भाषा

ENहिગુ
ग्रंथ पाठ

रत्नत्रयपरीक्षा · श्लोक 119-138

119

बिन्दुः शक्त्या शिवेनैषा नान्येन व्याप्यते शिवः
स हि देवः समावृत्य स्वशक्त्यानन्यभूतया ॥

120

सर्वमाक्रम्य च तया विजानाति करोति च
अन्यस्यान्यत्र सद्भावः सर्वदाव्यभिचारिणी ॥

121

व्याप्तिराप्तपदार्थात्म लाभस्थितिनिबन्धनम्
द्विधा सा सन्निधावेका परमात्मविधानतः ॥

122

तत्र सन्निधिमात्रेण विदधात्यखिलं चितिः
यथार्को दिनचेष्टानां सन्निधेरुपकारकः ॥

123

बिन्दुरात्मनि नादादीन् अध्वनः षडपि क्रमात्
विचित्रैः परिणामैस्तैर् विदधाति शिवेरितः ॥

124

यथा मृत्कलशादीनि कुलालाधिष्ठिता सती
येन यद् व्याप्यते वस्तु परिणामितया स्वयम् ॥

125

सा तस्य विकृतिः प्रोक्ता हेम्नस्तु मकुटो यथा
बिन्दुना व्याप्यते यो ऽसौ षड्विधो ऽध्वा कलादिकः ॥

126

सा तस्य विकृतिस्तेन व्याप्तत्वान्नादबिन्दुवत्
केचिदाचक्षते बिन्दुः समवैति शिवे ततः ॥

127

दृक्शक्तिवत् क्रियाशक्तिर् इयं कुण्डलिनी परा
द्वे शक्ती समवायिन्यौ शिवे ज्ञानक्रियात्मिके ॥

128

आद्या तु संविद् विज्ञानं क्रिया कुण्डलिनी परा
ज्ञानशक्त्या विजानाति क्रियया कुरुते जगत् ॥

129

क्रिया हि फलदा पुंसां न ज्ञानं स्यात् फलप्रदम्
ताभ्यां न विरहस्तस्य ते च न स्तः शिवं विना ॥

130

तयोः प्रसरतोः साम्ये तत्त्वात्मा स्यात् सदाशिवः
ईशाधिकक्रियाशक्त्योर् विद्याज्ञानातिरिक्तयोः ॥

131

तत्त्वेषु तेषु विज्ञान केवलानां महात्मनाम्
भुवनानि विचित्राणि स्वभावललिताः प्रियाः ॥

132

भोगानप्यपरिम्लानान् अङ्गानि करणानि च
विदधाति शिवः शक्तेर् अनन्यायाः क्रियात्मनः ॥

133

नादादीनपि तेनैष कर्ता शुद्धाध्वनो मतः
अतो नायं पृथक् शक्तेः शक्तिरेव क्रियात्मिका ॥

134

समवेता शिवे बिन्दुर् इति तत्राभिधीयते
सो ऽयमात्मनि तत्त्वौघम् अनेकभुवनावलिम् ॥

135

विदधद् विविधानल्प तनुभोगेन्द्रियादिकम्
बिन्दुराख्यायते युक्त्या परिणामी प्रधानवत् ॥

136

परिणामि च यद्वस्तु तदवश्यं जडात्मकम्
यथा क्षीरं जडत्वे ऽस्य समवायः कथं शिवे ॥

137

स हि तादात्म्यसम्बन्धो जडेन जडिमावहः
शिवस्यानुपमाखण्ड चिद्घनैकस्वरूपिणः ॥

138

यस्त्वेनं मन्यते मोहाज् जडधीर्जडमीश्वरम्
न तस्य युक्तिः शास्त्रं वा नात्मा नास्ति च देवता ॥

मूल पाठ: Ratnatrayaparīkṣā · Edition: Vajravallabha Dvivedi's edition: Astaprakaranam Varanasi: Sampurnanand Sanskrit University, 1988. (Yogatantragranthamala, 12) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc