भाषा

ENहिગુ
ग्रंथ पाठ

रत्नमालावदान · भाग 421436

ततो ऽन्यत्र व्रजंत्य् एवं ददर्श कृष्णपंनगं ॥ र्म्_38.696{34} ॥
तत्र स कृष्णसर्पस् ताम् आलोक्य समुपागतां ।
सहसा समुपाक्रम्य विषाग्निनात्यतापयत् ॥ र्म्_38.697{35} ॥
ततः सा मूर्छिता देवी चिरात् स्वयं समुत्थिता ।
तां श्रीवसुंधरां स्मृत्वा तत्र तस्थौ क्षणं तथा ॥ र्म्_38.698{36} ॥
ततः सा सुंदरीरूपा त्यक्तकोलमुखाभवत् ।
कालसर्पः स ताम् आह का त्वं कुतः समागता ॥ र्म्_38.699{37} ॥
चूडदेवी ततः प्राह सूर्योदयप्रियास्म्य् अहं ।
श्रीदेवीदर्शनार्थं तु आगता मान्यथ फणि ॥ र्म्_38.700{38} ॥
ततः पातकमुक्ता सा प्रचरंती बुभुक्षिता ।
बीजपूरकम् आलोक्य तद् आदातुम् उपाचरत् ॥ र्म्_38.701{39} ॥
तत्र तत् फलम् आलोक्य हस्ताभ्यां सहसाग्रहीत् ।
तस्य हि दैवयोगेन तत्फलं न व्यमुंच्यत ॥ र्म्_38.702{40} ॥
तत्र सा तत्फले लग्नहस्ता तस्थौ तथा क्षणं ।
ततः सा त्रसिता दृष्ट्वा न गृह्नामीति चावदत् ॥ र्म्_38.703{41} ॥
एतद् उक्ते भुजौ तस्यास् तत् फलं सहसात्यजत् ।
ततः सा विस्मितान्य्र भ्रमंती दूरतो ऽव्रजत् ॥ र्म्_38.704{42} ॥
ततः सा दूरतो नद्याः शब्दं श्रुत्वा प्रधाविता ।
स्वदैवप्रेषिता तत्र तीरम् अवापतत् क्षणात् ॥ र्म्_38.705{43} ॥
तत्र सा तज् जलं पातुं सहसा समुपाचरत् ।
तत्र सा तज् जलं पीत्वा स्नात्वा चैव समाश्रयत् ॥ र्म्_38.706{44} ॥
तत्र सा दूरतः पूर्णहेमघटशिरोवहाः ।
सुरांगणाः सुभद्रांगा ददर्श समुपागताः ॥ र्म्_38.707{45} ॥
तत्र सा ताः समालोक्य सहसोपेत्य सांजलिः ।
प्रणत्वा समुपासीना समीक्ष्यैवम् अपृछत ॥ र्म्_38.708{46} ॥
अहो भाग्यं मया लब्धं यद् भवत्यात्र दर्शिता ।
तद् दृष्ट्वा कृपया सर्वा स्नातुम् अर्हन्ति सर्वथा ॥ र्म्_38.709{47} ॥
भवंत्यो ऽमृतसंपूर्णहैमघटशिरोवहाः ।
कुत्र गंतुं चरंत्य् अत्र सत्यम् एतद् वदंतु मे ॥ र्म्_38.710{48} ॥
इति तयोदितं श्रुत्वा तासाम् एका प्रधानिका ।
सालोक्य चूडदेवीं तां समामंत्र्यैवम् अब्रवीत् ॥ र्म्_38.711{49} ॥
भद्रे त्वं न जानासि या श्रीदेवी वसुंधराः ।
तस्या इमे ऽमृता पूर्णा नीयंते स्नपने घटाः ॥ र्म्_38.712{50} ॥
देवीस्नानोदकैः सर्वैर् एषा नदी वहत्य् अपि ।
एतन् नद्यमृतेनात्र नेत्रे प्रक्षाल्य दृश्यतां ॥ र्म्_38.713{51} ॥
एवं देव्या तयादिष्टं चूडदेवी निशम्य सा ।
तथेत्य् अभ्यनुमोदंती तथा कर्तुं समैछत ॥ र्म्_38.714{52} ॥
ततः सा तन् नदीतीरे स्थित्वामृतेन चक्षुषी ।
संप्रक्षाल्य ततः सस्ने पपौ तद् अमृतं मुदा ॥ र्म्_38.715{53} ॥
ततो निर्मुक्तपापा सा चूडदेवी पवित्रिता ।

सुदृष्टिर् अभवत् तत्र समंताप्रतिहतेक्षणः ॥ र्म्_38.716{54} ॥
तत्रस्था चूडदेवी सा प्राद्राक्षीत् तत् क्षणाद् अपि ।
श्रीवसुधां महादेवीं सगणां मण्डलास्थितां ॥ र्म्_38.717{55} ॥
तत्र तां श्रीमहादेवीं दृष्ट्वा सा प्रतिमंडिता ।
सहसा सांजलिर् नत्वा पश्यंती समुपाचरत् ॥ र्म्_38.718{56} ॥
तत्र सा समुपेत्याशु कृत्वा प्रदक्षिणां मुदा ।
सगणां स महादेवीं प्रणनाम कृतांजलिः ॥ र्म्_38.719{57} ॥
ततः सा श्रीमहादेवी चूडदेवीं समीक्स्य तां ।
स्वागतासि समेहि त्वम् इत्य् एवं समभाषत ॥ र्म्_38.720{58} ॥
एवं देव्या तयादिष्टं चूडदेवी निशम्य सा ।
सांजलिर् अश्रु मोचंती देव्याः पादाम्बुजे ऽपतत् ॥ र्म्_38.721{59} ॥
ततः सा श्रीवसुंधारा महादेवी विलोक्य तां ।
पादाब्जे पतितां धृत्वा समाश्वास्यैवम् आदिशत् ॥ र्म्_38.722{60} ॥
भागिनि भद्र उत्तिष्ठ धैर्यम् आलंव्य पश्यतां ।
मा विषीद प्रसीदात्र पूरयामि तवैहितं ॥ र्म्_38.723{61} ॥
एतत् तया महादेव्या समादिष्टं निशम्य सा ।
चूडदेवी प्रसन्नास्या प्रणत्वैवं न्यवेदयत् ॥ र्म्_38.724{62} ॥
भगवति जगद्भर्त्ति वसुधारे महेश्वरि ।
भवत्याः शरणं यामि क्षमस्व मे ऽपराधतां ॥ र्म्_38.725{63} ॥
प्रसीद मे महादेवि कृपानुग्रहतां कुरु ।
यन् मया प्रकृतं पापं तत् सर्वं क्षंतुम् अर्हति ॥ र्म्_38.726{64} ॥
यद् एतद् दूरतो चाहं समायातास्म्य् अविघ्नतः ।
तद् भवत्याः प्रसादेन नान्यथेति हि मन्यते ॥ र्म्_38.727{65} ॥
तद् इह ते महादेव्या श्रद्धया शरणास्थिता ।
व्रतं चरितुम् इछामि तत् प्रसीद कृपानिधे ॥ र्म्_38.728{66} ॥
इति तयार्थितं श्रुत्वा सा श्रीदेवी वसुंधरा ।
तां श्रद्धाभिसंशुद्धां समालोक्यैवम् आदिशत् ॥ र्म्_38.729{67} ॥
साधु वत्से पुनर् गत्वा स्वपुरे स्वामिना सह ।
आचार्येण यथादिष्टं व्रतं कुरु समाहित ॥ र्म्_38.730{68} ॥
तदा तत्र गृहे ते ऽहं स्वयम् आगत्य संस्थिता ।
करिष्यामि सदा भद्रं सर्वत्र निरुपद्रवं ॥ र्म्_38.731{69} ॥
तदा ते सर्वदा गेहे देहे च मंगलं भवेत् ।
ततः सर्वार्थसंपत्तिः परिवृद्धाः सुसंस्थिता ॥ र्म्_38.732{70} ॥
ततस् तद् अर्थम् आदाय देहे ऽर्थिभ्यो यथेप्सितं ।
त्रिरत्नभजनं कृत्वा चरस्व सर्वदा शुभे ॥ र्म्_38.733{71} ॥
तथा संपारपूर्य त्वं सर्वाः पारमिताः क्रमात् ।
त्रिविधां बोधिम् आसाद्य संबुद्धपदम् आप्स्यसि ॥ र्म्_38.734{72} ॥
एतद् देव्या समादिष्टं चूडदेवी निशम्य सा ।
तथेत्य् अभ्यनुमोदंती प्रत्यश्रोषीत् प्रणामिता ॥ र्म्_38.735{73} ॥
ततः सा चूडदेवी च तां श्रीदेवीं वसुंधरां ।

सुप्रसन्ना समानम्य समीक्ष्यैवं न्यवेदयत् ॥ र्म्_38.736{74} ॥
यन् मार्गस्थितैर् लोकैः संदर्शितं वचो ऽस्ति मे ।
ददेहं प्रष्टुम् इछामि भगवति समादिश ॥ र्म्_38.737{75} ॥
मार्गे ऽहं सरसी दृष्ट्वा जलं पातुम् उपाचरं ।
तदा ते सरसी युद्धं प्राकुर्वतां परस्परं ॥ र्म्_38.738{76} ॥
ततस् ते विग्रहांते मां दृष्ट्वैवं पर्यपृछतां ।
कुत्र गंतुम् इहायासि तत् सत्यं कथ्यताम् इति ॥ र्म्_38.739{77} ॥
तच् छ्रुत्वा विस्मयाक्रांतहृदयाहं विलोक्य ते ।
श्रीदेवीदर्शनं गंतुम् इहैमीत्य् अवदम् अपि ॥ र्म्_38.740{78} ॥
एवं मयोदितं श्रुत्वा सरसी त उभे ऽपि च ।
मां स कृतांजलिर् नत्वा समीक्ष्यैवम् अभाषतां ॥ र्म्_38.741{79} ॥
यद् आवां विग्रहं नित्यं कृत्वा तिष्ठावहे मिथः ।
तन् नो पापेन केनेति श्रीदेवीं परिपृछतु ॥ र्म्_38.742{80} ॥
किं ताभ्यां प्रकृतं पापं यद् एवं विग्रहं मिथः ।
कृत्वा ते तिष्ठतो देवि तत् समादेष्टुम् अर्हति ॥ र्म्_38.743{81} ॥
इति तयोदितं श्रुत्वा सा श्रीदेवी वसुंधरा ।
समीक्ष्य चूडदेवीं तां समामंत्र्यैवम् आदिशत् ॥ र्म्_38.744{82} ॥
भगिन्यौ तौ पुराभूतं भोजने समये सदा ।
आक्रुष्य विग्रहं कृत्वा प्रतिक्षेपं प्रचक्रतुः ॥ र्म्_38.745{83} ॥
तेन पापेन तौ द्वे ऽपि सरसी भूत्वा परस्परं ।
सर्वदा विग्रहं कृत्वा तिष्ठतः सांप्रतं तथा ॥ र्म्_38.746{84} ॥
एवं तयोः पुरः प्रोक्त्वा चित्ते त्वं परिबोधय ।
एतच् छ्रुत्वैव ते वाक्यं पापान् मुक्त्वै च्यतो दिवं ॥ र्म्_38.747{85} ॥
ततो ऽसौ चूडदेवी च नत्वा तां श्रीवसुंधरां ।
सांजलिः सुप्रसन्नात्मा समीक्ष्येवं न्यवेदयत् ॥ र्म्_38.748{86} ॥
भूयो ऽपि श्रीमहादेवि शूकरो दृश्यते पथि ।
सो ऽपि मां समुपायातं दृष्ट्वैवं पर्यपृछत ॥ र्म्_38.749{87} ॥
कुत्र गंतुम् इहायासि वदस्वेति निशम्य तत् ।
श्रीदेवीदर्शने गंतुम् इहैमीत्य् अवदम् अहं ॥ र्म्_38.750{88} ॥
ततः स शूकरश् चाहं प्ररुदत् पुरातो मम ।
किं मया प्रकृतं पापम् इति देव्य् अभिपृछ्यतां ॥ र्म्_38.751{89} ॥
किं तेन प्रकृतं पापं पुरा कुत्र कदा कथं ।
तत् सर्वं समुपादिश्य प्रबोधयतु मे मनः ॥ र्म्_38.752{90} ॥
इति तत् पृछितं श्रुत्वा सा श्रीदेवी वसुंधरा ।
समीक्ष्य चूडदेवीं तां समामंत्र्यैवम् अब्रवीत् ॥ र्म्_38.753{91} ॥
भण्डागारी पुराभूत् स विश्वासघातकः कुधीः ।
जनेभ्यो भोजनं किं चिद् दत्वा सर्वं गृहे ऽनयत् ॥ र्म्_38.754{92} ॥
एतत्पापविपाकेन भवति शूकरो ऽधुना ।
एतत् मया यथाख्यातं तथा तस्य पुरो वद ॥ र्म्_38.755{93} ॥
स त्वत्कथितम् आकर्ण्य पापमुक्तो दिवं व्रजेत् ॥ र्म्_38.756{94} ॥

इति देव्या समादिष्टं चूडदेवी निशम्य सा ।
तथेति प्रतिविज्ञप्य पुनर् एवं न्यवेदयत् ॥ र्म्_38.757{95} ॥
पुनर् मार्गे मया दृष्टः प्रेतः सूचीमुखो महान् ।
किं तेन प्रकृतं पापं तव देवि समादिश ॥ र्म्_38.758{96} ॥
इति तत् कथितं श्रुत्वा सा श्रीदेवी महेश्वरी ।
समीक्ष्य चूडदेवीं तां समामंत्र्यैवम् अब्रवीत् ॥ र्म्_38.759{97} ॥
पुरा स ब्राह्मणो विद्वान् वेदविद् वादसंरतः ।
सिद्धांतवादिनो बौद्धान् प्रतिक्षिप्याभिनिंदयन् ॥ र्म्_38.760{98} ॥
लोभेर्ष्यामदमात्सर्यपरीतात्मा हि मानिकः ।
आगृहीतपरिष्कारः स्वार्थातिलालसः कुधीः ॥ र्म्_38.761{99} ॥
परेभ्यो दत्तम् आलोक्य लोभातिकलुषाशयः ।
स छिद्रवचसाक्रुष्य बौद्धे दानं न्यवारयत् ॥ र्म्_38.762{100} ॥
सद्धर्मश्रावकान् सर्वान् दृष्ट्वा स दुरिताशयः ।
प्रदुष्टवचसाक्षिप्य निंदयन् प्रत्यवारयत् ॥ र्म्_38.763{1} ॥
किं तेन न कृतं पापं सद्धर्मविघ्नकारिणा ।
त्रिरत्नभजनोत्साहविघाताभ्यनुरागिना ॥ र्म्_38.764{2} ॥
एतत्पापविपाकेन ब्राह्मणः स दुराशयः ।
सूचीमुखो महाकायः प्रेतो भवति सांप्रतं ॥ र्म्_38.765{3} ॥
एतन् मया यथाख्यातं तथा तस्य पुरो वद ।
एतत् ते कथितं श्रुत्वा स्मृतिमान् स सुधीर् भवेत् ॥ र्म्_38.766{4} ॥
ततः स स्वकृतं पापं सर्वं स्मृत्वादिशन् स्वयं ।
त्रिरत्नस्मरणं कृत्वा समिछेच् चरितुं शुभे ॥ र्म्_38.767{5} ॥
ततो विमुक्तपापः स परिशुद्धाशयः सुधीः ।
नमो बुद्धाय धर्माय संघायेति वदन् भजेत् ॥ र्म्_38.768{6} ॥
ततस् तत् प्रेतलोकात् स समुत्थाय विकल्पकः ।
प्रेताशयं परित्यज्य ततो ऽपि हि दिवं व्रजेत् ॥ र्म्_38.769{7} ॥
इति तस्या महादेव्या समादिष्टं निशम्य सा ।
चूडदेवी प्रसन्नास्या पुनर् एवं न्यवेदयत् ॥ र्म्_38.770{8} ॥
भूयो ऽपि पथि भो देवि दृश्यते दुःखिता मया ।
किं किं तैः प्रकृतं पापं तत् सर्वं समुपादिश ॥ र्म्_38.771{9} ॥
इति संप्रार्थिते राज्ञ्या सा श्रीदेवी वसुंधरा ।
निशम्य चूडदेवीं तां समीक्ष्यैवम् उपादिशत् ॥ र्म्_38.772{10} ॥
ते सर्वे पापिनो दुष्टा दशाकुशलचारिणः ।
अद्यापि दुःखसंतप्ता भ्रमंति भवसागरे ॥ र्म्_38.773{11} ॥
यो हत्वा प्राणिनो भुंक्त सो ऽल्पायुष्को भवे भ्रमन् ।
अद्यापि तद्विपाकेन तिष्ठत्य् एवं सुदुःखितः ॥ र्म्_38.774{12} ॥
यो ऽदत्तं द्रव्यम् आदाय प्राभुंक्त मिथ्ययाहरन् ।
स दरिद्रो महादुष्टो भवत्य् अद्यापि दुःखभाक् ॥ र्म्_38.775{13} ॥
यो मिथ्याकामरागांधो ऽगम्या अपि प्रभुक्तवान् ।
स स्वेष्टसुजनैस् त्यक्तो भवत्य् अरिवशे स्थितः ॥ र्म्_38.776{14} ॥

मृषावादेन यो लोकञ् जयन्न् अभ्यवंचयत् ।
स कुष्ठरोगवान् पूतिगंधवहो भवत्य् अपि ॥ र्म्_38.777{15} ॥
पिशुनवचनै यो सन्मित्रभेदं भवे ऽकरोत् ।
सो पुण्यकलहोन्मादी सर्वशत्रुर् भवत्य् अपि ॥ र्म्_38.778{16} ॥
यो ऽसौ विभ्रत्सितो लोकैर् दुराकृतिर् दुराशयः ।
स पारुष्यवचसा लोकात् पुराक्रुय्यत्य् अभंदयत् ॥ र्म्_38.779{17} ॥
सर्वभिन्नेव वा यो ऽसौ निघ्नितो नाद्रितः कुधीः ।
स पुरा भिन्नवादेन लोकं भिन्नाशयं व्यधात् ॥ र्म्_38.780{18} ॥
यो ऽसौ विमोहितो मूर्खा विपन्नबुद्धिर् उन्मनाः ।
साभिध्यायतसा लोके संपत्तीश् छद्मनाहतत् ॥ र्म्_38.781{19} ॥
विद्वेषी दुर्मता मोही यो ऽसौ सज्जनगर्हितः ।
स व्यापादखिलचित्तेन सत्वापकार उद्यतः ॥ र्म्_38.782{20} ॥
यो ऽसौ नीचा विषण्णात्मा हीनेंद्रियो दुराशयः ।
मिथ्यादृष्टि स सद्धर्मम् अधिक्षिप्त्वाभ्यनिंदयत् ॥ र्म्_38.783{21} ॥
इति ये दशा पापानि प्रकुर्वन्तो चरेन् मुदा ।
सर्वे ते पापिनो दुष्टा भवंति दुःखिनो ऽधुना ॥ र्म्_38.784{22} ॥
एवं मया यथाख्यातं तथा तेषां पुरो वद ।
एतत् त्वदुक्तम् आकर्ण्य स्मरेयुस् ते पुराकृतं ॥ र्म्_38.785{23} ॥
ततस् ते दुर्गते भीताः सद्गतीतमनोत्सुकाः ।
सद्धर्मसाधनं कर्त्तुं समिछेयुः समादरात् ॥ र्म्_38.786{24} ॥
तदा तां पुर आमंत्र्य सर्वान् एवं वदादरात् ।
यदि चास्ति शुभे वांछा त्रिरत्नं सेव्यताम् इति ॥ र्म्_38.787{25} ॥
ततः सर्वे इमे यूयं निर्मुक्तपातका ध्रुवं ।
सहसा सद्गतौ सौख्यं लभेध्वम् इति चाब्रुहि ॥ र्म्_38.788{26} ॥
ततस् ते ते वचः श्रुत्वा सर्वे सत्सौख्य आलसाः ।
त्रिरत्नशरणं कृत्वा संप्रयायुः सुरालयं ॥ र्म्_38.789{27} ॥
ये बुद्धे शरणं यांति न ते गंछंति दुर्गतीं ।
क्रमात् पारमिताः पूर्य संबुद्धपदम् आप्नुयुः ॥ र्म्_38.790{28} ॥
शृण्वंति ये च सद्धर्मं न ते गछंति दुर्गतीं ।
सर्वदा सद्गतिं याताः प्रचरेयुः शुभे मुदा ॥ र्म्_38.791{29} ॥
ये भजंति मुदा संघे ते ऽपि न यांति दुर्गतीं ।
सदा लोकशुभं कृत्वा संप्रयायुः सुखावतीं ॥ र्म्_38.792{30} ॥
कालसर्प्पो मया दृष्टो भूयो मार्गे महेश्वरि ।
किं तेन प्रकृतं पापं तद् वदस्व वसुंधरे ॥ र्म्_38.793{31} ॥
देव्य् उवाच
पुरा आढ्यो गृहस्थो ऽभूद् विस्तीर्णपरिवारकः ।
संपदाम् उदयैर् नित्यं दानदस्येव संयुतः ॥ र्म्_38.794{32} ॥
तेन काकवलिं दातुं न प्रसेहे कदा चन ।
द्विजान् विनीपकान् दृष्ट्वा चित्तैः प्रादुषायेत् सदा ॥ र्म्_38.795{32*} ॥
कस्मै चिद् अपि किंचिद् वा ह्य् अदत्वा बुभुजे स्वयं ।

सर्वधनस्वकोद्याने स्थापयाम् आस दुर्मतिः ॥ र्म्_38.796{33} ॥
पातकेना ऽधुना तेन कृष्णसर्प्पो भवत्य् असौ ।
तस्यापि पुरतः सर्वं मदादिष्टं तथा वद ॥ र्म्_38.797{34} ॥
सो ऽपि निर्मुक्तपापश् च मृतः स्वर्गं व्रजेद् ध्रुवं ॥ र्म्_38.798{35} ॥
येनैव यत् कृतं कर्म तेनैव परिभुज्यते ।
अभुक्तं क्षीयते नैव कर्म क्वापि कदा चन ॥ र्म्_38.799{36} ॥
इत्य् एतद् एवम् आख्यतं श्रुत्वा त्वं च समादरात् ।
त्रिरत्नभजनं कृत्वा चर मे व्रतम् उत्तमं ॥ र्म्_38.800{37} ॥
तथा लोकेषु सर्वत्र प्रचारय मम व्रतं ।
एतत्पुण्यविपाकेन सर्वदा ते भवेच् छुभं ॥ र्म्_38.801{38} ॥
ततो बोधिमतिं प्राप्तः पुरायित्वा यथाक्रमं ।
सर्वाः पारमिता होधिं प्राप्य बुद्धपदं व्रजेः ॥ र्म्_38.802{39} ॥
इति विज्ञाय कल्याणि गत्वा तं स्वपुरे पुनः ।
श्रद्धया स्वामिना सार्द्धं व्रतं चर समादरात् ॥ र्म्_38.803{40} ॥
इत्य् उक्त्वा सा महादेवी सगणा श्रीवसुंधरा ।
ततश् चांतर्हिता स्वर्गे स्वालयम् आगमद् द्रुतं ॥ र्म्_38.804{41} ॥
तत्र सा चूडदेवी तां सगणां श्रीवसुंधरां ।
अंतर्धानगतां दृष्ट्वा क्षणं तस्थौ सविस्मया ॥ र्म्_38.805{42} ॥
ततः सा चूडदेवी ताम् सगणां श्रीवसुंधरां ।
स्मृत्वा कृतांजलिर् नत्वा ततः प्रत्याययौ मुदा ॥ र्म्_38.806{43} ॥
ततः सा चूडदेवी तां सगणां श्रीवसुंधरां ।
मनसानुस्मरन्त्य् एव प्रचरंति न्यवर्त्ततः ॥ र्म्_38.807{44} ॥
तं कृष्णसर्पम् आलोक्य चूडदेवी ब्रवीति सा ।
देव्या यथा चोपदिष्टं तथा तेन पुराकृतं ॥ र्म्_38.808{45} ॥
तन्नामस्मरणात् सो हित्यक्त्वा देहं दिवं ययौ ।
तत्र मार्गे समेत्यासौ चूडदेवी यथाक्रमं ।
तां दशपापिनः सर्वान् समीक्ष्य समुपाचरत् ॥ र्म्_38.809{46} ॥
तत्र सा चूडदेवी तान् दशाकुशलचारिणः ।
पृष्ट्वा देव्या यथादिष्टं तथा सर्वम् उपादिशत् ॥ र्म्_38.810{47} ॥
तच् छ्रुत्वानुस्मृतिं प्राप्ताः सर्वे ते विस्मयान्विताः ।
सत्यम् इति प्रभाषंतः श्रीदेवीशरणं ययुः ॥ र्म्_38.811{48} ॥
ततस् ते पापिनः सर्वे श्रीदेवीदृक्प्रभान्विताः ।
त्रिमण्डलविशुद्धाश् च शुभे चरितुम् ईछिरे ॥ र्म्_38.812{49} ॥
ततस् ते श्रद्धया नित्यं त्रिरत्नशरणं गताः ।
तां श्रीवसुंधरां देवीं ध्यात्व व्रतं समाचरन् ॥ र्म्_38.813{50} ॥
ततस् ते शुद्धितात्मानः सर्वे ऽपि निर्मलाशयाः ।
तत्रैवं तां महादेवीं ध्यात्वा मृता दिवं ययुः ॥ र्म्_38.814{51} ॥
ततश् च चूडदेवी सा प्रचरंती समागता ।
सूचीमुखं तम् आलोक्य दूरतः समुपाचरत् ॥ र्म्_38.815{52} ॥
तत्र सा सहसा तस्य प्रेतस्य पुरतो गता ।

श्रीदेव्याः समुपादिष्टं तथा सर्वम् अभाषत ॥ र्म्_38.816{53} ॥
तच् छ्रुत्वा स पुरावृत्तम् अनुस्मृत्वा निचिंतयत् ।
पश्चात्तापाग्निसंतप्तः क्षणं तस्थौ विनिःश्वसन् ॥ र्म्_38.817{54} ॥
ततः स मनसा ध्यात्वा तां श्रीदेवीं वसुंधरां ।
स्मरन्ती सांजलिर् नत्वा दिदेश सर्वपातकं ॥ र्म्_38.818{55} ॥
ततः स परिशुद्धात्मा निमुक्तपातकः सुधीः ।
श्रीदेवीशरणं गत्वा देहं त्यक्त्वा दिवं ययौ ॥ र्म्_38.819{56} ॥
ततश् च चूडदेवी सा प्रचरम्टी समागता ।
शूकरं तं समालोक्य दूरतः समुपाचरत् ॥ र्म्_38.820{57} ॥
ततः सोपस्थिता तस्य शूकरस्य पुराकृतं ।
यथादिष्टं महादिव्या तथा सर्वम् उपादिशत् ॥ र्म्_38.821{58} ॥
तच् छ्रुत्वा शूकरः सो ऽपि समनुस्मृतिम् आप्तवान् ।
तत्रानुतापसंतप्तः क्षणं तस्थौ विचिंतयन् ॥ र्म्_38.822{59} ॥
ततः स मनसा ध्यात्वा तां श्रीदेवीं वसुंधरां ।
संस्मृत्वा सांजलिर् नत्वा दिदेश सर्वपातकं ॥ र्म्_38.823{60} ॥
ततो निर्मुक्तपापो ऽसौ परिशुद्धाशयः सुधीः ।
श्रीदेवीशरणं गत्वा देहं त्यक्त्वा दिवं ययौ ॥ र्म्_38.824{61} ॥
ततश् च चूडदेवी सा प्रचरंती समागता ।
दुरात् ते सरसी दृष्ट्वा सहसा समुपासरत् ॥ र्म्_38.825{62} ॥
तत्र सा समुपासृत्य पुष्करिण्योस् तयोः पुरः ।
महादेव्या यथादिष्टं तथा सर्वम् उपादिशत् ॥ र्म्_38.826{63} ॥
तच् छ्रुत्वा पुष्करिण्यौ तौ समनुस्मृतिम् आप्तुः ।
तत्रानुतापतप्ता तौ निधाय तष्ठतुः क्षणं ॥ र्म्_38.827{64} ॥
ततस् ते मनसा ध्यात्वा तं श्रीदेवीवसुंधरां ।
संस्मृत्वा सांजलिर् नत्वा दिदेशतुः स्वपापकं ॥ र्म्_38.828{65} ॥
ततो विमुक्तपापौ तौ परिशुद्धाशयो द्रुतं ।
पुष्करिण्याश्रयं त्यक्त्वा प्रययतुः सुरालयं ॥ र्म्_38.829{66} ॥
तत्र सर्वे ऽपि ते स्वर्गे गतास् तत् स्मृतिभाविनः ।
ध्यात्वा तां श्रीमहादेवीं स्मृत्वा नित्यं प्रभेजिरे ॥ र्म्_38.830{67} ॥
तत्र तेषां महादेव्याः प्रसादाच् छ्री प्रवर्द्धिताः ।
तच् छ्रीसंपन्महत्सौख्यं भुक्त्वा सर्वे ते ऽरमन् ॥ र्म्_38.831{68} ॥
ततः सा चूडदेवी तान् सर्वान् कृत्वा विमुक्तितान् ।
स्वदेश्याभिमुखायाता स्व पुरांतिकम् आययौ ॥ र्म्_38.832{69} ॥
तत्र तां समुपायातां दृष्ट्वा लोकाः प्रमोदिताः ।
सहसा नृपतेर् अग्रे गत्वैवं संन्यवेदयत् ॥ र्म्_38.833{70} ॥
जय देव महाराज चूडदेवी निवर्त्तिता ।
तद् भवान् सहसोपेत्य तां समानेतुम् अर्हति ॥ र्म्_38.834{71} ॥
इति निवेदितं तैः स राजा श्रुत्वा प्रमोदितः ।
सहसा मंत्रिणो ऽमात्यान् समामंत्र्यैवम् आदिशत् ॥ र्म्_38.835{72} ॥
चूडदेवी समायाता तद् यूयं सहसादरात् ।

प्रत्युद्गम्य महोत्साहैर् इहानयत तां प्रियां ॥ र्म्_38.836{73} ॥
इति राज्ञा समादिष्टं श्रुत्वा ते मंत्रिणो जनाः ।
अमात्याः सहसा सर्वे तथेत्य् उक्त्वा मुदाचरन् ॥ र्म्_38.837{74} ॥
ततस् ते मंत्रिणो ऽमात्याः सजनाः पौरिका अपि ।
सर्वे प्रत्युद्गता तत्र चूडदेवी समाययुः ॥ र्म्_38.838{75} ॥
तत्र सर्वे ऽपि ते लोका दृष्ट्वा तां सहसादरात् ।
प्रणत्वा यात आरोप्य महोत्साहैः पुरे ऽनयत् ॥ र्म्_38.839{76} ॥
तत्र सा महिषी देवी महोत्साहप्रमोदिता ।
प्रविश्य मंदिरे राज्ञः स्वामिनः समुपाचरत् ॥ र्म्_38.840{77} ॥
तत्र सा स्वामिनं दृष्ट्वा सहसोपेत्य सांजलिः ।
प्रणत्वा स्वामिना तेन सहासने समाश्रयत् ॥ र्म्_38.841{78} ॥
तत्र स नृपतिः स्वामि तां देवीं सुप्रियां मुदा ।
संपश्यन् कौशलं पृष्ट्वा पुन एवम् अपृछत ॥ र्म्_38.842{79} ॥
केन त्वं हेतुना कुत्र गता कुतो ऽधुनागता ।
एतत् सर्वं समाख्याय मनो मे परिबोधय ॥ र्म्_38.843{80} ॥
इत्य् एतत् स्वामिना तेनादिष्टं चूडदेवी निशम्य सा ।
स्वप्रवृत्तांतम् आख्याय मार्गवृत्तिं न्यवेदयत् ॥ र्म्_38.844{81} ॥
ततो ऽहं सहसा याता द्रष्टुं देवीं वसुंधरां ।
तत्र दूरान् नदीशब्दं श्रुत्वाहं समुपाचरं ॥ र्म्_38.845{82} ॥
तत्र तीरे मया दृष्टा देव्या जलघटावहाः ।
भवंत्यः कुत आयाता इति पृष्टे ऽवदं च ताः ॥ र्म्_38.846{83} ॥
वसुधारामहादेव्याः स्नानार्थम् इमे घटाः ।
नीयंते ऽमृतसंपूर्णा अस्माभिर् इति मन्यतां ॥ र्म्_38.847{84} ॥
एषा नदी महादेवीस्नानामृतप्रवाहिता ।
तद् एतद् अमृते नात्र मुखं प्रक्षाल्य दृश्यतां ॥ र्म्_38.848{85} ॥
इति ताभिः समादिष्टं श्रुत्वा तथेति बोधिता ।
तन् नद्या अमृतेनास्यं प्रक्षाल्य क्षम् अहं तथा ॥ र्म्_38.849{86} ॥
तदा तत्र सभासीनां सगणां श्रिवसुंधरां ।
अपश्यं तां नदीम् आशु लंघित्वा समुपाचरं ॥ र्म्_38.850{87} ॥
तत्राहं समुपाश्रित्य तान् देवीं श्रीवसुंधरां ।
सगणां सांजलिर् नत्वा तत्रैकांते उपाश्रयं ॥ र्म्_38.851{88} ॥
तदा सा श्रीमहादेवी मां दृष्ट्वैवम् अपृछत ।
कुतः किम् अर्थम् आयासि तद् इह कथ्यताम् इति ॥ र्म्_38.852{89} ॥
तच् छ्रुत्वा सांजलिर् नत्वा कृत्वा चापि प्रदक्षिणां ।
सगणां तां महादेवीम् उपाश्रित्यैवम् अब्रुवं ॥ र्म्_38.853{90} ॥
सूर्योदयनरेन्द्रस्य भार्याहं महिषी प्रिया ।
भवत्या दर्शनं कर्त्तुं मुदात्र समुपाचरे ॥ र्म्_38.854{91} ॥
यन् मया मंदभाविन्या व्रतं सम्यग् न धारितं ।
तन् महद् अपराधं मे भवता क्षंतुम् अर्हति ॥ र्म्_38.855{92} ॥
सर्वदाहं महादेवी भवत्याः शरणे स्थिता ।

सम्यग् व्रतं पुनर् धर्त्तुम् इछामि सांप्रतं खलु ॥ र्म्_38.856{93} ॥
तद् भवंती महादेवी कृत्वा मे ऽनुग्रहं पुनः ।
कृपया तद्व्रतालंभं कारयितुं समर्हति ॥ र्म्_38.857{94} ॥
इति मयार्थितं श्रुत्वा सा श्रीदेवी वसुंधरा ।
कृपादृष्ट्या समालोक्य माम् एवं समुपादिशत् ॥ र्म्_38.858{95} ॥
साधु वत्से ऽस्ति ते वांचा यदि मे व्रतधारणे ।
गत्वा त्वं स्वगृहे भर्त्रा सह व्रतं चरादरात् ॥ र्म्_38.859{96} ॥
तदाहं स्वयम् आगत्य द्रक्ष्यामि मंदिरं तव ।
तत्राहं समुपाश्रित्य दास्यामि प्रार्थितं वरं ॥ र्म्_38.860{97} ॥
इत्य् आदिष्टं महादेव्या श्रुत्वाहं परिबोधिता ।
तां श्रीवसुंधरां देवीम् अपृछं पुनर् आदरात् ॥ र्म्_38.861{98} ॥
देवि मार्गस्थितैर् लोकैः संदर्शितं मयोच्यते ।
तद् भवंती समाख्याय मां बोधयितुम् अर्हति ॥ र्म्_38.862{99} ॥
तच् छ्रुत्वा सा महादेवी तैः सर्वैः प्रकृतं यथा ।
तत् तत् सर्वं तथा तेषां कर्म मे समुपादिशत् ॥ र्म्_38.863{100} ॥
ततो ऽहं श्रद्धया भक्तिमात्रेण तं वसुंधरां ।
श्रीदेवीं सगणां चापि समार्चयं समादरात् ॥ र्म्_38.864{1} ॥
ततः प्रदक्षिणां कृत्वा कृतांजलिपुटो मुदा ।
अष्टांगैः श्रीमहादेव्याः पादाब्जे प्रणतापतं ॥ र्म्_38.865{2} ॥
ततः सा सगणा देवी क्षणाद् अंतर्हिताभवत् ।
तत उत्थाय तां देवीं नैवापश्यत् कुहापि च ॥ र्म्_38.866{3} ॥
ततो ऽहं विस्मयाक्रांतहृदया तत्र कृतांजलिः ।
स्मृत्वा सगणां देवीं नत्वा शनैस् ततो ऽचरं ॥ र्म्_38.867{4} ॥
तत्र मार्गे समासाद्य सर्वान्स् तान् पापिनः क्रमात् ।
महादेव्या यद् आदिष्टं तथाख्याय व्यनोदयं ॥ र्म्_38.868{5} ॥
ततस् ते पापिनः सर्वे वचसा मे ऽनुतापिताः ।
श्रीदेवीशरणं कृत्वा देहं त्यक्त्वाचरन् दिवं ॥ र्म्_38.869{6} ॥
एतान् सत्वान् समुद्धृत्य श्रीदेव्याः संप्रसादतः ।
क्षेमेणेह समायाता भवतां दर्शनं लभे ॥ र्म्_38.870{7} ॥
इत्य् एवं सर्ववृत्तांतं चूडादेव्या निवेदितं ।
श्रुत्वा स नृपतिः स्वामी विस्मितश् चैवम् अब्रवीत् ॥ र्म्_38.871{8} ॥
अहो भाग्येन संप्राप्ता श्रीदेव्या संप्रसादतः ।
भार्या त्वं महिषी चापि व्रतं श्रीसंपदो ऽपि मे ॥ र्म्_38.872{9} ॥
तथा भूयो ऽप्य् अहं देव्या यथादिष्टं समादरात् ।
सह त्वया महिष्यात्र चराणि सर्वदा व्रतं ॥ र्म्_38.873{10} ॥
किम् एतद् राज्यभोग्येन विना त्वां महिषीं मम ।
एतद् एव हि संसारं यत् सभार्या व्रतं चरेत् ॥ र्म्_38.874{11} ॥
तद् आवां सर्वदापीह श्रीदेव्याः शरणं गतौ ।
श्रद्धया व्रतम् आराध्य प्रभजेव समादरात् ॥ र्म्_38.875{12} ॥
इत्य् एवं समुपादिश्य नृपतिः संप्रमोदितः ।

ताभ्यां युतो महोत्साहैः श्रीनगरं समाययौ ॥ र्म्_38.876{13} ॥
तया देव्या सुभाविन्या सहाभ्यानंदितो ऽरमत् ।
दिनैकस्मिंश् चूडदेवी ततो गर्भन् दधौ क्रमात् ॥ र्म्_38.877{14} ॥
प्रासूत सप्तमे मासि राजलक्षणमंडितं ।
प्रासादिकं सुपीनांगं पुत्रं ब्राह्मे मुहुर्त्तके ॥ र्म्_38.878{15} ॥
ततः पिता समाहूय सर्वान् अमात्यमंत्रिणः ।
श्रीसेनगुप्तम् आचार्यं पप्रछ जन्मकारणं ॥ र्म्_38.879{16} ॥
सेनगुप्तो विचार्यैवं बोधयन् नृपम् अब्रवीत् ॥ र्म्_38.880{17} ॥
मा विषीदात्र राजेन्द्र युतो यद् राजलक्षणैः ।
योगो ऽयं सार्वभौमः स्यात् सप्तमासफलं शृणु ॥ र्म्_38.881{18} ॥
प्रथमे कललं विद्याद् द्वितीये घनम् एव च ।
तृतीयमास्यं क्रूरं च चतुर्थे ऽस्थिसमुच्चयः ॥ र्म्_38.882{19} ॥
पंचमे चर्मसंछन्नः षष्ठे ऽंगजसमुद्भवः ।
सप्तमे चेतनावाप्तिर् इति गर्भस्थलक्षणं ॥ र्म्_38.883{20} ॥
यो बालः सप्तमे मासि जायते स तु भाग्यभाक् ।
सार्वभौम नृपो भूत्वा महीं शास्ति सुनीतितः ॥ र्म्_38.884{21} ॥
तस्मान् नृपेंद्र तं बालं रक्षणीयः प्रयत्नतः ।
इत्य् आचार्यवचः श्रुत्वा स राजा परिमोदितः ।
जातकर्मादिकं कर्म महोत्सवैर् अकारयत् ॥ र्म्_38.885{22} ॥
तदाचार्यः सेनगुप्तो व्रतमंगलकारकं ।
इति मत्वा नाम चक्रे मंगलोदय इत्य् अपि ॥ र्म्_38.886{23} ॥
ततो बालः शुक्लपक्षे चंद्र इव दिने दिने ।
पुपोष वृद्धिं सहसा तेजोबलसमन्वितः ॥ र्म्_38.887{24} ॥
ततो राजकुले राजा भार्यापुत्रसमन्वितः ।
वसुंधराव्रतोत्साही मुदितः समुपस्थितः ॥ र्म्_38.888{25} ॥
ततो व्रतदिनप्राप्ते भार्यया सह संमतं ।
कृत्वा स भूपती राजा व्रतं चरितुम् ऐछत ॥ र्म्_38.889{26} ॥
ततस् तद् व्रतसामग्रीं साधयित्वा यथाविधि ।
आचार्येण यथादिष्टं तथा सर्वं समाचरत् ॥ र्म्_38.890{27} ॥
श्रीदेव्या व्रतम् आराध्य समहिषी स भूपतिः ।
यथाविधि सुसंपूर्ण प्रचचार समादरात् ॥ र्म्_38.891{28} ॥
तस्मिन्न् अवसरे तत्र सा श्रीदेवी वसुंधरा ।
सगणा स्वयम् आगत्य भासयंती समाश्रयत् ॥ र्म्_38.892{29} ॥
तां श्रीवसुंधरां देवीं सगणां समुपाश्रितां ।
साक्षाद् आलोक्य राजा स सभार्यः समुपस्थितः ॥ र्म्_38.893{30} ॥
पादार्घं सहसा दत्वा पूजांगैश् च समर्चयत् ।
कृत्वा प्रदक्षिणां नत्वा सांजलिर् न्यपतत् पुरः ॥ र्म्_38.894{31} ॥
ततः सा श्रीमहादेवी वसुलक्ष्मी विलोक्य तं ।
सभार्यं नृपम् उत्थाय समालोक्यैवम् आदिशत् ॥ र्म्_38.895{32} ॥
शृणु राजन् महाभाग यथा ते यत् समीप्सितं ।

सर्वं ते ऽहं प्रवक्ष्यामि सत्यम् एतद् वचो मम ॥ र्म्_38.896{33} ॥
इत्य् आदिष्टे महालक्ष्म्या सभार्यः स नृपो मुदा ।
तां देवीं सांजलिर् नत्वा प्रार्थयद् एवम् आदरात् ॥ र्म्_38.897{34} ॥
नमस् ते श्रीमहादेवी प्रसीद परमेश्वश्री ।
यथा ते ईहितं कार्यं तद् एव देहि मे वरं ॥ र्म्_38.898{35} ॥
एतत् संप्रार्थितं राज्ञा श्रुत्वा सा श्रीमहेश्वरी ।
सभार्यं तं महीपालं समालोक्यैवम् आदिशत् ॥ र्म्_38.899{36} ॥
साधु राजन् स्वयं धृत्वा व्रतं सर्वत्र चारय ।
कृत्वैतन् मे महत्कार्यं ततः प्रैहि ममालयं ॥ र्म्_38.900{37} ॥
इत्य् आदिश्य ततः सा श्रीमहादेवी वसुंधरा ।
सगणा तत् क्षणाद् अंतर्हिता स्वं भुवनं ययौ ॥ र्म्_38.901{38} ॥
ततः स सप्रियो राजा तां देवीं सगणाम् अपि ।
सर्वाम् अन्तर्हितां दृष्ट्वा क्षणं तस्थौ सविस्मयः ॥ र्म्_38.902{39} ॥
ततस् तथा स भूमीन्द्रो भार्यया सह सर्वदा ।
श्रीदेव्याः शरणं गत्वा व्रतं धृत्वा समाचरत् ॥ र्म्_38.903{40} ॥
तथा सर्वत्र लोकेषु श्रीदेव्या व्रतम् आदिशत् ।
बोधयित्वा प्रयत्नेन प्राचारयत् समंततः ॥ र्म्_38.904{41} ॥
तथा स नृपतिर् देव्या व्रतं सर्वत्र चारयन् ।
सर्वेषाम् अपि सत्वानां मंगलं सर्वदाकरोत् ॥ र्म्_38.905{42} ॥
एतत्पुण्यविपाकेन स राजा श्रीसमन्वितः ।
दिव्यातिरिक्तसौख्यानि लब्ध्वा सदा शुभे ऽचरत् ॥ र्म्_38.906{43} ॥
ततः स नृपती राजा सर्वार्थिभ्यो यथेप्सितं ।
संबोधिप्रणिधानेन दत्वा व्रतं सदाचरत् ॥ र्म्_38.907{44} ॥
तथा स भूपती राजा भार्यया सह मोदितः ।
श्रीदेव्याः प्रदधे भक्त्या व्रतं साष्टोत्तरं शतं ॥ र्म्_38.908{45} ॥
ततः स भार्यया सार्द्धम् अभिषिंच्यात्मजं सुतं ।
स्वपदे लोकधर्मार्थं कृत्वान्ते तुषिते ययौ ॥ र्म्_38.909{46} ॥
ततः स सप्रियस् तत्र श्रीदेव्याः समुपस्थितः ।
सर्वदा भजनं कृत्वा श्रीमान्स् तस्थौ शुभे चरन् ॥ र्म्_38.910{47} ॥
तत्र स सर्वदा सत्वहितं कृत्वा सुखान्वितः ।
सर्वाः पारमिताः पूर्य संबुद्धपदम् आप्स्यति ॥ र्म्_38.911{48} ॥
तदारभ्य सदा सर्वलोकेषु सततं शुभं ।
त्रिरत्नभजनोत्साहं प्रवर्त्तते कृताव् इव ॥ र्म्_38.912{49} ॥
तदा भुवि तथा देव्या स्वयं व्रतं प्रचारितं ।
इत्य् एतन् मुनिभिः सर्वैः ख्यातम् इति श्रुतं मया ॥ र्म्_38.913{50} ॥
एतन् मे गुरुणाख्यातं श्रुतं मय तथोच्यते ।
त्वं चाप्य् एवं महाराज श्रीदेव्याश् चर तद् व्रतं ॥ र्म्_38.914{51} ॥
तथा ते सर्वदा क्षेमं सर्वत्रापि भवेद् ध्रुवं ।
श्रीदस्येव महासंपद् अक्षीणा संभवेत् खलु ॥ र्म्_38.915{52} ॥
ततस् त्वं श्रीसमाधारा दत्वार्थिभ्यो यथेप्सितं ।

त्रिरत्नभजनं कृत्वा संबुद्धपदम् आप्नुयाः ॥ र्म्_38.916{53} ॥
एवं मत्वा महाराज प्रजाश् चापि प्रबोधयन् ।
श्रीदेव्याः शरणे स्थाप्य सदा व्रतं प्रचारय ॥ र्म्_38.917{54} ॥
तथा सत्वहितं कर्तुं संबोधिरत्नलब्धये ।
श्रीदेव्या धारणीविद्या प्रधातव्या सदादरात् ॥ र्म्_38.918{55} ॥
एतत्पुण्यानुभावेन सर्वत्र सर्वदा भवे ।
भवेतं मंगलोत्साहं सततं निरुपद्रवं ॥ र्म्_38.919{56} ॥
अतीतैर् अपि संबुद्धैः सर्वैर् अपि मुनीश्वरं ।
श्रीदेव्या धारणीविद्यारत्नैर् लोकहितं कृतं ॥ र्म्_38.920{57} ॥
तथाधुनापि सर्वैश् च वर्त्तमानैर् मुनीश्वरं ।
त्रिदेव्या धारणीविद्यारत्नैः सत्वशुभं कृतं ॥ र्म्_38.921{58} ॥
तथा चानागतैः सर्वै मुनीन्द्रैर् अपि सर्वतः ।
श्रीदेव्या धारणीविद्यारत्नैः करिष्यते शिवं ॥ र्म्_38.922{59} ॥
सर्वे ऽपि सुगता नाथा बोधिसत्वाः कृपालवः ।
श्रीदेवीसंप्रसादेन चरन्तो भद्रचारिकां ॥ र्म्_38.923{60} ॥
आर्य्यसद्धर्मम् आदिश्य प्रकुर्वते जगद्धितं ।
एवं जगद्धितं कर्त्तुं संबोधिरत्नम् ईप्सुभिः ।
श्रीदेव्या धारणीं धृत्वा चरितव्यं जगद्धिते ॥ र्म्_38.924{61} ॥
ये चापि श्रीमहादेव्या धारणीं श्रद्धयादरात् ।
भक्त्या पठंति शृण्वंति पाठयन्त्य् अपि सर्वदा ॥ र्म्_38.925{62} ॥
लिखित्वा पुस्तके वापि गृहे स्थाप्य सदादरात् ।
सत्कृत्य श्रद्धयाभ्यर्च्य धृत्वांजलिं नमंति ये ॥ र्म्_38.926{63} ॥
तथा भुर्जे लिखित्वा च वाहौ कण्ठे च मस्तके ।
श्रीदेव्या धारणीविद्यारत्नं दधति ये सदा ॥ र्म्_38.927{64} ॥
एतेषाम् अपि सर्वेषां गृहेषु विषयेष्व् अपि ।
सर्वत्र मंगलं नित्यं निर्विघ्नं सर्वदा भवेत् ॥ र्म्_38.928{65} ॥
ईतय उपसर्गाश् च महोत्पाता उपद्रवाः ।
न तेषां विषये क्वापि प्रचरेयुः कदा चन ॥ र्म्_38.929{66} ॥
ज्वराश् च विविधा रोगाः सर्वसंहारकारकाः ।
तेसां कायेषु सर्वत्र न स्पृशेयुः कदा चन ॥ र्म्_38.930{67} ॥
अपथ्यम् अपि पथ्यं स्याद् विषो ऽपि चामृतं भवेत् ।
तेषां देहेषु सर्वत्र हितायते ऽहितो ऽपि च ॥ र्म्_38.931{68} ॥
ब्रह्मशक्रादयो देवा ये दुष्टा वह्नयो ऽपि च ।
यमस्य किंकराश् चापि राक्षसा गरुडा अपि ॥ र्म्_38.932{69} ॥
नागाश् च वायवश् चापि यक्षगंधर्वकिंनराः ।
भूतप्रेतपिशाचाश् च कुम्भाण्डाः कटपूतनाः ॥ र्म्_38.933{70} ॥
एवम् अन्ये ऽपि ये दुष्टाः सर्वसत्वभयंकराः ।
सर्वे ते विषये तेषां विघ्नं कर्त्तुं न शक्नुयुः ॥ र्म्_38.934{71} ॥
सर्वे देवादयो ऽप्य् एते त्रिधातुभुवनस्थिताः ।
तेषां देवीप्रभावेन रक्षेयुश् च प्रसादिताः ॥ र्म्_38.935{72} ॥

तेषां कार्याणि सर्वाणि संसिद्ध्येयुर् अविघ्नतः ।
तेषां सर्वत्र कायेषु किंचिद् विघ्नं भवेन् न हि ॥ र्म्_38.936{73} ॥
सर्वत्र गछतां तेषां सलाभसिद्धिमंगलं ।
भवेद् एव सदा नैव विघ्नता स्यात् कदा चन ॥ र्म्_38.937{74} ॥
श्रीदेवीकृपादृष्टिप्रभावेन समंततः ।
सर्वार्थसाधने सिद्धिर् भवेन् न तु विघातता ॥ र्म्_38.938{75} ॥
सर्वे ऽपि लोकपालाश् च देवादयो महर्द्धिकाः ।
यतयो योगिनः सिद्धा ऋषयो ब्रह्मचारिणः ॥ र्म्_38.939{76} ॥
ग्रहास् तारागणाः सर्वा योगिन्यो भैरवा अपि ।
डाकिन्यो मातृकाष्टाश् च महाकालगणा अपि ॥ र्म्_38.940{77} ॥
एवम् अन्ये ऽपि वीरेशाः सर्वदुष्टप्रमर्दकाः ।
सृष्टिसंस्थितिसंहारकारका भीमरूपिणः ॥ र्म्_38.941{78} ॥
ते ऽपि सर्वे समालोक्य श्रीदेवीसेवकान् मुदा ।
कृपार्द्दाः समुपाश्रित्य रक्षेयुः सर्वदानुगाः ॥ र्म्_38.942{79} ॥
सर्वे ऽपि भिक्षवो बुद्धा अर्हन्तो ब्रह्मचारिणः ।
श्रीदेवी भाविनो दृष्ट्वा संरक्षेयुः प्रसादिताः ॥ र्म्_38.943{80} ॥
सर्वे प्रत्येकबुद्धाश् च ताञ् छ्रीदेव्या उपाश्रिकान् ।
दूरतः सुदृशालोक्य संरक्षेयुः प्रसादिताः ॥ र्म्_38.944{81} ॥
बोधिसत्वाश् च सर्वे ऽपि तांच् छ्रीदेव्या उपासकान् ।
यथेप्सितं वरं दत्वा पालयेयुः कृपान्विताः ॥ र्म्_38.945{82} ॥
सर्वे ऽपि सुगता बुद्धाः श्रीदेव्याः शरणे स्थितान् ।
सुदृशा सर्वदालोक्य स भवेयुर् दयान्विताः ॥ र्म्_38.946{83} ॥
एवं सर्वे ऽपि लोकेशा ब्रह्मा विष्णुशिवादयः ।
श्रीदेवीधारणीविद्याधरां रक्षेयुर् आदरात् ॥ र्म्_38.947{84} ॥
एवं सर्वैर् महाभिज्ञैर् मुनीन्द्रैर् गदितं खलु ।
इति मे गुरुणादिष्टं श्रुतं मया तथोच्यते ॥ र्म्_38.948{85} ॥
श्रुत्वा राजंस् त्वम् अप्य् एवं तच् छ्रीदेवीव्रतं चर ।
ततस् ते श्रीमहादेवीव्रतपुण्यानुभावतः ॥ र्म्_38.949{86} ॥
महासंपत् प्रवृद्धा स्याद् अक्षीणा सर्वदा स्थिरा ॥ र्म्_38.950{87} ॥
ततस् त्वं तद् द्रव्यम् आदाय सर्वार्थिभ्यो यथेप्सितं ।
दत्वा चरच् छुभे सौख्यं भुंक्ष्व संपालयन् प्रजाः ॥ र्म्_38.951{88} ॥
एतत्पुण्यविपाकेन दुर्गतीं न व्रजेः क्वचित् ।
सर्वदा सद्गतीं याता धर्मे चरन् सुखं वसेः ॥ र्म्_38.952{89} ॥
इति मत्वा महाराज श्रीदेव्याः शरणं गतः ।
सद्धर्मं स्वयम् आकर्ण्य लोकाश् च श्रावय प्रभो ॥ र्म्_38.953{90} ॥
सर्वेषाम् अपि संसारे धर्म एव सुहृत् सखा ।
तस्माद् अत्र प्रयत्नेन धर्म एव समर्ज्यां ।
धर्मं तु सर्वधर्माणां प्रश्रेष्ठं सौगतं वरं ॥ र्म्_38.954{91} ॥
यतः सर्वत्र लोकेषु संसारे भद्रता सदा ।
तस्मात् सर्वत्र संसारे सदा भद्रं समीप्सुभिः ।

सत्कृत्य सौगतं धर्मं श्रोतव्यं श्रद्धयादरात् ॥ र्म्_38.955{92} ॥
ये ऽप्य् अत्र सौगतं धर्मं शृण्वंति श्रद्धयादरात् ।
दुर्गतीं ते न गछंति संयांति सद्गतीं सदा ॥ र्म्_38.956{93} ॥
ये चापि सौगतं धर्मं श्रावयंति परान् अपि ।
ते ऽपि न दुर्गतीं यांति यांति सद्गतिम् एव हि ॥ र्म्_38.957{94} ॥
यश् चापि सौगतं धर्मं प्रभाषति प्रबेधयन् ।
सो ऽपि न दुर्गतिं याति संप्रयायात् सुखावतीं ॥ र्म्_38.958{95} ॥
यस्यापि स्यात् कलौ पंचकषायक्लेशसंकुले ।
दुर्लभं सौगतं धर्मं वक्ता श्रोता च दुर्लभः ॥ र्म्_38.959{96} ॥
तदा तान् क्लेशिताल् लोकान् दृष्ट्वा घृणादयाहतः ।
स्वकायजीवितस्नेहं त्यक्त्वा यो धर्मम् आदिशेत् ॥ र्म्_38.960{97} ॥
स एव हि महाभिज्ञो धीरः सुधीर् विचक्षणः ।
सर्वक्लेशविजेता च मारजित् स्याज् जिनात्मजः ॥ र्म्_38.961{98} ॥
यश् चापि च तदा क्लेशसंघसमाकुले तथा ।
त्यक्तः स्वप्राणकायो यः सद्धर्मं शृणुयान् मुदा ॥ र्म्_38.962{99} ॥
सापि धीरो महावीरः सर्वक्लेशाभिमर्दकः ।
संबोधिमार्गसंप्राप्तो ज्ञातव्यो हि जिनप्रियः ॥ र्म्_38.963{100} ॥
यश् चाप्य् एव कलौ काले सद्धर्मान्तर्हिते तथा ।
निस्नेहस्वासुकायो यः सद्धर्मं श्रावयेत् परान् ॥ र्म्_38.964{1} ॥
स ऽपि स्यात् सुगतपुत्रो महाधीरो विशारदः ।
सर्वसर्वहिताकांक्षी बोधिसत्वः सुधीः कृती ॥ र्म्_38.965{2} ॥
यश् चापि परतः श्रुत्वा सद्धर्मं सौगतोदितं ।
अनुमोदेत् प्रसन्नात्मा सो ऽपि स्यात् सुगतात्मजः ॥ र्म्_38.966{3} ॥
सर्वतीर्थाभिषेके यत् पुण्यं तत् सर्वम् आप्नुयुः ।
सर्वत्र सज्जना नूनं कर्त्तव्यं नात्र संशयं ॥ र्म्_38.967{4} ॥
यावंतः प्राणिनः सत्वास् तान् सर्वान् यो हि पालयेत् ।
तस्य यावन् महत्पुण्यं तत् सर्वं ते समाप्नुयुः ॥ र्म्_38.968{5} ॥
यावंतो भिक्षवो ऽर्हन्तस् तान् सर्वान् यः समर्चयेत् ।
तस्य पुण्यफलं यावत् तत् सर्वं ते ह्य् अवापुयुः ॥ र्म्_38.969{6} ॥
यावत् प्रत्येकबुद्धाश् च तान् सर्वान् यो भजेन् मुदा ।
यावत् पुण्यफलं तस्य लभेयुस् ते ततो ऽर्थिकं ॥ र्म्_38.970{7} ॥
यावंतः सुगताश् चापि तान् सर्वान् यः सदा भजेत् ।
यावत् पुण्यं महत् तस्य लभेयुस् ते ततो ऽधिकं ॥ र्म्_38.971{8} ॥
यावंतो भूतले गवस् तान् सर्वाञ् छ्रद्धया ददेत् ।
तस्य यावन् महत्पुण्यं प्राप्नुयुस् ते ततो ऽधिकं ॥ र्म्_38.972{9} ॥
मेरुप्रमाणसौवर्णरत्नराशिं च यो ददेत् ।
तस्य पुण्यम् असंख्येयं प्रयायुस् ते ततो ऽधिकं ॥ र्म्_38.973{10} ॥
साब्धिशैलं महीं सर्वां श्रद्धया यः समर्प्पयेत् ।
तस्य बहुतरं पुण्यं सम्यायुस् ते ततो ऽधिकं ॥ र्म्_38.974{11} ॥
सौषधीद्रव्यभोग्यादीन् प्रदद्याच् छ्रद्धयापि च ।

तस्य पुण्यम् असंख्येयं लभेयुस् ते ततो ऽधिकं ॥ र्म्_38.975{12} ॥
यस्य कल्पसहस्राणि तृणाम्बुप्राशनस्तयेत् ।
यावंतस्य महत्पुण्यं लभेयुस् ते ततो ऽधिकं ॥ र्म्_38.976{13} ॥
यज्ञकोटिसहस्राणि कुर्याद् यः श्रद्धया मुदा ।
तावत् तस्य महत्पुण्यं प्राप्नुयुस् ते ततो ऽधिकं ॥ र्म्_38.977{14} ॥
एवं यावंति पुण्यानि दानव्रतोद्भवान्य् अपि ।
संति ततो ऽधिकं पुण्यं ते सर्वे समवाप्नुयुः ॥ र्म्_38.978{15} ॥
इति सत्यं समाख्यातं सर्वैर् अपि मुनीश्वरैः ।
एतन् मे गुरुणादिष्टं श्रुतं मया च वक्ष्यते ॥ र्म्_38.979{16} ॥
एतत् सत्यं परिज्ञाय यदि संबोधिम् इछसि ।
सदा सद्धर्मम् आकर्ण्य त्रिरत्नभजनं कुरु ॥ र्म्_38.980{17} ॥
प्रजाश् चापि महाराज बोधयित्वा प्रयत्नतः ।
बोधिमार्गे प्रतिष्ठाप्य पालयस्व समाहितः ॥ र्म्_38.981{18} ॥
ततस् ते मंगलं नित्यं सर्वत्रापि भवेद् ध्रुवं ।
क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः ॥ र्म्_38.982{19} ॥
एतत् तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः ।
तथेत्य् अभ्यनुमोदित्वा प्राभ्यनंदत् सपार्षदः ॥ र्म्_38.983{20} ॥
ततः स उपगुप्तो ऽर्हन् विहारे समुपाश्रयेत् ।
सो ऽशोको ऽपि महाराजस् तथा धर्मं सदाचरत् ॥ र्म्_38.984{21} ॥
एतद् एवं समाख्याय जयश्री स जिनात्मजः ।
सर्वासां शिष्यसंघांश् च समामंत्र्यैवम् आदिशत् ॥ र्म्_38.985{22} ॥
सुभाषितमहारत्नमालाम् इमां प्रभाषति ।
यो यत्र मेव शृण्वंति श्रावयंत्य् अपि ये मुदा ॥ र्म्_38.986{23} ॥
श्रुत्वानुमोदंति ये च दृष्ट्वा नमंति ये मुदा ।
सत्कृत्य श्रद्धया नित्यं समभ्यर्च्य भजंति ये ॥ र्म्_38.987{24} ॥
एतेषां तत्र सर्वेषां भवंतु मंगलं सदा ।
जयश्री परिवृद्धास्तु सर्वत्र सर्वदापि च ॥ र्म्_38.988{25} ॥
ईतय उपसर्गाश् च सर्वे विघ्नगणा अपि ।
दुष्टा मारगणांश् चापि विलयं यांतु सर्वदा ॥ र्म्_38.989{26} ॥
गृहेषु सर्वदा तेषं लक्ष्मीस् तिष्ठतु सुस्थिराः ।
धर्मार्थकामभोग्याश् च संसिद्ध्यंतु स मेधिताः ॥ र्म्_38.990{27} ॥
नीरोगा सुचिरायुष्का भवंतु ते सुखान्विताः ।
विरतपापकर्माणः प्रचरंतु शुभे सदा ।
त्रिरत्नभजनं कृत्वा भवंतु ब्रह्मचारिणः ॥ र्म्_38.991{28} ॥
सर्वसत्वहितैः कृत्वा भुक्त्वा भद्रसुखं सदा ।
क्रमात् पारमिताः पूर्य व्रजंतु सौगतं पदं ॥ र्म्_38.992{29} ॥
एतत्पुण्यानुभावेन तत्र सर्वत्र सर्वदा ।
भवंतु मंगलं नित्यं सुभिक्षं निरुपद्रवं ॥ र्म्_38.993{30} ॥
सर्वे सत्वाश् च सद्धर्मं साधयंतु समुद्यताः ।
त्रिरत्नभजनोत्साहैः सर्वे व्रजंतु सौगतिं ॥ र्म्_38.994{31} ॥

काले वर्षंतु मेघाश् च भूयाच् छस्यवती मही ।
बहुक्षीरप्रदा गावो भवंतु वत्सलान्विताः ॥ र्म्_38.995{32} ॥
सर्वदा सुफलैः पुष्पं वृक्षाः संतु समन्विताः ।
राजा भवंतु धार्मिष्ठो नयस्थाः संतु मंत्रिणः ॥ र्म्_38.996{33} ॥
सर्वे सैन्याश् च योधारो जयंतु दूर्जनान् नरीन् ।
सर्वेतयः प्रशाम्यंतु संतु सौख्यान्विताः प्रजाः ॥ र्म्_38.997{34} ॥
नीरुजाः सुखसंपन्नाः श्रीसंपत्तिसमन्विताः ।
ब्रह्मादि लोकपालाश् च दशदिक्पा महर्द्धिकाः ।
विघ्नाञ् जित्वा शुभं कृत्वा पालयंतु प्रजाः सदा ॥ र्म्_38.998{35} ॥
सर्वे त्रैधातुलोकाश् च कृत्वा मैत्रीं परस्परं ।
त्रिरत्नभजनं कृत्वा चरंतु बोधिचारिकां ॥ र्म्_38.999{36} ॥
सर्वे भद्राणि पश्यंतु मा कश्चित् पापम् आचरत् ।
सर्वत्र शासनं बौद्धं धृत्वा यांतु जिनालयं ॥ र्म्_38.1000{37} ॥
एवं जयश्रीर् मुनिराजकल्पः संबोधिचर्याप्रविकाशहेतोः ।
सर्वान् स्वशिष्यान् परिबोधयन् सः समादिदेश श्र्यवदानमालां ।
श्रुत्वापि ते सर्व उदारचित्ताः श्रुत्वा सलोका अभिनंद्यमानाः ।
सद्धर्मम् आश्रित्य सदा त्रिरत्नं भक्त्या भजंत व्यहरन् प्रमादा ॥ र्म्_38.1001{38} ॥
यत्रेदं सूत्रराजेंद्रं प्रावर्त्तयेत् कलाव् अपि भाषेद् यः शृणुयाद् यश् च श्रावयेद् यश् च चारयेत् ।
एतेषां तत्र सर्वेषां संबुद्धाः सकला सदा कृपादृष्ट्या समालोक्य कुर्वंतु भद्रम् आभवं सर्वाः पारमिता देव्यस् तेसां तत्र सदा शिवं ।
कुर्वन्त्यो बोधिसंभारं पूरयंतु जगद्धिते ।
अनेन सद्धर्मरसामृतेन सर्वज्ञभास्वद्वदनोद्भवेन ।
क्लेशानलप्रह्वरिर् आतुरासु प्रजासु दुःखं प्रशमो ऽस्तु नित्यं ॥ र्म्_38.1002{39} ॥
++ इति सुभाषितरत्नावदानतत्वे वसुधारा व्रतकथा समाप्ता ++
श्रेयो ऽस्तु सम्वत् 1028 माघमासे कृष्णपक्षे द्वितीयायां तिथौ पूर्वफाल्गुणीनक्षत्रे सुद्धयोगे बुधवासरे कुंभराशिगते सवितरि सिंहराशिगते चंद्रमसि एतद्दिने संपूर्णम् इदैः पुस्तकं ( र्म् 481 ) मानदेवसंस्कारितचक्रमहाविहारे निवासितः वज्राचार्य्यश्रीधर्म्मराजेन लिखितम् इदं पुस्तकम् एतत्पुण्येन धर्म्मार्थकाममोक्षान् प्राप्तिम् अस्तु श्वपुस्तकसुनानं लोभयायमदु ॥

मूल पाठ: Ratnamālāvadāna · Edition: Kanga Takahata. Ratnamālāvadāna. A Garland of Precious Gems or a Collection of Edifying Tales, Told in a Metrical Form, Belonging to the Mahāyāna. Tokyo 1954 (Oriental Library Series D, 3). = Rm · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc