भाषा

ENहिગુ
ग्रंथ पाठ

रत्नगुणसंचयगाथा · अध्याय 25

25.1

यो शिक्षमाणु न उपैति कहिंचि शिक्षां न च शिक्षकं लभति नापि च शिक्षधर्मान्
शिक्षा अशिक्ष उभयो अविकल्पमानो यो शिक्षते स इह शिक्षति बुद्धधर्मे ॥

25.2

यो बोधिसत्त्व इमु जानति एव शिक्षां न स जातु शिक्षविकलो भवते दुशीलो
आराधितेषु इह शिक्षति बुद्धधर्मं शिक्षातिशिक्षकुशलो ति निरूपलम्भो ॥

25.3

शिक्षन्तु एव विदु प्रज्ञ प्रभंकराणां नोत्पद्यते अकुशलमपि एकचित्तम्
सूर्ये यथा गगनि गच्छति अन्तरीक्षे रश्मीगते न स्थिहते पुरतो ऽन्धकारम् ॥

25.4

प्रज्ञाय पारमित शिक्षित संस्कृतानां सर्वेष पारमित भोन्तिह संगृहीताः
सत्कायदृष्टि यथ षष्टि दुवे च दृष्टी अन्तर्गतास्तथमि पारमिता भवन्ति ॥

25.5

यथ जीवितेन्द्रिय निरुद्धि य केचिदन्ये भोन्ती निरुद्ध पृथु इन्द्रिय यावदस्ति
एमेव प्रज्ञचरिते विदु उत्तमानां सर्वेत पारमित उक्त य संगृहीता ॥

25.6

ये चापि श्रावकगुणा तथ प्रत्ययानां सर्वेषु भोन्ति विदु शिक्षितु बोधिसत्त्वा
नो चापि तत्र स्थिहतान स्पृहेति तेषाम् अयु शिक्षितव्यमति शिक्षति एतमर्थम् ॥

मूल पाठ: Ratnaguṇasaṃcayagāthā · Edition: P.L. Vaidya in: Mahayana-sutra-samgrahah, Part 1. Darbhanga: The Mithila Institute 1961 (Buddhist Sanskrit Texts, 17) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc