रत्नगुणसंचयगाथा · अध्याय 1
पर प्रेम गौरव प्रसाद उपस्थपित्वा प्रजहित्व आवरण क्लेशमलातिक्रान्ताः
शृणुता जगार्थमभिप्रस्थित सुर(व्र?)तानां प्रज्ञाय पारमित यत्र चरन्ति शूराः ॥
यावन्ति नद्य प्रवहन्तिह जम्बुद्वीपे फल पुष्प औषधा(धि) वनस्पति रोहयन्ति
भूज(त) गजेन्द्रनागपतिनिश्रयनोवत(न)स्य(?) तस्यानुभावश्रिय साभु जगाधिपस्य ॥
यावन्ति धर्म जिनश्रावक देशयन्ति भाषन्ति युक्तिसहितांश्च उदीरयन्ति
परमार्थसौख्यक्रिय तत्फलप्राप्तिता च सर्वो अयं पुरुषकारु तथागतस्य ॥
किं कारणं य जिन भाषति धर्मनेत्रीं तत्राभिशिक्षित नरर्षभशिष्यभूताः
साक्षात्करित्व यथ शिक्षित देशयन्ति बुद्धानुभाव पुन आत्मबलानुभावा ॥
यस्मिन्न प्रज्ञवरपारमितोपलब्धिः न च बोधिसत्त्वौपलब्धि न चित्तबोधेः
एवं श्रुणित्व न च मुह्यति नास्ति त्रासो सो बोधि(स)त्त्व चरते सुगतान प्रज्ञाम् ॥
न च रुप वेदन न संज्ञ न चेतना च विज्ञान स्थानु अणुमात्र न भोन्ति तस्य
सो सर्वधर्मअस्थितो अनिकेतचारी अपरी(रि)गृहीत लभते सुगतान बोधिम् ॥
अथ श्रेणिकस्य अभुती परिव्राजकस्य ज्ञानोपलम्भु न हि स्कन्धविभावना च
यो बोधिसत्त्व परिजानति एव धर्मां न च निर्वृतिं स्पृशति सो विहराति प्रज्ञाम् ॥
व्युपरीक्षते पुनरयं कतरेषु प्रज्ञा कस्मात्कुतो व इमि शून्यक सर्व धर्माः
व्युपरीक्षमाणु न च लीयति नास्ति त्रासो आसन्नु सो भवति बोधयि बोधिसत्त्वो ॥
सचि रुप संज्ञ अपि वेदन चेतना च विज्ञान स्कन्ध चरती अप्रजानमानो
इमि स्कन्ध शून्य परिकल्पयि बोधिसत्त्वो चरती निमित्तअनुपादपदे असक्तो ॥
न च रुप वेदन न संज्ञ न चेतनाया विज्ञानि यो न चरती अनिकेतचारी
चरतीति सो न उपगच्छति प्रज्ञधारी अनुपादधी स्पृशति शान्ति समाधि श्रेष्ठाम् ॥
एवात्मशान्ति विहरन्निह बोधिसत्त्वो सो व्याकृतो पुरमकेहि तथागतेहि
न च मन्यते अहु समाधितु व्युत्थितो वा कस्मार्थ धर्मप्रकृतिं परिजानयित्वा ॥
एवं चरन्तु चरती सुगतान प्रज्ञां नो चापि सो लभति यत्र चराति धर्मम्
चरणं च सो ऽचरणं च प्रजानयित्वा एषा स प्रज्ञवरपारमिताय चर्या ॥
यो ऽसौ न विद्यति स एष अविद्यमानो तां बालु कल्पयि अविद्य करोति विद्याम्
विद्या अविद्य उभि एति असन्त धर्मा निर्याति यो इति प्रजानति बोधिसत्त्वो ॥
मायोपमां य इह जानति पञ्च स्कन्धां न च माय अन्य न च स्कन्ध करोति अन्यान्
नानात्वसंज्ञविगतो उपशान्तचारी एषा स प्रज्ञवरपारमिताय चर्या ॥
कल्याणमित्रसहितस्य विपश्यकस्य त्रासो न भेष्यति श्रुणित्व जिनान मात्राम्
यो पापमित्रसहितो च परप्रणेयो सो आमभाजन यथोदकस्पृष्ट भिन्नो ॥
किं कारणं अयु प्रवुच्यति बोधिसत्त्वो सर्वत्र सङ्गक्रिय इच्छति सङ्गछेदी
बोधिं स्पृशिष्यति जिनान असङ्गभूतां तस्माद्धि नाम लभते अयु बोधिसत्त्वो ॥
महसत्त्व सो ऽथ केनोच्यति कारणेन महताय अत्र अयु भेष्यति सत्त्वराशेः
दृष्टीगतां महति छिन्दति सत्त्वधातोः महसत्त्व तेन हि प्रवुच्यति कारणेन ॥
महनायको महतबुद्धि महानुभावो महयान उत्तमजिनान समाधिरूढो
महता सनद्धु नमुचिं शठ धर्षयिष्ये महसत्त्व तेन हि प्रवुच्यति कारणेन ॥
मायाकरो यथ चतुष्पथि निर्मिणित्वा महतो जनस्य बहु छिन्दति शीर्षकोटी
यथ ते च माय तथ जानति सर्वसत्त्वां निर्माणु सर्व जगतो न च तस्य त्रासो ॥
रुपं च संज्ञ अपि वेदन चेतना च विज्ञान बन्धु न च मुक्त असङ्गभूतो
एवं च बोधि क्रमते न च लीनचित्तो संना ह एष वरपुद्गलौत्तमानाम् ॥
किं कारणं अयु प्रवुच्यति बोधियानो यत्रारुहित्व स निर्वापयि सर्वसत्त्वान्
आकाशतुल्य अयु यान महाविमानो सुखसौख्यक्षेमभिप्रापणु यानश्रेष्ठो ॥
न च लभ्यते य व्रजते दिश आरुहित्वा निर्वाणओकगमनं गति नोपलब्धिः
यथ अग्नि निर्वृतु न तस्य गतिप्रचारो सो तेन निर्वृति प्रवुच्यति कारणेन ॥
पूर्वान्ततो न उपलभ्यति बोधिसत्त्वो अपरान्ततो ऽपि प्रतिउपन्न त्रियध्वशुद्धो
यो शुद्ध सो अनभिसंस्कृतु निष्प्रपञ्चो एषा स प्रज्ञवरपारमिताय चर्या ॥
यस्मिंश् च कालि समये विदु बोधिसत्त्वो एवं चरन्तु अनुपादु विचिन्तयित्वा
महतीं जनेति करुणां न च सत्त्वसंज्ञा एषा स प्रज्ञवरपारमिताय चर्या ॥
सचि सत्त्वसंज्ञ दुखसंज्ञ उपादयाती हरिष्यामि दुःख जगतीं करिष्यामि अर्थम्
सो आत्मस(त्त्व) परिकल्पकु बोधिसत्त्वो न च एष प्रज्ञवरपारमिताय चर्या ॥
यथ आत्मनं तथ प्रजानति सर्वसत्त्वां यथ सर्वसत्त्व तथ प्रजानति सर्वधर्मान्
अनुपादुपादु उभये अविकल्पमानो एषा स प्रज्ञवरपारमिताय चर्या ॥
यावन्ति लोकि परिकीर्तित धर्मनाम सर्वेषुपादसमतिक्रमु निर्गमित्वा
अमृतं ति ज्ञानु परमं न तु यो परेण एकार्थ प्रज्ञ अयु पारमितेति नामा ॥
एवं चरन्तु न च काङ्क्षति बोधिसत्त्वो ज्ञातव्य यो विहर ते स उपायप्रज्ञो
प्रकृतीअसन्त परिजानयमान धर्मां एषा स प्रज्ञवरपारमिताय चर्या ॥
मूल पाठ: Ratnaguṇasaṃcayagāthā · Edition: P.L. Vaidya in: Mahayana-sutra-samgrahah, Part 1. Darbhanga: The Mithila Institute 1961 (Buddhist Sanskrit Texts, 17) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0