भाषा

ENहिગુ
ग्रंथ पाठ

रत्नगुणसंचयगाथा · अध्याय 4

4.1

शक्रो जिनेन परिपृच्छितु प्रश्नमाहु सचि गङ्गवालिकसमा सिय बुद्धक्षेत्राः
जिनधातु सर्वि परिपूरित चूडिबद्धा इममेव प्रज्ञवरपारमिताहु गृह्णे ॥

4.2

किं कारणं न मि शरीरि अगौरवत्वं अपि तू खु प्रज्ञपरिभावित पूजयन्ति
यथ राजनिश्रित नरो लभि सर्वि पूजां तथ प्रज्ञपारमितनिश्रित बुद्धधातुः ॥

4.3

मणिरत्न सर्वि गुणयुक्त अनर्घप्राप्तो यस्मिं करण्डकि भवे स नमस्यनीयः
तस्यापि उद्धृत स्पृहन्ति करण्डकस्मिं तस्यैव ते गुण महारतनस्य भोन्ति ॥

4.4

एमेव प्रज्ञवरपारमितागुणानि यन्निर्वृते ऽपि जिनधातु लभन्ति पूजाम्
तस्मा हु तान् जिनगुणा(न्) परिघेत्तुकामो सो प्रज्ञपारमित गृह्णतु एष मोक्षो ॥

4.

पूर्वंगमा भवतु दानु ददन्तु प्रज्ञा शीले च क्षान्ति तथ वीर्य तथैव ध्याने
परिग्राहिका कुशलधर्मअविप्रणाशे एका च सा अपि निदर्शयि सर्वधर्मान् ॥

4.6

यथ जम्बुद्वीपि बहुवृक्षसहस्रकोटी नानाप्रकार विविधाश्च अनेकरूपाः
न वि छायनानतु भवेत विशेषतापि अन्यत्र छायगतसंख्य प्रभाषमाणा ॥

4.7

एमेव पञ्च इमि पारमिता जिनानां प्रज्ञाय पारमित नामतया भवन्ति
सर्वज्ञताय परिणामयमाण सर्वे षडपीह एकनयमर्छति बोधिनामा ॥

मूल पाठ: Ratnaguṇasaṃcayagāthā · Edition: P.L. Vaidya in: Mahayana-sutra-samgrahah, Part 1. Darbhanga: The Mithila Institute 1961 (Buddhist Sanskrit Texts, 17) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc