भाषा

ENहिગુ
ग्रंथ पाठ

रत्नत्रयपरीक्षा · श्लोक 1-20

1

नमः शिवाय शक्त्यै च बिन्दवे शाश्वताय च
गुरवे च गणेशाय कार्तिकेयाय धीमते ॥

2

बिन्दुशक्तिशिवाख्यानि त्रीणि सिद्धान्तसागरात्
समुद्धृत्य सतां धर्तुं हृत्कण्ठश्रवणे सदा ॥

3

रत्नानि वाङ्मयैः सूत्रैर् निबध्यन्ते मया ततः
क्षन्तुमर्हन्ति तत्सन्तो नासूया परिचारके ॥

4

रञ्जनात्सर्वतत्त्वेषु रागादेभ्यो ऽधिकारयोः
ईश्वराणां शिवानां च धारणीयतया धिया ॥

5

पुंसामप्रतिघोदार मरीचिनिचयेन च
रत्नानीष्टविधानाच्च बिन्द्वाद्याः शिवशासने ॥

6

रत्नत्रयं समाश्रित्य वर्तते तत्त्वसंहतिः
अध्वैतत्प्राप्यते षोढा वर्ण्यते परमेष्ठिना ॥

7

एतदेव मतं बीजं त्रयं दीक्षाप्रतिष्थयोः
योगाश्च विविधाः कर्म नित्यनैमित्तिकं तथा ॥

8

ज्ञानानि सिद्धयो मोक्षा अपि तस्यावबोधनात्
एतदेव परा काष्ठा मोक्षाख्याणोर्विचारतः ॥

9

श्रोतव्यमेतदाप्तोक्त्या मन्तव्यं चोपपत्तिभिः
ध्येयं च योगमार्गेण शक्तिपातोदितात्मभिः ॥

10

आप्तोक्तिरत्र सिद्धान्तः शिव एवाप्तिमान् यतः
न ताभ्यां सदृशः कश्चिच् छ्रेय आप्तिविधायकः ॥

11

सिद्धान्त एव सिद्धान्तः पूर्वपक्षास्ततः परे
आप्तस्तु शिव एवैकः शिवान्ये त्वशिवा मताः ॥

12

सिद्धान्तः सेव्यते सद्भिः शक्तिपातपवित्रितैः
कामकारितयान्यैस्तु निन्द्यते पशुशास्त्रवत् ॥

13

न हि कस्तूरिकामोदः पुरुषैः प्रतिहन्यते
हेतुभिः साध्यते किन्तु धन्यैराघ्रायते सदा ॥

14

वेदान्तैश्च कुलाम्नायैस् तथान्यैः प्रतिपाद्यते
आनन्दविप्रलब्धानाम् आनन्दोपहिता चितिः ॥

15

चिन्महोदधिगाम्भीर्यम् अवसीयेत सूरिभिः
अवगाह्य परानन्द लहरी यदि नोत्क्षिपेत् ॥

16

तदत्र कथितं सर्व स्रोतसां ज्यायसि प्रभोः
उदक्षेणोर्ध्ववक्त्रेण ततस्तदवधारयेत् ॥

17

हेतूनपि परीक्षायै लक्षयेत् तस्य शास्त्रतः
न ह्यत्र शेमुषी शुद्धा विपुलापि प्रगल्भते ॥

18

अलौकिकानि सूक्ष्माणि गोपितानि शिवेन च
त्रीणि रत्नानि को वेत्ति सिद्धान्तेन विना स्वयम् ॥

19

हेतूनपि कुतर्कान्ध तमसारीन् मनीषया
तद्वद्योगं च को वेत्ति सबीजाबीजलक्षणम् ॥

20

सिद्धान्तः सेवितः सद्भिर् अपि कामान् प्रयच्छति
सर्वान् साधकचित्तस्थान् आप्तश्चिन्तामणिर्यथा ॥

मूल पाठ: Ratnatrayaparīkṣā · Edition: Vajravallabha Dvivedi's edition: Astaprakaranam Varanasi: Sampurnanand Sanskrit University, 1988. (Yogatantragranthamala, 12) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc