रत्नत्रयपरीक्षा · श्लोक 198-217
ताभ्यामेवोपदेशाभ्यां परिणामो निराकृतः
बोधशक्तेरबोधस्य परिणामो हि दृश्यते ॥
परिणामापरिम्लानं शाश्वतं शिवमाश्रिता
समवायेन तादात्म्यान् न हि चित् परिणामिणी ॥
नित्यैषाशेषकार्याणां कारणत्वाद् यथेश्वरः
सत्त्वे कारणशून्यत्वाद् अपि बिन्दुवदिष्यते ॥
तथा हि तां समाश्रित्य सन्तो ऽन्ये शाश्वती सती
यत्सिद्धौ जगतः सिद्धिर् यदसिद्धौ न किञ्चन ॥
तत्सत्ता साध्यते कस्य केन वा प्रतिपाद्यते
तामेतामद्वयामेके कीर्तयन्ति विपश्चितः ॥
चितिं सदसदाकार विवर्तोल्लासशालिनीम्
यथा रज्जुरहिच्छिद्र मालाविभ्रमकारिणी ॥
न तानुत्पादयत्यर्थान् असतः प्रथयत्यसौ
ज्ञानमात्रं तथैवेयम् एकानेकायते भ्रमात् ॥
सेयं भ्रान्तिरनालम्बा सर्वन्यायविरोधिनी
विचाराल्लूनमूलत्वाद् अहेतुर्बन्धमोक्षयोः ॥
तस्मान्न बद्धो बन्धो ऽन्यो बन्धकश्च विचारतः
नित्यमुक्ताद्वयानन्त संविदेवास्ति केवलम् ॥
कथं पुनरयं भेद प्रतिभासो ऽपि दृश्यते
व्यवहारस्तु भेदात्मा विज्ञेयो वटयक्षवत् ॥
तथा हि भेदो भावानां न प्रत्यक्षो ऽक्षधीर्यतः
बालमूकादिविज्ञान तुल्यैवाकल्पनार्थजा ॥
सा विधात्री पदार्थानां न निषेधति किञ्चन
यद् विशेषणविज्ञानं शब्दसंस्कारपूर्वकम् ॥
देशकालाद्यपेक्षाक्षैर् उदपादि न तत्पुनः
अर्थसामर्थजं ज्ञानं स्मृतिसङ्कल्पवन्मतम् ॥
नानुमानागमौ तत्र प्रमाणं तदभावतः
प्रत्यक्ष एव तावर्थे विकल्पविषयावपि ॥
स्वोत्थैर्निबद्ध्यते तस्माच् छङ्कापाशैर्विमूढधीः
मुच्यते तेभ्य एवायं बन्धमोक्षौ न वस्तुतः ॥
इत्यद्वैतग्रहाविष्टाः प्रलपन्तो दयालुभिः
गुरुभिः प्रतिबोध्यन्ते सिद्धान्तागमदायिभिः ॥
यद्यद्वयेयं संवित्तिः प्रमाणैर्व्यावहारिकैः
साध्येत तैरेव दृढं तस्याः स्यात् सद्वितीयता ॥
प्रसिद्धाः पृथगेवालं धर्मिदृष्टान्तहेतवः
अप्रसिद्धस्य धर्मस्य सिद्ध्यै व्याप्त्युपबृंहिताः ॥
न सिद्धः साध्यते धर्मो नासिद्धैरपि तैस्तथा
सिद्ध्यसिद्धी च सम्भूय नैकत्र स्थातुमर्हतः ॥
सपक्षपक्षयोर्भेदे प्रमाणमनुमा भवेत्
ऐक्ये हि न तयोर्हेतु साधर्म्यं तदभावतः ॥
मूल पाठ: Ratnatrayaparīkṣā · Edition: Vajravallabha Dvivedi's edition: Astaprakaranam Varanasi: Sampurnanand Sanskrit University, 1988. (Yogatantragranthamala, 12) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0