रत्नत्रयपरीक्षा · श्लोक 178-197
तथैकदेशतो बिन्दुः शक्तेर्व्याप्नोति चाखिलम्
एवं मायैकदेशेन विकरोति तथाखिलम् ॥
व्याप्नोति कार्यमात्मीयं तथैवाव्यक्तमिष्यते
तत्राक्षुब्धे भवेद्भोगो बिन्दावानन्दरूपिणि ॥
क्षुब्धे ऽधिकारो देवस्य लयो ऽतिक्रान्तबिन्दुकः
एकैव खलु चिच्छक्तिः शिवस्य समवायिनी ॥
त्रिविधोपाधिसम्भेदाल् लयभोगाधिकारिणी
तयैतयाभिसम्बन्धाद् एको देवस्त्रिधा भवेत् ॥
शिवः सदाशिवो ऽधीशो लयभोगाधिकारवान्
शक्तिरप्रतिघोदार मरीचिनिचयात्मिका ॥
नित्योदितानवच्छिन्ना निर्विकल्पस्वरूपिणी
निरावरणविर्द्वन्द्व निरुपादानवैभवा ॥
विविधोपाधिसम्बन्ध विवर्तभिदुरोदया
शान्तोदितप्रपञ्चादि बिन्दुव्याप्तिपटीयसी ॥
परानपेक्षानन्यात्म प्रकाश्या सर्वतोमुखी
आदिमध्यान्तरहिता रहिता सर्वबन्धनैः ॥
निष्ठा काष्ठा परा सूक्ष्मा वस्तुमात्रातिलालसा
चितिरेव मताम्लान महिमा परमेष्ठिनः ॥
शिवस्यानाहितापूर्व विशेषस्यैव सन्निधौ
तयैतयाभिसम्बन्ध विशेषान्नित्यरूपया ॥
विकरोति विचित्राभिर् वृत्तिभिः स्थगयन्निव
बिन्दुरापूरयन्नादैर् आणवं चिन्नभो मुहुः ॥
सरिद्वानभिसम्बन्धाद् इन्दुनार्कस्य सन्निधौ
विकरोति यथा लोलैः कल्लोलैर्नादयन्नभः ॥
सैषा शिवाश्रया शक्तिर् अमोघा बलशालिनी
एकानेकविभागेव कार्यभेदाद् विभाव्यते ॥
यथैका सवितुः शक्तिर् दानादानादिकर्मभिः
इच्छाकार्यमनिच्छापि कुर्वाणेच्छा चिदव्यया ॥
ज्ञानमज्ञानरूपैवम् अक्रियापि क्रिया तथा
यद् यस्याः कार्यमाम्नाय लोकाभ्यामवधारितम् ॥
तदेतद्रूपिणी शक्तिः कुरुते ऽचिन्त्यवैभवा
कामानपि बहूनेकः कल्पवृक्षः प्रयच्छति ॥
चिन्तामणिश्च विविधान् अचिन्त्यमहिमा यथा
तथानाहितसंस्कार विशेषैकस्वरूपिणी ॥
चिदचिन्त्या विभोः शक्तिर् अशेषार्थक्रियाविधौ
न जायते न म्रियते क्षीयते न च वर्धते ॥
चितिः शक्तिः प्रकाशत्वाद् अजडत्वाच्च यत् पुनः
उत्पद्यते नश्यति वा चिनोत्यपचिनोति च ॥
तदप्रकाशरूपं वा जडं वा दृश्यते यथा
शरीरादि तथा नासौ तस्मान्नैषा विकारिणी ॥
मूल पाठ: Ratnatrayaparīkṣā · Edition: Vajravallabha Dvivedi's edition: Astaprakaranam Varanasi: Sampurnanand Sanskrit University, 1988. (Yogatantragranthamala, 12) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0