रत्नगुणसंचयगाथा · अध्याय 2
रुपस्मि यो न स्थिहते न च वेदनायां संज्ञाय यो न स्थिहते न च चेतनायाम्
विज्ञानि यो न स्थिहते स्थितु धर्मतायां एषा स प्रज्ञवरपारमिताय चर्या ॥
नित्यमनित्यसुखदुःखशुभाशुभं ति आत्मन्यनात्मि तथता त(थ) शून्यतायाम्
फलप्राप्तिताय अथितो अरहन्तभूमौ प्रत्येकभूमिअथितो तथ बुद्धभूमौ ॥
यथ नायको ऽस्थितकु धातुअसंस्कृताया तथ संस्कृताय अथितो अनिकेतचारी
एवं च स्थानु अथितो स्थित बोधिसत्त्वो अस्थानु स्थानु अयु स्थानु जिनेन उक्तो ॥
यो इच्छती सुगतश्रावक हं भवेयं प्रत्येकबुद्ध भवियां तथ धर्मराजो
इमु क्षान्त्यनागमि न शक्यति प्रापुणेतुं यथ आरपारगमनाय अतीतदर्शी ॥
यो धर्म भाष्यति य भाष्यति भाष्यमाणां फलप्राप्त प्रत्ययजिनो तथ लोकनाथो
निर्वाणतो अधिगतो विदुपण्डितेहि सर्वे त आत्मज निदृष्ट तथागतेन ॥
चत्वारि पुद्गल इमे न त्रसन्ति ये ऽस्मिन् जिनपुत्र सत्यकुशलो अविवर्तियश्च
अर्हं विधूतमलक्लेश प्रहीणकाङ्क्षो कल्याणमित्रपरिपाचित यश्चतुर्थः ॥
एवं चरन्तु विदु पण्डितु बोधिसत्त्वो नार्हंमि शिक्षति न प्रत्ययबुद्धभूमौ
सर्वज्ञताय अनुशिक्षति बुद्धधर्मे शिक्षाअशिक्ष न य शिक्षति एष शिक्षा ॥
न च रुपवृद्धिपरिहाणिपरिग्रहाये न च शिक्षति विविधधर्मपरिग्रहाये
सर्वज्ञतां च परिगृह्णति शिक्षमाणो निर्यायती य इय शिक्ष गुणे रतानाम् ॥
रुपे न प्रज्ञ इति रुपि न अस्ति प्रज्ञा विज्ञान संज्ञ अपि वेदन चेतना च
न च एति प्रज्ञ इति तेष न अस्ति प्रज्ञा आकाशधातुसम तस्य न चास्ति भेदः ॥
आरम्बणान प्रकृती स अ(न)न्तपारा सत्त्वान या च प्रकृती स अनन्तपारा
आकाशधातुप्रकृती स अनन्तपारा प्रज्ञा पि लोकविदुनां स अनन्तपारा ॥
संज्ञेति नाम परिकीर्तितु नायकेन संज्ञां विभाविय प्रहाण व्रजन्ति पारम्
ये अत्र संज्ञविगमं अनुप्राप्नुवन्ति ते पारप्राप्त स्थित पारमिते हु भोन्ति ॥
सचि गङ्गवालुकसमानि स्थिहित्व कल्पां सत्त्वेति शब्द परिकीर्तयि नायको ऽयम्
सत्त्वस्युपादु कुतु भेष्यति आदिशुद्धो एषा स प्रज्ञवरपारमिताय चर्या ॥
एवं जिनो भणति अप्रतिकूलभाणी यदहं इमाय वरपारमिताय आसी
तद व्याकृतो ऽहु परापुरुषोत्तमेन बुद्धो भविष्यसि अनागतअध्वनस्मिन् ॥
मूल पाठ: Ratnaguṇasaṃcayagāthā · Edition: P.L. Vaidya in: Mahayana-sutra-samgrahah, Part 1. Darbhanga: The Mithila Institute 1961 (Buddhist Sanskrit Texts, 17) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0