भाषा

ENहिગુ
ग्रंथ पाठ

रत्नत्रयपरीक्षा · श्लोक 218-237

218

कस्य केन कथं व्याप्तिर् इत्यद्वैतप्रसिद्धये
प्रयुक्तो भेदमाख्याति प्रयोगः स्वाङ्गसिद्धये ॥

219

अद्वयेति निषेधो ऽपि चिति युज्येत तन्मते(?)
द्वैतभावस्ततो ऽन्यत्र सिद्ध्येत् सिद्धावपि ध्रुवम् ॥

220

प्रतिज्ञा भज्यते तेषाम् आशामात्रविजृम्भिता
आगमो ऽपि पदैस्तैस्तैः स्मारितार्थविशेषतः ॥

221

पदार्थजातं संसर्ग विशिष्टं कथयेत् कथम्
यद्यद्वयेयं संवित्तिः स्वेन स्यादभिधित्सिता ॥

222

आगमः कथमद्वैतम् अनुमानं च साधयेत्
निवार्यमाणमङ्गैः स्वैर् अद्वैतक्षपणक्षमैः ॥

223

किञ्च शब्दाः परित्यज्य मुख्यमर्थं विरोधतः
वर्तमाना हि दृश्यन्ते गौणे ऽर्थे लोकवेदयोः ॥

224

गौर्ब्राह्मणो ऽयमादित्यो यूप इत्येवमादयः
नैवं हेतुरदृष्टायां व्याप्तौ साध्यं न साधयेत् ॥

225

अतो हेतुबलाक्रान्ताः श्रुतयो द्वैतमात्मनाम्
मुख्यमप्यपहायार्थं नुतिं कुर्वन्ति संविदः ॥

226

प्रत्यक्षमपि गृह्णाति वस्तुनो निर्विकल्पकम्
भेदं परेभ्यो व्यावृत्ति रूपं येनोपजायते ॥

227

जायमानेन नामादि विशेषस्मृतिपूर्वकम्
सविकल्पमसन्दिग्धं व्यभिचारविवर्जितम् ॥

228

प्रत्यक्षसंज्ञं विज्ञानम् अन्यथा नोपपद्यते
अगृहीतार्थभेदस्य तन्नामादिविशेषवत् ॥

229

अनुमानस्य साफल्यम् अपि भेदग्रहे सति
व्याप्तिग्रहणसम्बन्धे सामान्ये सिद्धसाधनात् ॥

230

अपि चान्यत्वमद्वैत भेदयोरभ्युपैति चेत्
भेदः सिद्ध्येदथानन्य भाव एवं च साध्यते ॥

231

न हि दृष्टान्तमात्रेण साध्यसिद्धिर्भवेदतः
रज्जूदाहरणं शिष्य सम्मोहायैव केवलम् ॥

232

नापि संवित्समा रज्जोर् विशेषानुपलब्धितः
विवर्तमाना तैर्भावैर् ज्ञानमात्रनिवर्तकैः ॥

233

सा तु संवेदविज्ञाता तैस्तैर्भावैर्विवर्तते
मलोपरुद्धदृक्शक्तेर् नरस्येवोडुराट् पशोः ॥

234

यथा तैमिरिको हेतु सहस्रेणापि तर्कयन्
एकमिन्दुमनेकांस्तान् भूयोभूयः समीक्सते ॥

235

यथा वा पित्तसन्दुष्ट रसनः स्वादु तर्कयन्
अपि तिक्तं विजानाति पयः करणदोषतः ॥

236

यथा वाञ्जनसंयुक्ते क्वथ्यमाने च वारिणि
विदुषामपि नीलोष्ण प्रत्ययावविवेकतः ॥

237

तथा परीक्षिता सम्यग् आगमैः सोपपत्तिकैः
विवर्तमाना जातेति नष्टेति विविधेति च ॥

मूल पाठ: Ratnatrayaparīkṣā · Edition: Vajravallabha Dvivedi's edition: Astaprakaranam Varanasi: Sampurnanand Sanskrit University, 1988. (Yogatantragranthamala, 12) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc