भाषा

ENहिગુ
ग्रंथ पाठ

रत्नत्रयपरीक्षा · श्लोक 21-40

21

तमासेव्य मयाप्येषा बिन्दुशक्तिशिवाश्रया
परीक्षा क्रियते तत्र बिन्दुरादौ निरूप्यते ॥

22

जायते ऽध्वा यतः शुद्धो वर्तते यत्र लीयते
स बिन्दुः परनादाख्यः नादबिन्द्वर्णकारणम् ॥

23

उत्तीर्णमायाम्बुधयो भग्नकर्ममहार्गलाः
अप्राप्तशिवधामानस् त्रिधा विज्ञानकेवलाः ॥

24

विद्याविद्याधिपतयः पशुपूर्वाः सदाशिवाः
तत्र विद्याभुजः पूर्वे मन्त्रा विद्याश्च नामतः ॥

25

विद्येश्वरनियोज्यास्ते संख्यया सप्तकोटयः
तेषां पुराणि वियायां वामादीनि यथोत्तरम् ॥

26

स्फीतानि नव जातानि तनुभोगेन्द्रियादिभिः
मध्याः प्रशान्तकलुषा विद्येशाः शिवतेजसः ॥

27

अधिकारमलोपेतास् तत्त्वमैशं समाश्रिताः
शिवार्ककरसम्पर्क विकासात्मीयशक्तयः ॥

28

अष्टावनन्तपूर्वास्ते यथापूर्वं गुणाधिकाः
तथा पुराणि तत्रैषाम् अनन्तः परमेश्वरः ॥

29

तत्राणवः पुरेष्वासन् नाप्यन्ये तद्विभूतयः
परे सदाशिवसमाः पतिकृत्याधिकारिणः ॥

30

मूर्धानमध्वनः प्राप्ताः प्रसन्ने परमेश्वरे
तत्त्वमेषामसूताङ्ग पुरभोगादिशोभितम् ॥

31

सदाशिवमधिष्ठातृ नाम्ना ते ऽपि सदाशिवाः
अष्टादशभिरध्वायं भुवनैः सह भोक्तृभिः ॥

32

त्रिभिश्च तत्त्वैरुद्दिष्टो विशुद्धः शिवकर्तृकः
सदाशिवादितत्त्वौघो नित्योपादानकारणः ॥

33

विकारित्वाद्यथा कुम्भस् तथा चैष ततस्तथा
पार्थिवो ऽपि भवेत्कुम्भो मायोपादानकारणः ॥

34

विनाशोत्पत्तिमत्त्वाभ्यां परिणामितया तथा
यद्यदुत्पद्यते वस्तु तन्मायेयं यथा कला ॥

35

उत्पत्तिनाशौ मायेय धर्मावाह महेश्वरः
परिणामो हि वस्तूनां पूर्वावस्थापरिच्युतेः ॥

36

अवस्थान्तरसम्प्राप्तिः क्षीरस्य दधिभाववत्
दध्नश्च तक्रवत् तत्र तक्रावस्था निरूप्यते ॥

37

न दध्नो नापि दुग्धस्य पूर्वावस्थे हि ते मते
सदवस्थं हि वस्त्वेकं पूर्वं क्षीरं ततो दधि ॥

38

पश्चात्तक्रं तथा माया विचित्रपरिणामतः
तत्त्वतात्त्विकभावानाम् उपादानमनश्वरम् ॥

39

ततो निदर्शनं साधु प्रसिद्धोक्तविशेषणम्
न माया नेश्वरो नाणुर् न शक्तिः शुद्धवर्त्मनः ॥

40

उपादानमतो बिन्दुः परिशेषेण लभ्यते
तथा हि माया या तेषां क्षोभितानन्ततेजसा ॥

मूल पाठ: Ratnatrayaparīkṣā · Edition: Vajravallabha Dvivedi's edition: Astaprakaranam Varanasi: Sampurnanand Sanskrit University, 1988. (Yogatantragranthamala, 12) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc