निष्पादने कलादीनां शरीरादिसमन्वितम् ॥
पुरुषं गमयेदेव पराधीनमसंशयम्
सुवर्णमिव कर्मारं मकुटोत्पादकर्मणि ॥
सैषा विकल्पविज्ञान गोचरैव सती च यत्
क्षोभ्यते ऽनन्तनाथेन कुम्भकारेण मृद् यथा ॥
सविकल्पकविज्ञानं चितेः शब्दानुवेधतः
स तु शब्दश्चतुर्धा वाग् वैखर्यादिविभेदतः ॥
जायते बिन्दुसंक्षोभाद् अनन्तस्यार्थदर्शने
विद्याशरीरो भगवान् अनन्तः क्षोभको मतः ॥
मायायाः सा च विद्वद्भिर् बैन्दवं तत्त्वमुच्यते
अतो न मायोपादानं तथैवायं महेश्वरः ॥
चेतनत्वादवृत्तित्वात् परिणामात् ततस्तथा
आत्मा शक्तिश्च विज्ञेयौ विस्तरो ऽत्रैव वक्ष्यते ॥
इतो ऽपि लक्ष्यते बिन्दुर् अणुवैषम्यदर्शनात्
दृश्यन्ते पुद्गलाः केचिद् अल्पज्ञानक्रियान्विताः ॥
तेभ्यो ऽधिकाः परे ऽन्ये तु सर्वज्ञा बलशालिनः
पुद्गलश्चेतनो नित्यो विकाररहितो मतः ॥
विकारित्वे जडानित्य भावः स्याद् घटकुड्यवत्
तथैव च चितिः शक्तिस् तयोरप्यविकारिणोः ॥
बहुधा यदवस्थानं तदुपाधिवशाद् भवेत्
सम्पृक्ता चिदणोर्येन मायाद्यर्थावलोकने ॥
यदुपाधेर्विचित्रा च स बिन्दुर्बहुवृत्तिकः
न कर्मणाणोर्वैचित्र्यम् अनपेक्षेण जायते ॥
वैचित्र्यमपि भोगस्य सापेक्षेणैव तेन यत्
कर्मोपभोगं कुरुते वैचित्र्यं चन्दनादयः ॥
तदेव यदि तत्कुर्यात् किं तैरिति विलुप्यताम्
प्रवृत्तिः सर्वभूतानां त्यागोपादानकारणम् ॥
किञ्चातिशायिकं प्राहुस् तमम्बरमनश्वरम्
शिवानामसमैश्वर्य भाजां भोगाधिकारयोः ॥
ज्योतिर्गणानामाकाशम् इव भूतादिकारणम्
बिन्दुरेव विकल्पाख्यां सविकल्पकबुद्धिषु ॥
स्ववृत्तिभेदसम्भेदैर् उल्लिखन् लभते चितिम्
न चायं भावनासंज्ञः संस्कारो ऽध्यक्षभावतः ॥
संस्काराः स्मृतिलिङ्गा हि नास्मत्प्रत्यक्षगोचराः
न बुद्धेः परिणामो वा मायोर्ध्वमपि सम्भवात् ॥
मूल पाठ: Ratnatrayaparīkṣā · Edition: Vajravallabha Dvivedi's edition: Astaprakaranam Varanasi: Sampurnanand Sanskrit University, 1988. (Yogatantragranthamala, 12) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0