रत्नत्रयपरीक्षा · श्लोक 318-322
अनेनैव शरीरेण परां व्याप्तिमखण्डिताम्
प्राप्नुवन्ति महाधीरा धन्या हि शिवयोगिनः ॥
स पुनाति दृशा वाचा चरणेन करेण च
नदीजनपदोद्यान पुरादीनि स्वलीलया ॥
किं पुनः शरणायातं भवभीतमिमं जनम्
नमस्तथाविधायास्मद् गुरवे शिवतेजसे ॥
निधये योगरत्नानाम् अनन्तफलदायिनाम्
रामकण्ठकृतालोक निर्मलीकृतचेतसा ॥
रत्नत्रयपरीक्षेयं कृता श्रीकण्ठसूरिणा
श्रीरामकण्ठसद्वृत्तिं मयैवमनुकुर्वता
रत्नत्रयपरीक्षार्थः संक्षेपेण प्रकाशितः ॥
मूल पाठ: Ratnatrayaparīkṣā · Edition: Vajravallabha Dvivedi's edition: Astaprakaranam Varanasi: Sampurnanand Sanskrit University, 1988. (Yogatantragranthamala, 12) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0