रत्नत्रयपरीक्षा · श्लोक 158-177
उपादानं शरीराणां विद्याविद्येश्वरात्मनाम्
कार्यात्मिका सा मायेयं परिणामवती च यत् ॥
शरीरेन्द्रियसंयुक्तं कर्तारं साधयेत् ततः
विशुद्धस्याध्वनः सिद्धिर् अनिवार्यावतिष्ठते ॥
येषां माया मते ऽनित्या कलाविद्यादिकारणम्
न तेषामसितो मार्गः कलाशुद्ध्या विशुद्ध्यति ॥
कला हि शोधिताः पञ्च निवृत्त्याद्या विशुद्धये
तत्त्वादीनामतो बिन्दोः कार्यमध्वा विशेषतः ॥
न तु व्यापकमात्राणां शुद्ध्या शुद्धिर्मताध्वसु
अनुपादानरूपाणां कलानां नित्यशुद्धयोः ॥
शिवशक्त्योर्विशुद्ध्यैव सदा शुद्धिप्रसङ्गतः
इत्याख्याता महामाया सर्वाध्वप्रकृतिः परा ॥
आचार्यैस्तैरशेषाध्व कार्यवादविचक्षणैः
अन्ये तु कथयन्त्यत्र मायामध्वस्वनश्वरीम् ॥
उपादानं कलादीनाम् अभिव्याप्तां च बिन्दुना
शुद्धिश्च तादृशी ज्ञेया तयोरागमवेदिभिः ॥
यया व्यापकशुद्ध्यैव विशुद्धिरितराश्रया
मन्त्रयोनिर्महामाया या परिग्रहवर्तिनी ॥
शिवस्य शक्तिराक्रान्ता यया सर्वे ऽपि पुद्गलाः
सेयं क्रियात्मिका शक्तिर् ईश्वरी सर्वदोदिता ॥
वर्तमाना पशुष्वेव पाशत्वेन व्यवस्थिता
पशून् वर्तयते नित्यं नानायोनिष्वनिश्चिता ॥
स्वपरामर्शवीर्येण भोगमोक्षौ प्रयच्छति
सा भोगसाधनोपाय प्रत्ययोदयहेतुना ॥
शब्दानुवेधेन सदा मोहयेदविवेचिता
सर्वथैवामृतप्राप्तेः पृथक्कारं प्रतन्वती ॥
ततो ऽभूद् विषयाभोग प्रीतिलालसचेतसः
ज्ञानं परामृतोपाय हेतुः परिकरः पशोः ॥
तच्च शब्दानुवेधेन शब्दराशेरभूदसौ
शब्दराशिश्च बिन्दूत्थो बिन्दुर्नादादसावपि ॥
बिन्दोरनाहतादेष कारणं शुद्धवर्त्मनः
तत्र भोक्तृतया भोगैः शरीरेन्द्रियगोचरैः ॥
मलः कर्म च माया च विशुद्धमनुमीयते
मायैव कारणं शुद्धा शुद्धयोर्मलकर्मणोः ॥
अशुद्धयोरशुद्धैव मायातो द्विविधा मता
बिन्दोर्विवेके सहसा च्छिद्यते मलकम्बुकः ॥
मायापुरुषविवेके तु धर्माधर्मतुषक्षयः
उत्तिर्णमायमात्मानं महामायानुषङ्गिणम् ॥
उद्दिश्य शक्तिरीशस्य बिन्दोः क्षोभाय वर्तते
यथोदधिरुपर्येव विकरोत्यनिलेरणात् ॥
मूल पाठ: Ratnatrayaparīkṣā · Edition: Vajravallabha Dvivedi's edition: Astaprakaranam Varanasi: Sampurnanand Sanskrit University, 1988. (Yogatantragranthamala, 12) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0