रत्नगुणसंचयगाथा · अध्याय 18
गम्भीर रुप अपि वेदन चेतना च विज्ञान संज्ञ प्रकृती अनिमित्तशान्ता
काण्डेन गाध यथ सागरि एषमाणो प्रज्ञाय स्कन्ध विमृषित्व अलब्धगाधा ॥
यो बोधिसत्त्व इमु बुध्यति एव धर्मां गम्भीरयानपरमार्थनिरुपलेपान्
यस्मिन् न स्कन्ध न पि आयतनं न धातु किं वा स्वपुण्यसमुदागमु किंचि तस्य ॥
यथ रागधर्मचरितः पुरुषः स्त्रियाये संकेत कृत्व अलभन्तु विवर्तयेया
यावन्ति चित्तचरिता दिवसेन तस्य तावन्त कल्प अनुबुध्यति बोधिसत्त्वो ॥
यो बोधिसत्त्व बहुकल्पसहस्रकोटयो दानं ददेयु विमलं तथ शील रक्षे
यश्चैव प्रज्ञवरपारमिताप्रयुक्तो धर्मं भणेय कल पुण्य न दानशीले ॥
यो बोधिसत्त्व वरप्रज्ञ विभावयन्तो तत उत्थितो कथयि धर्म निरुपलेपम्
तं चापि नामयि जगार्थनिदान बोधौ नास्ति त्रिलोक शुभ तेन समं भवेया ॥
तं चैव पुण्य पुन ख्यायति रिक्तमेव तथ शून्य तुच्छ वशिकं च असारकं च
एवं चरन्तु चरती सुगतान प्रज्ञां चरमाणु पुण्यु परिगृह्णति अप्रमेयम् ॥
अभिलापमात्र इम जानति सर्वधर्मां बुद्धेन देशित प्रयुक्त प्रकाशितांश्च
कल्पान कोटिनयुतां बहु भाषमाणो न च क्षीयते न च विवर्धति धर्मधातुः ॥
ये चापि पञ्च इमि पारमिता जिनानाम् एते ऽपि धर्म परिकीर्तित नाममात्राः
परिणामयाति न च मन्यति बोधिसत्त्वो न च हीयते स्पृशति उत्तमबुद्धबोधिम् ॥
मूल पाठ: Ratnaguṇasaṃcayagāthā · Edition: P.L. Vaidya in: Mahayana-sutra-samgrahah, Part 1. Darbhanga: The Mithila Institute 1961 (Buddhist Sanskrit Texts, 17) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0