भाषा

ENहिગુ
ग्रंथ पाठ

रत्नगुणसंचयगाथा · अध्याय 7

7.1

जात्यन्धकोटिनियुतान्यविउनायकानां मार्गे अकोविदु कुतो नगरप्रवेशे
विन प्रज्ञ पञ्च इमि पारमिता अचक्षुः अविनायका न प्रभवन्ति स्पृशेतु बोधिम् ॥

7.2

यत्रान्तरस्मि भवते प्रगृहीत प्रज्ञा ततु लब्धचक्षु भवती इमु नामधेयम्
यथ चित्रकर्मपरिनिष्ठित चक्षुहीनो न च ताव पुण्यु लभते अकरित्व चक्षुः ॥

7.3

यद धर्म संस्कृत असंस्कृत कृष्णशुक्लो अणुमात्रु नो लभति प्रज्ञ विभावमानः
यद प्रज्ञपारमित गच्छति संख्य लोके आकाश यत्र न प्रतिष्ठितु किंचि तत्र ॥

7.4

सचि मन्यते अहु चरामि जिनान प्रज्ञां मोचिष्य सत्त्वनियुतां बहुरोगस्पृष्टान्
अयु सत्त्वसंज्ञपरिकल्पकु बोधिसत्त्वो न च एष प्रज्ञवरपारमिताय चर्या ॥

7.5

यो बोधिसत्त्व वरपारमितेति चीर्णो परिचारिका य न च काङ्क्षति पण्डितेहि
सह श्रुत्व तस्य पुन भेष्यति शास्तृसंज्ञा सो वा लघू अनुबुधिष्यति बोधि शान्ताम् ॥

7.6

सत्कृत्य बुद्धनियुतां परिचारिकायां न च प्रज्ञपारमित श्रद्दधिता जिनानाम्
श्रुत्वा च सो इमु क्षिपिष्यति सो ऽल्पबुद्धिः स क्षिपित्व यास्यति अवीचिमत्राणभूतो ॥

7.7

तस्मा हु श्रद्दधत एव जिनान मातां यदि इच्छथा स्पृशितु उत्तमबुद्धज्ञानम्
सो वाणिजो यथ व्रजित्वन रत्नद्वीपं मूलातु छेदन करित्व पुन आगमेया ॥

मूल पाठ: Ratnaguṇasaṃcayagāthā · Edition: P.L. Vaidya in: Mahayana-sutra-samgrahah, Part 1. Darbhanga: The Mithila Institute 1961 (Buddhist Sanskrit Texts, 17) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc