भाषा

ENहिગુ
ग्रंथ पाठ

रत्नगुणसंचयगाथा · अध्याय 27

27.1

एवं चरन्तु विदु ना पृथुदेवसंघाः कृतअञ्जलीपुट प्रणम्य नमस्ययन्ति
बुद्धा पि यावत दशद्दिशि लोकधातौ गुणवर्णमालपरिकीर्तन कुर्वयन्ति ॥

27.2

यावन्ति गङ्गनदिवालिसमे हि क्षेत्रे सत्त्वा त सर्वि परिकल्प भवेयु माराः
एकैक रोम पुन तान्तक निर्मिणेय्या सर्वे न शक्य करणे विदु अन्तरायम् ॥

27.3

चतुकारणेहि बलवां विदु बोधिसत्त्वो भवते दुघर्षु चतुमारअसंप्रकम्प्यो
शून्याविहारि भवते न च सत्त्वत्यागी यथवादि सत्त्वकरुणानुगतावस्थानः ॥

27.4

यो बोधिसत्त्व अधिमुच्यति भाष्यमाणाम् इम प्रज्ञपारमित मात तथागतानाम्
प्रतिपत्तिया च अभियुज्यति आशयेन सर्वज्ञताय अभिप्रस्थितु वेदितव्यो ॥

27.5

न च धर्मधातुतथताय उपैति स्थानं भवती अथानस्थित सो लघु अन्तरीक्षे
विद्याधरो व अभिलम्भु वनाभिप्राया खगु कालहीन द्रुम मन्त्रबलाधिष्ठानो ॥

27.6

एवं चरन्तु विदु पण्डितु बोधिसत्त्वो न च बुध्यकं लभति नापि च बुद्धधर्मान्
न च देशिकं न पि च पश्यक धर्मतायां शान्तैषिणामयु विहार गुणे रतानाम् ॥

27.7

यावन्त श्रावकविहार सप्रत्ययानां शान्ता समाधिप्रशमे सुखसंप्रयुक्ता
अर्हन्विमोक्ष स्थपयित्व तथागतानां सर्वेषु अग्र अयु विहारु निरुत्तरश्च ॥

27.8

आकाशि पक्षि विहराति न चो पताति दकमध्यि मत्स्य विहराति न चो मराति
एमेव ध्यानबलपारगु बोधिसत्त्वो शून्याविहारि न च निर्वृति प्रापुणाति ॥

27.9

यो सर्वसत्त्वगुणअग्रतु गन्तुकामो अग्रं स्पृशेय परमाद्भुत बुद्धज्ञानम्
अग्रं ददेय वर उत्तमधर्मदानम् इमु अग्रु सेवतु विहारु हितंकराणाम् ॥

मूल पाठ: Ratnaguṇasaṃcayagāthā · Edition: P.L. Vaidya in: Mahayana-sutra-samgrahah, Part 1. Darbhanga: The Mithila Institute 1961 (Buddhist Sanskrit Texts, 17) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc