रत्नगुणसंचयगाथा · अध्याय 3
य इमां ग्रहीष्यति पर्यापुणती स नित्यं प्रज्ञाय पारमित यत्र चरन्ति नाथाः
विष वह्नि शस्त्र उदकं न क्रमाति तस्यो ओतारु मारु न च विन्दति मारपक्षो ॥
परिनिर्वृतस्य सुगतस्य करेय्य स्तूपां पूजेय सप्तरतनामयु कश्चिदेव
तेहि प्रपूर्ण सिय क्षेत्रसहस्रकोट्यो यथ गङ्गवालिकसमैः सुगतस्य स्तूपैः ॥
यावन्त सत्त्व पुन तान्तक क्षेत्रकोट्यो ते सर्वि पूजन करेयुरनन्तकल्पान्
दिव्येहि पुष्पवरगन्धविलेपनेहि कल्पांस्त्रियध्वपरिकल्प ततो ऽपि भूयः ॥
यश्चो इमां सुगतमात लिखित्व पुस्ते यत उत्पती दशबलान विनायकानाम्
धारेयि सत्करयि पुष्पविलेपनेहि कल पुण्य भोन्ति न स स्तूपि करित्व पूजाम् ॥
महविद्य प्रज्ञ अयु पारमिता जनानां दुखधर्मशोकशमनी पृथुसत्त्वधातोः
ये ऽतीत ये ऽपि च दशद्दिश लोकनाथा इम विद्य शिक्षित अनुत्तरवैद्यराजाः ॥
ये वा चरन्ति चरियां हितसानुकम्पाम् इह विद्यशिक्षित विदु स्पृशिष्यन्ति बोधिम्
ये सौख्य संस्कृत असंस्कृत ये च सौख्या सर्वे च सौख्य प्रसुता इतु वेदितव्याः ॥
बीजाः प्रकीर्ण पृथिवीस्थित संभवन्ति सामग्रि लब्ध्व विरुहन्ति अनेकरुपाः
यावन्ति बोधिगुण पारमिताश्च पञ्च प्रज्ञाय पारमित ते विरुहन्ति सर्वे ॥
येनैव राज व्रजते स ह चक्रवर्ती तेनैव सप्त रतना बलकाय सर्वे
येनैव प्रज्ञ इय पारमिता जिनानां तेनैव सर्वगुणधर्म समागमन्ति ॥
मूल पाठ: Ratnaguṇasaṃcayagāthā · Edition: P.L. Vaidya in: Mahayana-sutra-samgrahah, Part 1. Darbhanga: The Mithila Institute 1961 (Buddhist Sanskrit Texts, 17) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0