भाषा

ENहिગુ
ग्रंथ पाठ

रत्नत्रयपरीक्षा · श्लोक 139-157

139

स वर्जनीयो विद्वद्भिः सर्वास्तिकबहिष्कृतः
क्रियया हेतुभूतत्वात् क्रियाशक्तिश्चिदेव यत् ॥

140

बिन्दुरन्यो न मायोर्ध्वम् अचिदस्तीति चेतनम्
जायते ऽध्वा कुतः शुद्धः क्व वा लीयेत केन वा ॥

141

षोढा भवेदयं तत्त्व भुवनादिविभेदतः
विज्ञानकेवलास्त्रेधा कथं कस्माच्च ते पुनः ॥

142

विमुच्येरन्नृते बिन्दोस् तद्वैचित्र्यविधायिनः
न हि चित् परिणामेन कुरुते तदशेषतः ॥

143ab

चैतन्यभावादित्यग्रे वक्ष्यते शक्तिनिर्णये ॥

143cd

स्यादेष कल्पितानेक भेदः कार्यविशेषतः ॥

144

एक एव शिवो नैक शक्तिमानिति चेन्मतम्
मायेयो ऽपि तथा तु स्याद् अध्वा युक्त्यविशेषतः ॥

145

यथास्वं हेतुभिः शास्त्रैः प्रत्यक्षैरपि योगिनाम्
प्रसिद्धानध्वनः शुद्धान् प्रत्याचष्टे कथं सुधीः ॥

146

विशिष्टे परमोदार दातरीशे यथागमम्
प्रवृत्तिरुपभोगाय मोक्षाय च निगद्यते ॥

147

सदाशिवपदं योगाच् चर्यातो वाथ दीक्षया
प्राप्यते चित्तभेदेन मोक्षो वाथ चतुष्टयात् ॥

148

इति भोगः समाख्यातः सदाशिवपदं महत्
न तत्र मायोपादानं तनुभोगादि जायते ॥

149

विशुद्धत्वादतः सिद्धः शुद्धाध्वा चोपभुक्तये
किञ्च माया प्रयोज्येन कर्त्रा केनाप्यधिष्ठिता ॥

150

उपादानं कलादीनां कलाव्याप्तस्वरूपिणी
यथा मृत्कलशादीनां कुलालेन तथा ह्यसौ ॥

151

प्रयोज्यः पशुभावेन कर्ता हेतुर्महेश्वरः
अज्ञो जन्तुरनीशो ऽयम् आत्मकार्ये ऽपि कीर्तितः ॥

152

ईश्वरप्रेरितः कुर्याच् छुभं वा यदि वाशुभम्
प्रयोज्यत्वाच्छरीरादि युक्तो ऽनन्तः कुलालवत् ॥

153

मायायाः क्षोभको येन शरीरेणेन्द्रियेण च
देशादिना स सिद्धो ऽध्वा विशुद्धः शिवशासने ॥

154

अवस्थामपरे बिन्दोर् मायामाहुर्विपश्चितः
कलाव्याप्तस्वरूपा च पुद्गलाधिष्ठिता च यत् ॥

155

तथैव प्रकृतिस्तेषां स्थूला सूक्ष्मा परेत्यसौ
महामाया भवेत् त्रेधा तत्र स्थूला गुणात्मिका ॥

156

बुद्ध्यादिभोग्यजननी प्रकृतिः पुरुषस्य सा
सूक्ष्मा कलादितत्त्वानाम् अविभागस्वरूपिणी ॥

157

जननी मोहिनी माया सर्वाशुद्धाध्वकारणम्
मन्त्रयोनिः परा माया नित्या कुण्डलिनी तु या ॥

मूल पाठ: Ratnatrayaparīkṣā · Edition: Vajravallabha Dvivedi's edition: Astaprakaranam Varanasi: Sampurnanand Sanskrit University, 1988. (Yogatantragranthamala, 12) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc