भाषा

ENहिગુ
ग्रंथ पाठ

रत्नगुणसंचयगाथा · अध्याय 6

6.1

यावन्ति श्रावकगणाः प्रसवन्ति पुण्यं दानं च शीलमपि भावनसंप्रयुक्तम्
स हि बोधिसत्त्व अनुमोदन एकचित्ते न च सर्वश्रावकगणे सिय पुण्यस्कन्धो ॥

6.2

ये बुद्धकोटिनियुता पुरिमा व्यतीता ये वा अनन्तबहुक्षेत्रसहस्रकोटयः
तिष्ठन्ति ये ऽपि परिनिर्वृत लोकनाथा देशन्ति धर्मरतनं दुखसंक्षयाय ॥

6.3

प्रथमं उपादु वरबोधयि चित्तुपादो यावत् सु धर्मक्षयकालु विनायकानाम्
एकस्मि तत्र चिय तेष जिनान पुण्यं सह युक्त पारमित ये ऽपि च बुद्धधर्माः ॥

6.4

यश्चैव बुद्धतनयान(च) श्रावकाणां शैक्ष अशैक्ष कुशलास्रव नास्रवाश्च
परिपिण्डयित्व अनुमोदयि बोधिसत्त्वो सर्वं च नामयि जगार्थनिदान बोधि ॥

6.5

परिणामयन्तु यदि वर्तति चित्तसंज्ञा तथ बोधिसत्त्वपरिणामन सत्त्वसंज्ञा
संज्ञाय दृष्टिस्थितु चित्त त्रिसङ्गयुक्तो परिणामितं न भवती उपलभ्यमानम् ॥

6.6

सचि एव जानति निरुध्यति क्षीणधर्मा तच्चैत क्षीण परिणामयिष्यन्ति यत्र
न च धर्म धर्मि परिणामयते कदाचित् परिणामितं भवति एव प्रजानमाने ॥

6.7

सचि सो निमित्त कुरुते न च मानयाति अथ आनिमित्त परिणामित भोन्ति बोधौ
विषसृष्ट भोजनु यथैव क्रियाप्रणीतो तथ शुक्लधर्मौपलम्भ जिनेन उक्तो ॥

6.8

तस्मा हु नामपरिणामन शिक्षितव्या यथ ते जिना कुशल एव प्रजानयन्ति
यज्जातियो ऽयं प्रभवो यदलक्षणं च अनुमोदमी तथ तथा परिणामयामि ॥

6.9

एवं च पुण्य परिणामयमान बोधौ न च सो हि बुद्ध क्षिपते जिन उक्तवादी
यावन्ति लोकि उपलम्भिकबोधिसत्त्वा अभिभोन्ति सर्वि परिणामयमान शूरो ॥

मूल पाठ: Ratnaguṇasaṃcayagāthā · Edition: P.L. Vaidya in: Mahayana-sutra-samgrahah, Part 1. Darbhanga: The Mithila Institute 1961 (Buddhist Sanskrit Texts, 17) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc