भाषा

ENहिગુ
ग्रंथ पाठ

रत्नगुणसंचयगाथा · अध्याय 26

26.1

अविवर्तियस्य वरबोधयि प्रस्थितस्य यो चित्तुपादु अनुमोदितु आशयेन
त्रिसहस्र मेरु तुलयित्व सियाप्रमाणो न त्वेव तस्य कुशलस्यनुमोदनाये ॥

26.2

यावन्त सत्त्व कुशलार्थिक मोक्षकामा सर्वेष भोन्ति अनुमोदितु पुण्यराशि
सत्त्वर्थि ते जिनगुण अनन्त प्रापुणित्वा दास्यन्ति धर्म जगती दुखसंक्षयाये ॥

26.3

यो बोधिसत्त्व अविकल्पकु सर्वधर्मान् शून्यानिमित्त परिजानति निष्प्रपञ्चान्
न च प्रज्ञ बोधि परिएषति आशयेन सो युक्त प्रज्ञवरपारमिताय योगी ॥

26.4

आकाशधातु गगनस्य सिया विरोधो न हि तेन तस्य कुतु केनचिदेष प्राप्ता
एमेव प्रज्ञचरितो विदु बोधिसत्त्वो अभ्योवकाशसदृशो उपशान्तचारी ॥

26.5

यथ मायकारपुरुषस्य न एव भोति ते शिष्य मां जनत सो च करोति कार्यम्
पश्यन्ति तं विविध कार्यु निदर्शयन्तं न च तस्य कायु न पि चित्त न नामधेयम् ॥

26.6

एमेव प्रज्ञचरिते न कदाचि भोति बुद्धित्व बोधि जगती परिमोचयित्वा
आत्मोपपत्ति विविधां क्रियसंप्रयोगां दर्शेति मायसदृशो न विकल्पचारी ॥

26.7

यथ बुद्ध निर्मित करोति च बुद्धकार्यं न च तस्युपद्यति मदो करमाणु किंचित्
एमेव प्रज्ञचरितो विदु बोधिसत्त्वो दर्शेति सर्व क्रिय निर्मितमायतुल्यम् ॥

26.8

पलगण्ड दक्ष विदुना कृतु दारुयन्त्रो पुरुषे स्त्रितुल्य स करोति ह सर्वकार्यम्
एमेव प्रज्ञचरितो विदु बोधिसत्त्वो ज्ञानेन सर्व क्रिय कुर्वति निर्विकल्पो ॥

मूल पाठ: Ratnaguṇasaṃcayagāthā · Edition: P.L. Vaidya in: Mahayana-sutra-samgrahah, Part 1. Darbhanga: The Mithila Institute 1961 (Buddhist Sanskrit Texts, 17) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc