रत्नगुणसंचयगाथा · अध्याय 5
सचि रूप संज्ञ अपि वेदन चेतनायां चित्तं अनित्य परिणामयि बोधिसत्त्वो
प्र(ति)वर्णिकाय चरते अप्रजानमानो न हि धर्म पण्डित विनाश करोति जातु ॥
यस्मिन् न रूप अपि वेदन चापि संज्ञा विज्ञान नैव न पि चेतनयोपलब्धिः
अनुपादु शून्य न य जानति सर्वधर्मान् एषा स प्रज्ञवरपारमिताय चर्या ॥
यावन्ति गङ्गनदिवालिकतुल्यक्षेत्रे तावन्ति सत्त्व अरहन्ति विनेय कश्चित्
यश्चैव प्रज्ञ इम पारमिता लिखित्वा परसत्त्वि पुस्तकु ददेय विशिष्टपुण्यः ॥
किं कारणं त इह शिक्षित वादिश्रेष्ठा गमयन्ति धर्म निखिलानिह शून्यतायाम्
यां श्रुत्व श्रावक स्पृशन्ति विमुक्ति शीघ्रं प्रत्येकबोधि स्पृशयन्ति च बुद्धबोधिम् ॥
असतो ऽङ्कुरस्य द्रुमसंभवु नास्ति लोके कुत शाखपत्रफलपुष्पौपादु तत्र
विन बोधिचित्त जिनसंभवु नास्ति लोके कुत शक्रब्रह्मफल श्रावकप्रादुभावः ॥
आदित्यमण्डलु यदा प्रभजाल मुञ्ची कर्मक्रियासु तद सत्त्व पराक्रमन्ति
तथ बोधिचित्त सद लोकविदुस्य ज्ञातो ज्ञानेन सर्वगुणधर्म समागमन्ति ॥
यथ नोपतप्त असतो भुजगाधिपस्य कुत नद्यप्रस्रवु भवेदिह जम्बुद्वीपे
असता नदीय फलपुष्प न संभवेयुः न च सागराण रतना भवि नैकरूपाः ॥
तथ बोधिचित्त असतीह तथागतस्य कुत ज्ञानप्रस्रवु भवेदिह सर्वलोके
ज्ञानस्य चो असति नास्ति गुणान वृद्धिः न च बोधि सागरसमा न च बुद्धधर्माः ॥
यावन्ति लोकि क्वचि जोतिकप्राणभूता ओभासनार्थ प्रभ ओसरयन्ति सर्वे
वरसूर्यमण्डलविनिःसृत एकरश्मी न कला पि ज्योतिकगणे सिय सर्वआभाः ॥
मूल पाठ: Ratnaguṇasaṃcayagāthā · Edition: P.L. Vaidya in: Mahayana-sutra-samgrahah, Part 1. Darbhanga: The Mithila Institute 1961 (Buddhist Sanskrit Texts, 17) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0