भाषा

ENहिગુ
ग्रंथ पाठ

रसेन्द्रचिन्तामणि · अध्याय 8

8.1

र्चिन्त्, 8
अथातः प्रयोगीयम् अध्यायं व्याचक्ष्महे

8.2

तत्रश्लोकचतुष्टयं प्रागधिगन्तव्यम्

8.3

साग्नीनां चरकमतं फलमूलाद्यौषधं यदविरुद्धम् ।
तद्यदि रसानुपीतं भवेत्तदा त्वरितम् उल्लाघः

8.4

मात्रावृद्धिः कार्या तुल्यायामुपकृतौ क्रमाद्विदुषा ।
मात्राह्रासः कार्यो वैगुण्ये त्यागसमये च

8.5

वल्मीककूपतरुतलरथ्यादेवालयश्मशानेषु ।
जाता विधिनापि हृता ओषध्यः सिद्धिदा न स्युः

8.6

कचकचिति न दन्ताग्रे कुर्वन्ति समानि केतकीरजसा ।
योज्यानि हि प्रयोगे रसोपरसलोहचूर्णानि

8.7

सर्वप्रयोगयोग्यतया रसेन्द्रमारणाय शाम्भवीमुद्रामभिदध्मः

8.8

<अन्तर्धूम (?)>
अधस्ताप उपर्यापो मध्ये पारदगन्धकौ ।
यदि स्यात्सुदृढा मुद्रा मन्दभाग्योऽपि सिध्यति

8.9

यदि कार्यम् अयोयन्त्रं तदा तत्सार इष्यते

8.10

समे गन्धे तु रोगघ्नो द्विगुणे राजयक्ष्मनुत् ।
जीर्णे गुणत्रये गन्धे कामिनीदर्पनाशनः

8.11

चतुर्गुणे तु तेजस्वी सर्वशास्त्रविशारदः ।
भवेत्पञ्चगुणे सिद्धः षड्गुणे मृत्युजिद्भवेत्

8.12

षड्गुणे रोगघ्न इतियदुक्तं तत्तु बहिर्धूममूर्च्छायाम् एवाधिगन्तव्यम् तत्र गन्धस्य समग्रजारणाभावात् स्वर्णादिपिष्टिकायामपि रीतिरियम्

8.13

<मेदिचिने:: स्तोरगे>
वंशे वा माहिषे शृङ्गे स्थापयेत् साधितं रसम्

8.14

अमृतं च विषं प्रोक्तं शिवेन च रसायनम् ।
अमृतं विधिसंयुक्तं विधिहीनं तु तद्विषम्

8.15

<गन्धामृत>
भस्मसूतं द्विधा गन्धं शतं कन्याम्बुमर्दितम् ।
रुद्ध्वा लघुपुटे पच्यादुद्धृत्य मधुसर्पिषा

8.16

निष्कमात्रं जरामृत्युं हन्ति गन्धामृतो रसः ।
समूलं भृङ्गराजं तु छायाशुष्कं विमर्दयेत्

8.17

तत्समं त्रिफलाचूर्णं सर्वतुल्या सिता भवेत् ।
पलैकं भक्षयेच्चानु वर्षान्मृत्युजरापहम्

8.18

<हेमसुन्दररसः>
मृतसूतस्य पादांशं हेमभस्म प्रकल्पयेत् ।
क्षीराज्यमधुना मिश्रं माषैकं कान्तपात्रके

8.19

लोहयेन् माषषट्कं तु जरामृत्युविनाशनम् ।
वाकुचीचूर्णकर्षैकं धात्रीफलरसप्लुतम् ।
अनुपानं लिहेन्नित्यं स्याद्रसो हेमसुन्दरः

8.20

<चन्द्रोदयरसः>
पलं मृदु स्वर्णदलं रसेन्द्रात्पलाष्टकं षोडशगन्धकस्य ।
शोणैः सुकार्पासभवप्रसूनैः सर्वं विमर्द्याथ कुमारिकाद्भिः

8.21

तत्काचकुम्भे निहितं सुगाढे मृत्कर्पटैस् तद्दिवसत्रयं च ।
पचेत्क्रमाग्नौ सिकताख्ययन्त्रे ततो रसः पल्लवरागरम्यः

8.22

संगृह्य चैतस्य पलं पलं पलानि चत्वारि कर्पूररजस् तथैव ।
जातीफलं शोषणम् इन्द्रपुष्पं कस्तूरिकाया इह शाण एकः

8.23

चन्द्रोदयोऽयं कथितो ऽस्य वल्लो भुक्तोऽहिवल्लो दलमध्यवर्ती ।
मदोन्मदानां प्रमदाशतानां गर्वाधिकत्वं श्लथयत्यकाण्डे

8.24

शृतं घनीभूतम् अतीवदुग्धं गुरूणि मांसानि समण्डकानि ।
माषान्नपिष्टानि भवन्ति पथ्यान्यानन्ददायीन्यपराणि चात्र

8.25

रतिकाले रतान्ते च सेवितोऽयं रसेश्वरः ।
मानहानिं करोत्येष प्रमदानां सुनिश्चितम्

8.26

कृत्रिमं स्थावरं चैव जङ्गमं चैव यद् विषम् ।
न विकाराय भवति साधकेन्द्रस्य वत्सरात्

8.27

यथामृत्युञ्जयो ऽभ्यासान्मृत्युं जयति देहिनाम् ।
तथायं साधकेन्द्रस्य जरामरणनाशनः

8.28

वलीपलितनाशनस् तनुधृतां वयःस्तम्भनः ।
समस्तगदखण्डनः प्रचुररोगपञ्चाननः ।
गृहे च रसराडयं भवति यस्य चन्द्रोदयः ।
स पञ्चशरदर्पितो मृगदृशां भवेद् वल्लभः

8.29

<मृत्युञ्जयरसः>
बलिः सूतो निम्बूरसविमृदितो भस्मसिकताह्वये यन्त्रे कृत्वा समरविकणाटङ्कणरजः ।
त्रिघस्रं लुङ्गाम्भोलवकदलितः क्षौद्रहविषा विलीढो माषैको दलयति समस्तं गदगणम्

8.30

जरां वर्षैकेन क्षपयति च पुष्टिं वितनुते तनौ तेजस्कारं रमयति वधूनामपि शतम् ।
रसः श्रीमान्मृत्युञ्जय इति गिरीशेन गदितः प्रभावं को वान्यः कथयितुमपारं प्रभवति

8.31

<गन्धदाह>
पिष्टिः कार्या गन्धकेनेन्दुमौलेर् ऊर्ध्वं चाधो गन्धमादाय तुल्यम् ।
धार्या मध्ये पक्वमूषा तुषाग्नौ स्थाप्या चेत्थं मन्यते गन्धदाहः

8.32

<आनन्दसूतरसः>
शुद्धं रसं समविषं प्रहरं विमर्द्य तद्गोलकं कनकचारुफले निधाय ।
दोलागतं पञ्चदिनं विषमुष्टितोये प्रक्षाल्य तत्पुनरपीह तथा द्विवारम्

8.33

तत्सूतके गिरिशलोचनयुग्मगन्धं युक्त्यावजार्य कुरु भस्म समं च तस्य ।
वैक्रान्तभस्म जयपालनवांशकार्धं सर्वैर् विषं द्विगुणितं मृदितं च खल्वे

8.34

घस्रत्रयं कनकभृङ्गरसेन गाढम् आवेश्य भाजनतले विषधूपभाजि ।
भृङ्गद्रवेण शिथिलं लघुकाचकूप्याम् आपूर्य रुद्धवदनां सिकताख्ययन्त्रे

8.35

तां वासरार्थम् उपदीप्य निसर्गशीतां दृष्ट्वा विचूर्ण्य गदशालिषु शालिमात्रम् ।
आनन्दसूतम् अखिलामयकुम्भिसिंहं गद्याणकार्धसितया सह देहि पश्चात्

8.36

रोगानुरूपमनुपानमपि प्रकाशं क्षोणीभुजां प्रचुरपूजनमाप्नुहि त्वम् ।
कीर्त्या दिशो धवलय स्फुरदिन्दुकान्त्या वैद्येश्वरेति विरुदं भज वैद्यराज

8.37

<अर्कानलेश्वररसः>
माक्षीककनकौ गन्धं भ्रामयित्वा विचूर्णयेत् ।
रसं गन्धाद् द्विभागं च सिकतायन्त्रगं पचेत्

8.38

दिनमेवं च तारं वा जरारोगहरं महत् ।
<रविचन्द्रेश्वररसः>
रसेन पिष्ट्वा स्वर्णं वा ताप्यं पश्चाद् विमिश्रयेत्

8.39

ताप्यस्थाने मृतं तालं तारकर्मणि कस्यचित् ।
रससंख्यान्पुटान्दद्याद्गन्धैर्वा वीर्यवृद्धये

8.40

<प्राणिकल्पद्रुमगुटी>
सूतं गन्धं कान्तपाषाणमिश्रं ब्राह्मैर् बीजैर् मर्दयेद् एकघस्रम् ।
गोलं कृत्वा टङ्कणेन प्रवेष्ट्य पश्चान्मृत्स्नागोमयाभ्यां धमेत्तम्

8.41

शुष्कं यन्त्रे सत्त्वपातप्रधाने किट्टः सूतो बद्धतामेति नूनम् ।
बद्धं पश्चात् सारकाचप्रयोगाद्धेम्ना तुल्यं सूतमावर्तयेत्तु

8.42

वक्त्रे गोलः स्थापितो वत्सरार्थं रोगान् सर्वान्हन्ति सौख्यं करोति ।
यद्वा दुग्धे गोलकं पाचयित्वा दद्याद् दुग्धं पिप्पलीभिः क्षये तत्

8.43

लौहे पात्रे पाचयित्वा तु देयं शुष्के पाण्डौ कामले पित्तरोगे ।
वाते गोलं व्योषवातारितैले पक्त्वा तैलं गन्धयुक्तं ददीत

8.44

भार्ङ्गीमुण्डीकासमर्दाटरूषद्रावैर् गोलं पाचयेच्छ्लेष्मनुत्त्यै ।
कासे श्वासे तं च दद्यात् कषायं माध्वीकाक्तं पिप्पलीचूर्णयुक्तम्

8.45

यस्मिन् रोगे यः कषायोऽस्ति चोक्तस्तस्मिन् गोलं पाचयित्वा कषाये ।
दद्यात्तत्तद्रोगनाशाय पथ्यं तत्तद्रोगे कीर्तितं यत्तदेव

8.46

उक्तो गोलः प्राणिकल्पद्रुमोऽयं पूजां कृत्वा योजयेद्भक्तियोगात् ।
<रसशार्दूलरसः>
रसस्य द्विगुणं गन्धं शुद्धं संमर्दयेद् दिनम् ।
प्रतिलौहं सूततुल्यमष्टलौहं मृतं क्षिपेत्

8.47

ब्राह्मी जयन्ती निर्गुण्डी मधुयष्टी पुनर्नवा ।
नीलिका गिरिकर्ण्यर्ककृष्णधत्तूरकं यवाः

8.48

आटरूषः काकमाची द्रवैरासां विमर्दयेत् ।
गुञ्जात्रयं चतुष्कं वा सर्वरोगेषु योजयेत् ।
रोगोक्तमनुपानं वा कवोष्णं वा जलं पिबेत्

8.49

<त्रिनेत्ररसः>
रसगन्धकताम्राणि सिन्धुवाररसौदनम् ।
मर्दयेदातपे पश्चाद्वालुकायन्त्रमध्यगम्

8.50

रुद्ध्वा मूषागतं यामत्रयं तीव्राग्निना पचेत् ।
तद्गुञ्जा सर्वरोगेषु पर्णखण्डिकया सह

8.51

दातव्या देहसिद्ध्यर्थं पुष्टिवीर्यबलाय च ।
रसोऽयं हेमताराभ्याम् अपि सिध्यति कन्यया

8.52

<अमृतार्णवरसः>
सूतभस्म चतुर्भागं लौहभस्म तथाष्टकम् ।
मेघभस्म च षड्भागं शुद्धगन्धस्य पञ्चकम्

8.53

भावयेत्त्रिफलाक्वाथैस् तत् सर्वं भृङ्गजैर्द्रवैः ।
शिग्रुवह्णिकटुक्यद्भिः सप्तधा भावयेत्पृथक्

8.54

सर्वतुल्या कणा योज्या गुडैर्मिश्रं पुरातनैः ।
निष्कमात्रं सदा खादेज्जरां मृत्युं निहन्त्यलम्

8.55

ब्रह्मायुःस्याच्चतुर्मासै रसोऽयममृतार्णवः ।
तिलकौरण्टपत्राणि गुडेन भक्षयेदनु

8.56

<रत्नेश्वररसः>
अर्धं पारदतुल्येन तारं ताम्रेण मेलयेत् ।
मारयेत् सिकतायन्त्रे शिलाहिङ्गुलगन्धकैः

8.57

अयं रत्नेश्वरः सूतः सर्वत्रैव प्रयुज्यते ।
हेम्नो ऽन्तर्योजितो ह्येषो हेमतां प्रतिपद्यते

8.58

शेषोऽर्कश्चेद्गन्धकैर्वा कुनट्या वाहतद्विपैः ।
शोधयेत् कनकं सम्यग् अन्यैर् वा कालिकापहैः ।
वर्णह्रासे तु ताप्येन कारयेद्वर्णमुत्तमम्

8.59

<दुर्नामारि>
प्रणम्य शङ्करं रुद्रं दण्डपाणिं महेश्वरम् ।
जीवितारोग्यमन्विच्छन्नारदोऽपृच्छदीश्वरम्

8.60

सुखोपायेन हे नाथ शस्त्रक्षाराग्निभिर्विना ।
दुर्बलानां च भीरूणां चिकित्सां वक्तुमर्हसि

8.61

तच्छिष्यवचनं श्रुत्वा लोकानां हितकाम्यया ।
अर्शसां नाशनं श्रेष्ठं भैषज्यम् इदम् ईरितम्

8.62

पाण्डिवज्रादिलोहानाम् आदायान्यतमं शुभम् ।
कृत्वा निर्मलम् आदौ तु कुनट्या माक्षिकेण च

8.63

पत्तूरमूलकल्केन स्वरसेन दहेत्ततः ।
वह्नौ निक्षिप्य विधिवच्छालाङ्गारेण निर्धमेत्

8.64

ज्वाला च तस्य रोद्धव्या त्रिफलाया रसेन च ।
ततो विज्ञाय गलितं शङ्कुनोर्ध्वं समुत्क्षिपेत्

8.65

त्रिफलाया रसे पूते तदाकृष्य तु निर्वपेत् ।
न सम्यग्गलितं यत्तु तेनैव विधिना पुनः

8.66

ध्मातं निर्वापयेत्तस्मिंल्लौहं तत्त्रिफलारसे ।
यल्लौहं न मृतं तत्र पाच्यं भूयोऽपि पूर्ववत्

8.67

मारणान्न मृतं यच्च तत् त्यक्तव्यम् अलौहवत् ।
ततः संशोष्य विधिवच्चूर्णयेल्लौहभाजने

8.68

लोहखल्वे तथा पिंष्याद् दृषदि श्लक्ष्णचूर्णितम् ।
कृत्वा लोहमये पात्रे सार्द्रे वा लिप्तरन्धके

8.69

रसैः पङ्कसमं कृत्वा पचेत्तद्गोमयाग्निना ।
पुटानि क्रमशो दद्यात्पृथगेषां विधानतः

8.70

त्रिफलार्द्रकभृङ्गाणां केशराजस्य बुद्धिमान् ।
मानकन्दकभल्लातवह्नीनां सूरणस्य च

8.71

हस्तिकर्णपलाशस्य कुलिशस्य तथैव च ।
पुटे पुटे चूर्णयित्वा लोहात्षोडशिकं पलम्

8.72

तन्मानं त्रिफलायाश्च पलेनाधिकम् आहरेत् ।
अष्टभागावशिष्टे तु रसे तस्याः पचेद् बुधः

8.73

अष्टौ पलानि दत्त्वा तु सर्पिषो लोहभाजने ।
ताम्रे वा लोहदर्व्या तु चालयेद् विधिपूर्वकम्

8.74

ततः पाकविधानज्ञः स्वच्छे चोर्ध्वे च सर्पिषि ।
मृदुमध्यादिभेदेन गृह्णीयात्पाकमन्यतः

8.75

आरभेत विधानेन कृतकौतुकमङ्गलः ।
घृतभ्रामरसंयुक्तं लिहेद् आ रक्तिकं क्रमात्

8.76

वर्धमानानुपानं च गव्यं क्षीरोत्तमं मतम् ।
गव्याभावेऽप्यजायाश्च स्निग्धवृष्यादिभोजनम्

8.77

सद्यो वह्णिकरं चैव भस्मकं च नियच्छति ।
हन्ति वातं तथा पित्तं कुष्ठानि विषमज्वरम्

8.78

गुल्माक्षिपाण्डुरोगांश्च तन्द्रालस्यमरोचकम् ।
परिणामभवं शूलं प्रमेहमपबाहुकम्

8.79

श्वयथुं रुधिरस्रावं दुर्नामानं विशेषतः ।
बलकृद् बृंहणं चैव कान्तिदं स्वरवर्धनम्

8.80

शरीरलाघवकरमारोग्यं पुष्टिवर्धनम् ।
आयुष्यं श्रीकरं चैव वयस्तेजस्करं तथा

8.81

सश्रीकपुत्रजननं वलीपलितनाशनम् ।
दुर्नामारिर् अयं नाम्ना दृष्टो वारान् सहस्रशः ।
निर्मूलं दह्यते शीघ्रं यथा तूलं च वह्णिना

8.82

सौकुमार्याल्पकायत्वे मद्यसेवां समाचरेत् ।
जीर्णमद्यानि युक्तानि भोजनैः सह पाययेत्

8.83

लावतित्तिरिवर्तीरमयूरशशकादयः ।
चटकः कलविङ्कश्च वर्तको हरितालकः

8.84

श्येनकश्च बृहल्लावो वनविष्किरकादयः ।
पारावतमृगादीनां मांसं जाङ्गलजं तथा

8.85

मद्गुरो रोहितः श्रेष्ठः शकुलश्च विशेषतः ।
मत्स्यराजा इमे प्रोक्ता हितमत्स्येषु योजयेत्

8.86

प्रशस्तं वार्ताकफलं पटोलं बृहतीफलम् ।
प्रलम्बाभीरुवेत्राग्रजातुकं तण्डुलीयकम्

8.87

वास्तुकं धान्यशाकं च कर्णालुकपुनर्नवाम् ।
नारिकेलं च खर्जूरं दाडिमं लवलीफलम्

8.88

शृङ्गाटकं च पक्वाम्रं द्राक्षा तालफलानि च ।
जातिकोषं लवङ्गं च पूगं ताम्बूलपत्रकम् ।
हितान्येतानि वसूनि लोहमेतत्समश्नताम्

8.89

नाश्नीयाल्लकुचं कोलकर्कन्धुबदराणि च ।
जम्बीरं बीजपूरं च तिन्तिडीकरमर्दकम्

8.90

आनूपानि च मांसानि क्रकरं पुण्ड्रकादिकम् ।
हंससारसदात्यूहचाषक्रौञ्चबलाकिकाः

8.91

माषकन्दकरीराणि चणकं च कलिङ्गकम् ।
कूष्माण्डकं च कर्कोटीं केबुकं च विशेषतः

8.92

कञ्चटं कारवेल्लं च कशेरुं कर्कटीं तथा ।
विदलानि च सर्वाणि ककारादींश्च वर्जयेत्

8.93

शङ्करेण समाख्यातो यक्षराजानुकम्पया ।
जगतामुपकाराय दुर्नामारिरयं ध्रुवम्

8.94

स्थानादपैति मेरुश्च पृथ्वी पर्येति वायुना ।
पतन्ति चन्द्रताराश्च मिथ्या चेदहमब्रुवम्

8.95

ब्रह्मघ्नाश्च कृतघ्नाश्च क्रूराश्चासत्यवादिनः ।
वर्जनीया विदग्धेन भैषज्यगुरुनिन्दकाः

8.96

<इरोन्:: दोष:: रेमोवल्>
मुनिरसपिष्टविडङ्गं मुनिरसलीढं चिरस्थितं घर्मे ।
द्रावयति लोहदोषान् वह्णिर्नवनीतपिण्डमिव

8.97

कृमिरिपुचूर्णं लीढं सहितं स्वरसेन वङ्गसेनस्य ।
क्षपयत्यचिरान्नियतं लोहाजीर्णोद्भवं शूलम्

8.98

जीर्णे लौहे त्वपतति चूर्णं भुञ्जीत सिद्धिसाराख्यम् ।
लौहव्यापन्नश्यति विवर्धते जाठरो वह्णिः

8.99

<सिद्धसार>
पथ्यासैन्धवशुण्ठीमागधिकानां पृथक्समो भागः ।
त्रिवृताभागौ निम्बूभाव्यं स्यात् सिद्धिसाराख्यम्

8.100

आरग्वधस्य मज्जाभी रेचनं किट्टशान्तये ।
भवेद्यदतिसारस्तु दुग्धं पीत्वा तु तं जयेत्

8.101

रक्तिद्वादशकाद् ऊर्ध्वं वृद्धिरस्य भयप्रदा

8.102

काले मलप्रवृत्तिर्लाघवमुदरे विशुद्धिर् उद्गारे ।
अङ्गेषु नावसादो मनःप्रसादोऽस्य परिपाके

8.103

नागार्जुनो मुनीन्द्रः शशास यल्लोहशास्त्रम् अतिगहनम् ।
तस्यार्थस्य स्मृतये वयमेतद्विशदाक्षरैर्ब्रूमः

8.104

मेने मुनिः स्वतन्त्रे यः पाकं न पलपञ्चकादर्वाक् ।
सुबहुप्रयोगदोषाद् ऊर्ध्वं च पलत्रयोदशकात्

8.105

तत्रायसि पचनीये पञ्चपलादौ त्रयोदशपलकान्ते ।
लौहात्त्रिगुणा त्रिफला ग्राह्या षड्भिः पलैरधिका

8.106

मारणपुटनस्थालीपाकास् त्रिफलैकभागसंपाद्याः ।
त्रिफलाभागद्वितयं ग्रहणीयं लौहपाकार्थम्

8.107

सर्वत्रायः पुटनाद्यर्थैकांशे शरावसंख्यातम् ।
प्रतिपलमेव त्रिगुणं पाथः क्वाथार्थमादेयम्

8.108

सप्तपलादौ भागे पञ्चदशान्तेऽम्भसां शरावैश्च ।
त्र्याद्यैकादशकान्तैर् अधिकं तद्वारि कर्तव्यम्

8.109

तत्राष्टमो विभागः शेषः क्वाथस्य यत्नतः स्थाप्यः ।
तेन हि मारणपुटनस्थालीपाका भविष्यन्ति

8.110

पाकार्थे तु त्रिफलाभागद्वितये शरावसंख्यातम् ।
प्रतिपलमम्बु समं स्यादधिकं द्वाभ्यां शरावाभ्याम्

8.111

तत्र चतुर्थो भागः शेषो निपुणैः प्रयत्नतो ग्राह्यः ।
अयसः पाकार्थत्वात्स च सर्वस्मात् प्रधानतमः

8.112

पाकार्थमश्मसारे पञ्चपलादौ त्रयोदशपलान्ते ।
दुग्धशरावद्वितयं पादैर् एकादिकैर् अधिकम्

8.113

पञ्चपलादिर्मात्रा तदभावे तदनुसारतो ग्राह्यम् ।
चतुरादिकम् एकान्तं शक्तावधिकं त्रयोदशकात्

8.114

<इरोन्:: प्रक्षेपचूर्ण>
त्रिफलात्रिकटुकचित्रककान्तक्रामकविडङ्गचूर्णानि ।
जातीफलस्य जातीकोषैलाकङ्कोललवङ्गानाम् ।
सितकृष्णजीरकयोर् अपि चूर्णान्ययसा समानि स्युः

8.115

त्रिफलात्रिकटुविडङ्गा नियता अन्ये यथाप्रकृति बोध्याः ।
कालायसदोषहृते जातीफलादेर्लवङ्गकान्तस्य ।
क्षेपः प्राप्त्यनुरूपः सर्वस्योनस्य चैकाद्यैः

8.116

कान्तक्रामकमेकं निःशेषं दोषमपहरत्ययसः

8.117

द्विगुणत्रिगुणचतुर्गुणमाज्यं ग्राह्यं यथाप्रकृति

8.118

यदि भेषजभूयस्त्वं स्तोकत्वं वा तथापि चूर्णानाम् ।
अयसा साम्यं संख्या भूयोऽल्पत्वेन भूयोऽल्पा

8.119

एवं धात्वनुसारात्तत्तत्कथितौषधस्य बाधेन ।
सर्वत्रैव विधेयस् तत्तत्कथितस्यौषधस्योहः

8.120

<लौहमारणम्>
कान्तादिलौहमारणविधानसर्वस्वम् उच्यते तावत् ।
यस्य कृते तल्लौहं पक्तव्यं तस्य शुभे दिवसे

8.121

समृदङ्गारकरालितनतभूभागे शिवं समभ्यर्च्य ।
वैदिकविधिना वह्णिं निधाय दत्त्वाहुतीस्तत्र

8.122

धर्मात् सिध्यति सर्वं श्रेयस्तद्धर्मसिद्धये किमपि ।
शक्त्यनुरूपं दद्याद् द्विजाय संतोषिणे गुणिने

8.123

संतोष्य कर्मकारं प्रसादपूगादिदानसत्पानैः ।
आदौ तदश्मसारं निर्मलमेकान्ततः कुर्यात्

8.124

<??>
तदनु कुठारच्छिन्नात्रिफलागिरिकर्णिकास्थिसंहारैः ।
करिकर्णच्छदमूलशतावरीकेशराजाख्यैः

8.125

शालिं च मूलकाशीमूलप्रावृड्जभृङ्गराजैश् च ।
लिप्त्वा दग्धव्यं तद्दृष्टक्रियलौहकारेण

8.126

चिरजलभावितनिर्मलशालाङ्गारेण परित आच्छाद्य ।
कुशलाध्मापितभस्त्रानवरतमुक्तेन पवनेन

8.127

<??>
वह्णेर्बाह्यज्वाला बोद्धव्या जातु नैव कुञ्चिकया ।
मृल्लवणसलिलभाजा किं तु स्वच्छाम्बुसंप्लुतया

8.128

<द्रुग्स्:: लोसे पोतेन्च्य् ब्य् इम्पुरितिएस्>
द्रव्यान्तरसंयोगात् स्वां शक्तिं भेषजानि मुञ्चन्ति ।
मलधूलिमत् सर्वं सर्वत्र विवर्जयेत्तस्मात्

8.129

<मेतल्स्:: मेथोद् fओर् मेल्तिन्ग्>
सन्दंशेन गृहीत्वान्तः प्रज्वलिताग्निमध्यमुपनीय ।
गलति यथायथमग्रे तथैव मृदु वर्धयेन्निपुणः

8.130

<निर्वापण:: मेथोद्>
तलनिहितोर्ध्वमुखाङ्कुशलग्नं त्रिफलाजले विनिक्षिप्य ।
निर्वापयेदशेषं शेषं त्रिफलाम्बु रक्षेच्च

8.131

<इरोन्।मेतल्स्:: परीक्षा:: उन्मेल्तब्ले>
यल्लौहं न मृतं तत्पुनरपि पक्तव्यम् उक्तमार्गेण ।
यन्न मृतं तथापि तत् त्यक्तव्यम् अलौहमेव हि यत्

8.132

<जारणा (?):: => क्षालन>
तदनु घनलौहपात्रे कालायसमुद्गरेण संचूर्ण्य ।
दत्त्वा बहुशः सलिलं प्रक्षाल्याङ्गारम् उद्धृत्य

8.133

तदयः केवलम् अग्नौ शुष्कीकृत्याथवातपे पश्चात् ।
लौहशिलायां पिंष्यादसितेऽश्मनि वा तदप्राप्तौ

8.134

<स्थालीपाक>
अथ कृत्वायो भाण्डे दत्त्वा त्रिफलाम्बु शेषमन्यद्वा ।
प्रथमं स्थालीपाकं दद्याद् आ तत्क्षयात् तदनु

8.135

गजकर्णपत्रमूलशतावरीभृङ्गकेशराजरसैः ।
प्राग्वत् स्थालीपाकं कुर्यात्प्रत्येकमेकं वा

8.136

<पुटपाक>
हस्तप्रमाणवदनं श्वभ्रं हस्तैकखाति सममध्यम् ।
कृत्वा कटाहसदृशं तत्र करीषं तुषं च काष्ठं च

8.137

अन्तर्घनतरम् अर्धं सुषिरं परिपूर्य दहनमायोज्य ।
पश्चादयसश्चूर्णं श्लक्ष्णं पङ्कोपमं कुर्यात्

8.138

त्रिफलाम्बुभृङ्गकेशरशतावरीकन्दमाणसहजरसैः ।
भल्लातककरिकर्णच्छदमूलपुनर्नवास्वरसैः

8.139

क्षिप्त्वाथ लौहपात्रे मार्दे वा लौहमार्दपात्राभ्याम् ।
तुल्याभ्यां पृष्ठेनाच्छाद्यान्ते रन्ध्रम् आलिप्य

8.140

तत्पुटपात्रं तत्र श्वभ्रज्वलने निधाय भूयोभिः ।
काष्ठकरीषतुषैस् तत् संछाद्याहर्निशं दहेत्प्राज्ञः

8.141

एवं नवभिरमीभिर् मेषजराजैः पचेत्तु पुटपाकम् ।
प्रत्येकमेकमेभिर्मिलितैर्वा त्रिचतुरान् वारान्

8.142

<पुटपाक:: ग्रिन्दिन्ग् अfतेर् एअछ् ~>
प्रति पुटनं तत्पिंष्यात् स्थालीपाकं विधाय तथैव तत् ।
तादृशि दृषदि न पिंष्याद् विगलद्रजसा तु युज्यते यत्र

8.143

तदयश्चूर्णं पिष्टं घृष्टं घनसूक्ष्मवाससि श्लक्ष्णम् ।
यदि रजसा सदृशं स्यात्केतक्यास्तर्हि तद्भद्रम्

8.144

पुटने स्थालीपाके ऽधिकृतपुरुषे स्वभावरुगधिगमात् ।
कथितमपि हेयम् औषधम् उचितम् उपादेयम् अन्यद् अपि

8.145

अभ्यस्तकर्मविधिभिर् वालकुशाग्रीयबुद्धिभिर् अलक्ष्यम् ।
लौहस्य पाकमधुना नागार्जुनशिष्टमभिदध्मः

8.146

<लौहपाक (हेअतिन्ग्।मेल्तिन्ग् इरोन्)>
लोहारकूटताम्रकटाहे दृढमृन्मये प्रणम्य शिवम् ।
तदयः पचेदचपलः काष्ठेन्धनेन वह्णिना मृदुना

8.147

निक्षिप्य त्रिफलाजलम् उदितं यत्तद् घृतं च दुग्धं च ।
संचाल्य लौहमय्या दर्व्या लग्नं समुत्पाट्य

8.148

<पाक (मेल्तिन्ग्, हेअतिन्ग्):: थ्रेए ग्रदेस्>
मृदुमध्यखरभावैः पाकस् त्रिविधो ऽत्र वक्ष्यते पुंसाम् ।
पित्तसमीरणश्लेष्मप्रकृतीनां मध्यमस्तु समः

8.149

<पाक:: देतेच्तिन्ग् थे इन्तेन्सित्य्>
अभ्यक्तदर्विलौहं सुखदुःखस्खलनयोगि मृदु मध्यम् ।
उज्झितदर्विखरं परिभाषन्ते केचिदाचार्याः

8.150

अन्ये विहीनदर्वीप्रलेपम् आखूत्कराकृतिं ब्रुवते ।
मृदु मध्यम् अर्धचूर्णं सिकतापुञ्जोपमं तु खरम्

8.151

त्रिविधोऽपि पाक ईदृक् सर्वेषां गुणकृदेव न तु विफलः ।
प्रकृतिविशेषे सूक्ष्मौ गुणदोषौ जनयतीत्यल्पम्

8.152

<प्रक्षेप>
विज्ञाय पाकमेव द्रागवतार्य क्षितौ क्षणान् कियतः ।
विश्राम्य तत्र लौहे त्रिफलादेः प्रक्षिपेच्चूर्णम्

8.153

यदि कर्पूरप्राप्तिर्भवति ततो विगलिते तदुष्णत्वे ।
चूर्णीकृतमनुरूपं क्षिपेन्न वा न यदि तल्लाभः

8.154

<इरोन्:: मोल्तेन्:: स्तोरगे>
पक्वं तदश्मसारं सुचिरघृतस्थित्यभाविरूक्षत्वे ।
गोदोहनादिभाण्डे लौहभाण्डाभावे सति स्थाप्यम्

8.155

यदि तु परिप्लुतिहेतोर् घृतम् ईक्षेताधिकं ततोऽन्यस्मिन् ।
भाण्डे निधाय रक्षेद् भाव्युपयोगो ह्यनेन महान्

8.156

<इरोन्:: स्नेहन>
अयसि विरूक्षीभूते स्नेहस्त्रिफलाघृतेन संपाद्यः ।
एतत्ततो गुणोत्तरमित्यमुना स्नेहनीयं तत्

8.157

<इरोन्:: सेवन>
अत्यन्तकफप्रकृतेर् भक्षणम् अयसो ऽमुनैव शंसन्ति ।
केवलम् अपीदम् अशितं जनत्ययसो गुणान् कियतः

8.158

अथवा वक्तव्यविधिसंस्कृतकृष्णाभ्रचूर्णम् आदाय ।
लोहचतुर्थार्धसमद्वित्रिचतुःपञ्चगुणभागम्

8.159

प्रक्षिप्यायः प्राग्वत्पचेदुभाभ्यां भवेद्रजो यावत् ।
तावन्मानानुस्मृतेः स्यात्त्रिफलादिद्रव्यपरिमाणम्

8.160

इदम् आप्यायकम् इदम् अतिपित्तनुद् इदमेव कान्तिबलजननम् ।
स्तभ्नाति तृट्क्षुधौ परम् अधिकाधिकमात्रया क्षिप्तम्

8.161

<अभ्र:: शोधन:: निश्चन्द्रिक>
कृष्णाभ्रम् भेकवपुर् वज्राख्यं चैकपत्रकं कृत्वा ।
काष्ठमयोदूखलके चूर्णं मुशलेन कुर्वीत

8.162

भूयो दृषदि च पिष्टं वासः सूक्ष्मावकाशतलगलितम् ।
मण्डूकपर्णिकायाःप्रचुररसे स्थापयेत् त्रिदिनम्

8.163

उद्धृत्य तद्रसादथ पिंष्याद्धैमन्तिकधान्यभक्तस्य ।
अक्षोदात्यन्ताम्लस्वच्छजलेन प्रयत्नेन

8.164

मण्डूकपर्णिकायाः पूर्वरसेनैव मर्दनं कुर्यात् ।
स्थालीपाकं पुटनं चाद्यैरपि भृङ्गराजाद्यैः

8.165

अर्कादिपत्रमध्ये कृत्वा पिण्डं निधाय भस्त्राग्नौ ।
तावद्दहेन्न यावन्नीलोऽग्निर्दृश्यते सुचिरम्

8.166

निर्वापयेच्च दुग्धे दुग्धं प्रक्षाल्य वारिणा तदनु ।
पिष्ट्वा घृष्ट्वा गाल्य वस्त्रे चूर्णं निश्चन्द्रकं कुर्यात्

8.167

<सिद्धलौहसेवन>
नानाविधरुक्शान्त्यै पुष्ट्यै कान्त्यै शिवं समभ्यर्च्य ।
सुविशुद्धेऽहनि पुण्ये तदमृतमादाय लौहाख्यम्

8.168

दशकृष्णलपरिमाणं शक्तिवयोभेदमाकलय्य पुनः ।
इदमधिकं तद् अधिकतरम् इयदेव न मातृमोदकवत्

8.169

सममसृणामलपात्रे लौहे लौहेन मर्दयेच्च पुनः ।
दत्त्वा मध्वनुरूपं तदनु घृतं योजयेद् अधिकम्

8.170

बन्धं गृह्णाति यथा मध्वपृथक्त्वेन पङ्कमविशिंषत् ।
इदमिह दृष्टोपकरणमेतद् अदृष्टं तु मन्त्रेण

8.171

स्वाहान्तेन विमर्दो भवति फडन्तेन लौहबलरक्षा ।
सनमस्कारेण बलिर्भक्षणमयसो हूमन्तेण

8.172

ओं अमृतोद्भवाय स्वाहा ओं अमृते हूं फट् ।
ओं नमश्चण्डवज्रपाणये महायक्षसेनाधिपतये सुरगुरुविद्यामहाबलाय स्वाहा ।
ओं अमृते हूम् ।
जग्ध्वा तदमृतसारं नीरं वा क्षीरमेवानुपिबेत् ।
कान्तक्रामकममलं संचर्व्य रसं पिबेद् गिलेन्न तु तत्

8.173

आचम्य च ताम्बूलं लाभे घनसारसहितमुपयोज्यम्

8.174

नात्युपविष्टो नाप्यतिभाषी नातिस्थितस् तिष्ठेत्

8.175

अत्यन्तवातशीतातपयानस्नानवेगरोधादीन् ।
जह्याच्च दिवानिद्रासहितं चाकालभुक्तं च

8.176

वातकृतः पित्तकृतः सर्वान् कट्वम्लतिक्तकषायान् ।
तत्क्षणविनाशहेतून् मैथुनकोपश्रमान् दूरे

8.177

अशितं तदयः पश्चात्पततु न वा पाटवं छडु प्रथताम् ।
आर्तिर्भवतु नवान्त्रे कूजति भोक्तव्यमव्याजम्

8.178

प्रथमं पीत्वा दुग्धं शाल्यन्नं विशदसिद्धम् अक्लिन्नम् ।
घृतसंप्लुतम् अश्नीयान्मांसैर् वैहङ्गमैः प्रायः

8.179

उत्तममूषरभूचरविष्किरमांसं तथाजम् ऐणादि ।
अन्यदपि जलचराणां पृथुरोमापेक्षया ज्यायः

8.180

मांसालाभे मत्स्या अदोषलाः स्थूलसद्गुणा ग्राह्याः ।
मद्गुररोहितशकुला दग्धाः पललान्मनाङ्न्यूनाः

8.181

शृङ्गाटकफलकशेरुकदलीफलतालनारिकेलादि ।
अन्यदपि यच्च वृष्यं मधुरं पनसादिकं ज्यायः

8.182

केबुकतालकरीरान् वार्ताकुपटोलफलदलसमेतान् ।
मुद्गमसूरेक्षुरसान् शंसन्ति निरामिषेष्वेतान्

8.183

शाकं प्रहेयमखिलं स्तोकं रुचये तु वास्तुकं दद्यात् ।
विहितनिषिद्धाद् अन्यन्मध्यमकोटिस्थितं विद्यात्

8.184

तप्तदुग्धानुपानं प्रायः सारयति बद्धकोष्ठस्य ।
अनुपीतमम्बु यद्वा कोमलशस्यस्य नारिकेलस्य

8.185

यस्य न तथापि सरति सयवक्षारं जलं पिबेत्कोष्णम् ।
कोष्णं त्रिफलाक्वाथं क्षारसनाथं ततोऽप्यधिकम्

8.186

त्रीणि दिनानि समं स्यादह्नि चतुर्थे तु वर्धयेत् क्रमशः ।
यावत्तदष्टमाषं न वर्धयेत् पुनरितो ऽप्यधिकम्

8.187

आदौ रक्तिद्वितयं द्वितीयवृद्धौ तु रक्तिकात्रितयम् ।
रक्तीपञ्चकपञ्चकम् अत ऊर्ध्वं वर्धयेन्नियतम्

8.188

वात्सरिककल्पपक्षे दिनानि यावन्ति वर्धितं प्रथमम् ।
तावन्ति वर्षशेषे प्रतिलोमं ह्रासयेत्तदयः

8.189

तेष्वष्टमाषकेषु प्रातर्माषत्रयं समश्नीयात् ।
सायं च तावदह्णो मध्ये माषद्वयं शेषम्

8.190

एवं तदमृतमश्नन्कान्तिं लभते चिरस्थिरं देहम् ।
सप्ताहत्रयमात्रात्सर्वरुजो हन्ति किं बहुना

8.191

आर्याभिर् इह नवत्या सप्तविधिभिर् यथावद् आख्यातम् ।
अमतिविपर्ययसंशयशून्यम् अनुष्ठानम् उन्नीतम्

8.192

मुनिरचितशास्त्रपारं गत्वा सारं ततः समुद्धृत्य ।
निबबन्ध बान्धवानामुपकृतये कोऽपि षट्कर्मा

8.193

<ताम्रयोग>
कन्यातोये ताम्रपत्रं सुतप्तं कृत्वा वारान् विंशतिं प्रक्षिपेत्तत् ।
शुद्धं गन्धं तद्द्विभागं विमर्द्य निम्बूतोयैस्ताम्रपत्राणि लिप्त्वा

8.194

भाण्डे कृत्वा रोधयित्वा तु भाण्डं शालाग्नौ तं निक्षिपेत् पञ्चरात्रम् ।
शीतं जातं भावयेदुक्ततोयैर् यद्वा नीरैस् त्रैफलैर् एकघस्रम्

8.195

मध्वाज्याभ्यां पेषयित्वा पुटेत् तच्छुद्धं सिद्धं जायते देहसिद्ध्यै ।
गुञ्जामात्रं शाल्मलीनीरयुक्तं मध्वाज्याभ्यां सेवयेद् वत्सरार्धम्

8.196

दुग्धं खण्डं वानुपानं विदध्यात् साज्यं भोज्यं गौड्यम् अम्लेन युक्तम् ।
वीर्यं पुष्टिं दीपनं देहदार्ढ्यं दिव्यां दृष्टिं दीर्घमायुः करोति

8.197

<ताम्रयोग (2)>
रसतस्ताम्रं द्विगुणं ताम्रात् कृष्णाभ्रकं तथा द्विगुणम् ।
पृथगेवैषां शुद्धिस्ताम्रे शुद्धिस्ततो द्विविधा

8.198

पत्त्रीकृतस्य गन्धकयोगाद्वा मारणं तथा लवणैः ।
आक्ते ध्मापितताम्रे निर्गुण्डीकल्ककाञ्जिके मग्ने

8.199

यद्भवति गैरिकाभं तत्पिष्टम् अर्धगन्धकं तदनु ।
पुटपाकेन विशुद्धं शुद्धं स्यादभ्रकं तु पुनः

8.200

हिलमोचिमूलपिण्डे क्षिप्तं तदनु मार्दसम्पुटे लिप्ते ।
तीक्ष्णं दग्धं पिष्टम् अम्लाम्भसा साधु चन्द्रिकाविरहितम्

8.201

रेचितताम्रेण रसः खल्वशिलायां घृष्टः पिण्डिका कार्या ।
उत्स्वेद्य गृहसलिलेन निर्गुण्डीकल्केऽसकृच्छुद्धौ

8.202

एतत्सिद्धं त्रितयं चूर्णितताम्रार्धिकैः पृथग्युक्तम् ।
पिप्पलीविडङ्गमरिचैः श्लक्ष्णं द्वित्रिमाषकं भक्ष्यम्

8.203

शूलाम्लपित्तश्वयथुग्रहणीयक्ष्मादिकुक्षिरोगेषु ।
रसायनं महदेतत्परिहारो नियमतो नात्र

8.204

<लक्ष्मीविलासरसः>
पलं कृष्णाभ्रचूर्णस्य तदर्धौ रसगन्धकौ ।
कर्पूरस्य तदर्द्धं तु जातीकोषफले तथा

8.205

वृद्धदारकबीजं च बीजमुन्मत्तकस्य च ।
त्रैलोक्यविजयाबीजं विदारीकन्दम् एव च

8.206

नारायणी तथा नागबला चातिबला तथा ।
बीजं गोक्षुरकस्यापि हैज्जलं बीजमेव च

8.207

एतेषां कार्षिकं चूर्णं गृहीत्वा वारिणा पुनः ।
निष्पिष्य वटिका कार्या त्रिगुञ्जाफलमानतः

8.208

निहन्ति सन्निपातोत्थान् गदान् घोरान् सुदारुणान् ।
वातोत्थान् पैत्तिकांश्चापि नास्त्यत्र नियमः क्वचित्

8.209

कुष्ठमष्टादशविधं प्रमेहान् विंशतिं तथा ।
नाडीव्रणं व्रणं घोरं गुदामयभगन्दरम्

8.210

श्लीपदं कफवातोत्थं चिरजं कुलसम्भवम् ।
गलशोथमन्त्रवृद्धिमतिसारं सुदारुणम्

8.211

कासपीनसयक्ष्मार्शः स्थौल्यं दौर्बल्यमेव च ।
आमवातं सर्वरूपं जिह्वास्तम्भं गलग्रहम्

8.212

उदरं कर्णनासाक्षिमुखवैजात्यमेव च ।
सर्वशूलं शिरःशूलं स्त्रीणां गदनिषूदनम्

8.213

वटिकां प्रातरेकैकां खादेन्नित्यं यथाबलम् ।
अनुपानमिदं प्रोक्तं मांसं पिष्टं पयो दधि

8.214

वारितक्रसुरासीधुसेवनात् कामरूपधृक् ।
वृद्धोऽपि तरुणस्पर्धी न च शुक्रस्य संक्षयः

8.215

न च लिङ्गस्य शैथिल्यं न केशा यान्ति पक्वताम् ।
नित्यं शतस्त्रियो गच्छेन्मत्तवारणविक्रमः

8.216

द्विलक्षयोजनी दृष्टिर्जायते पौष्टिकः परः ।
प्रोक्तः प्रयोगराजोऽयं नारदेन महात्मना

8.217

रसो लक्ष्मीविलासस्तु वासुदेवो जगद्गुरौ ।
अभ्यासाद्यस्य भगवान् लक्षनारीषु वल्लभः

8.218

<शिलाजतु:: ओरिगिन्>
हेमाद्याः सूर्यसंतप्ताः स्रवन्ति गिरिधातवः ।
जत्वाभं मृदुमृत्स्नाच्छं यन्मलं तच्छिलाजतु

8.219

<शिलाजतु:: मेदिच्. प्रोपेर्तिएस्>
अनम्लं चाकषायं च कटुपाकि शिलाजतु ।
नात्युष्णशीतं धातुभ्यश् चतुर्भ्यस्तस्य सम्भवः ।
हेम्नोऽथ रजतात्ताम्राद्वरात्कृष्णायसादपि

8.220

<शिलाजतु:: fरोम् गोल्द्:: मेदिच्.।फ्य्स्. प्रोपेर्तिएस्>
मधुरश्च सतिक्तश्च जपापुष्पनिभश्च यः ।
कटुर्विपाके शीतश्च स सुवर्णस्य निस्रवः

8.221

<शिलाजतु:: fरोम् सिल्वेर्:: मेदिच्.।फ्य्स्. प्रोपेर्तिएस्>
रूप्यस्य कटुकः श्वेतः शीतः स्वादुर्विपच्यते ।
<शिलाजतु:: fरोम् चोप्पेर्:: मेदिच्.।फ्य्स्. प्रोपेर्तिएस्>
ताम्रस्य बर्हिकण्ठाभस् तिक्तोष्णः पच्यते कटुः

8.222

<शिलाजतु:: fरोम् इरोन्:: मेदिच्.।फ्य्स्. प्रोपेर्तिएस्>
यस्तु गुग्गुलुकाभासस्तिक्तको लवणान्वितः ।
कटुर्विपाके शीतश्च सर्वश्रेष्ठः स चायसः

8.223

गोमूत्रगन्धयः सर्वे सर्वकर्मसु यौगिकाः ।
रसायनप्रयोगेषु पश्चिमस्तु विशिष्यते

8.224

यथाक्रमं वातपित्ते श्लेष्मपित्ते कफे त्रिषु ।
विशेषेण प्रशस्यन्ते मला हेमादिधातुजाः

8.225

<शिलाजतु:: परीक्षा>
लौहकिट्टायते वह्नौ विधूमं दह्यतेऽम्भसि ।
तृणात्यग्रे कृतं श्रेष्ठमधो गलति तन्तुवत्

8.226

<शिलाजतु:: शोधन>
मलिनं यद्भवेत् तच्च क्षालयेत्केवलाम्भसा ।
लौहपात्रेषु विधिना ऊर्ध्वीभूतं च संहरेत्

8.227

वातपित्तकफघ्नैस्तु निर्यूहैस् तत् सुभावितम् ।
वीर्योत्कर्षं परं याति सर्वैर् एकैकशोऽपि वा

8.228

प्रक्षिप्योद्धृतमावानं पुनस्तत्प्रक्षिपेद्रसे ।
कोष्णे सप्ताहमेतेन विधिना तस्य भावनां

8.229

<शिलाजतु:: सोअकिन्ग्>
तुल्यं गिरिजेन जले चतुर्गुणे भावनौषधं क्वाथ्यम् ।
ततः क्वाथे च पादांशे पूतोष्णे प्रक्षिपेद्गिरिजम् ।
तत् समरसतां यातं संशुष्कं प्रक्षिपेद्रसे भूयः

8.230

<शिलाजतु:: मेदिच्. प्रोपेर्तिएस्>
पूर्वोक्तेन विधानेन लौहैश्चूर्णीकृतैः सह ।
तत्पीतं पयसा दद्याद् दीर्घमायुः सुखान्वितम्

8.231

जराव्याधिप्रशमनं देहदार्ढ्यकरं परम् ।
मेधास्मृतिकरं धन्यं क्षीराशी तत्प्रयोजयेत्

8.232

प्रयोगः सप्तसप्ताहास्त्रयश्चैकश्च सप्तकः ।
निर्दिष्टस् त्रिविधस् तस्य परो मध्योऽवरस्तथा

8.233

<शिलाजतु:: मेअसुरे fओर् मेदिच्. उसे>
मात्रा पलं त्वर्द्धपलं स्यात्कर्षं तु कनीयसी

8.234

<शिलाजतु:: रेगुलतिओन्स्।दिएत्>
शिलाजतुप्रयोगेषु विदाहीनि गुरूणि च ।
वर्जयेत् सर्वकालं च कुलत्थान् परिवर्जयेत्

8.235

पयांसि शुक्तानि रसाः सयूषास् तोयं समूत्रं विविधाः कषायाः ।
आलोडनार्थं गिरिजस्य शस्तास्ते ते प्रयोज्याः प्रसमीक्ष्य कार्यम्

8.236

<कामेश्वरमोदक>
सम्यङ्मारितमभ्रकं कटुफलं कुष्ठाश्वगन्धामृता मेथी मोचरसो विदारिमुशली गोक्षूरकं चेक्षुरम् ।
रम्भाकन्दशतावरी ह्यजमोदा माषास्तिला धान्यकं यष्टी नागबला बला मधुरिका जातीफलं सैन्धवम्

8.237

भार्ङ्गीकर्कटशृङ्गिका त्रिकटुकं जीरद्वयं चित्रकं चातुर्जातपुनर्नवे गजकणा द्राक्षा शठी वासकम् ।
शाल्मल्यङ्घ्रिफलत्रिकं कपिभवं बीजं समं चूर्णयेत् चूर्णांशा विजया सिता द्विगुणिता मध्वाज्यमिश्रं तु तत्

8.238

कर्षार्द्धा गुडिकाथ कर्षमथवा सेव्या सतां सर्वदा पेया क्षीरसितानुवीर्यकरणे स्तम्भेऽप्ययं कामिनाम् ।
वामावश्यकरः सुखातिसुखदः प्रौढाङ्गनाद्रावकः क्षीणे पुष्टिकरः क्षयक्षयकरो नानामयध्वंसकः

8.239

कासश्वासमहातिसारशमनो मन्दाग्निसन्दीपनः दुर्नामग्रहणीप्रमेहनिवहश्लेष्मास्रपित्तप्रणुत् ।
नित्यानन्दकरो विशेषकवितावाचां विलासोद्भवं धत्ते सर्वगुणं महास्थिरवयो ध्यानावधाने ऽप्यलम्

8.240

अभ्यासेन निहन्ति मृत्युपलितं कामेश्वरो वत्सरात् सर्वेषां हितकारिणा निगदितः श्रीनित्यनाथेन सः ।
वृद्धानाम् अपि कामवर्धनकरः प्रौढाङ्गनासङ्गमे सिद्धोऽयं मम दृष्टिप्रत्ययकरो भूपैः सदा सेव्यताम्

8.241

<चूर्णरत्न>
वृष्यगणचूर्णतुल्यं तत् पुटपक्वं घनं सिता द्विगुणम् ।
वृष्यात्परमतिवृष्यं रसायनं चूर्णरत्नमिदम्

8.242

<शृङ्गाराभ्ररसः>
शुद्धं कृष्णाभ्रचूर्णं द्विपलपरिमितं शाणमानं यदन्यत् ।
कर्पूरं जातिकोषं सजलमिभकणा तेजपत्रं लवङ्गम्

8.243

मांसी तालीशचोचे गजकुसुमगदं धातकी चेति तुल्यं ।
पथ्या धात्री विभीतं त्रिकटुरथ पृथक् त्वर्द्धशाणं द्विशाणम्

8.244

एलाजातीफलाख्यं क्षितितलविधिना शुद्धगन्धाश्मकोलं कोलार्द्धं पारदस्य प्रतिपदविहितं पिष्टमेकत्र मिश्रम् ।
पानीयेनैव कार्याः परिणतचणकस्विन्नतुल्याश्च वट्यः प्रातः खाद्याश् चतस्रस् तदनु च हि कियच्छृङ्गवेरं सपर्णम्

8.245

पानीयं पीतमन्ते ध्रुवमपहरति क्षिप्रमेतान् विकारान् कोष्ठे दुष्टाग्निजातान् ज्वरमुदररुजो राजयक्ष्मं क्षयं च ।
कासं श्वासं सशोथं नयनपरिभवं मेहमेदोविकारान् छर्दिं शूलाम्लपित्तं तृषमपि महतीं गुल्मजालं विशालम्

8.246

पाण्डुत्वं रक्तपित्तं गरलभवगदान् पीनसं प्लीहरोगं हन्याद् आमानिलोत्थान् कफपवनकृतान् पित्तरोगानशेषान् ।
बल्यो वृष्यश्च योगस्तरुणतरकरः सर्वरोगे प्रशस्तः पथ्यं मांसैश्च यूषैर् घृतपरिलुलितैर् गव्यदुग्धैश्च भूयः

8.247

भोज्यं योज्यं यथेष्टं ललितललनया दीयमानं मुदा यच्छृङ्गाराभ्रेण कामी युवतिजनशतां भोगयोगादतुष्टः ।
वर्ज्यं शाकाम्लमादौ दिनकतिपयचित् स्वेच्छया भोज्यमन्यद् दीर्घायुः काममूर्तिर् गतवलिपलितो मानवोऽस्य प्रसादात्

8.248

<जयावटी>
विषं त्रिकटुकं मुस्तं हरिद्रा निम्बपत्रकम् ।
विडङ्गमष्टमं चूर्णं छागमूत्रैः समं समम् ।
चणकाभा वटी कार्या स्याज्जया योगवाहिका

8.249

<त्रिनेत्ररसः>
आदौ गन्धहतं शुल्वं पश्चात्तुल्याहिपारदम् ।
त्रिनेत्रो हविषा पिष्टः शीतवीर्योऽर्द्धगन्धकः

8.250

उष्णश्चेत्तुल्यगन्धेन कुर्यात् संमर्द्य पर्पटीम् ।
देहसिद्धिकरो ह्येष सर्वरोगनिकृन्तनः

8.251

<सिद्धयोगेश्वररसः>
शुद्धं सूतं द्विधा गन्धं खल्वे घृष्ट्वा तु कज्जलीम् ।
तयोः समं कान्तलौहमभावे तस्य तीक्ष्णकम्

8.252

मेलितं देवदेवेशि मर्दितं कन्यकाद्रवैः ।
यामद्वयं ततः पश्चात्तद्गोलं ताम्रसम्पुटे

8.253

आच्छाद्यैरण्डपत्रैस्तु धान्यराशौ निधापयेत् ।
त्रिदिनान्ते समुद्धृत्य पिष्टं वारितरं भवेत्

8.254

कुमारी भृङ्गकोरण्टौ काकमाची पुनर्नवा ।
नीली मुण्डी च निर्गुण्डी सहदेवी शतावरी

8.255

अम्लपर्णी गोक्षुरकः कच्छूमूलं वटाङ्कुराः ।
एतेषां भावयेद्द्रावैः सप्तवारान् पृथक् पृथक्

8.256

त्र्यूषणत्रिफलासोमराजीनां च कषायकैः ।
शुष्केऽस्मिंस्तोलितं चूर्णं सममेकादशाभिधम्

8.257

वराव्योषाग्निविश्वैला जातीफललवङ्गकम् ।
संयोज्य मधुनालोड्य विमर्द्येदं भजेत्सदा

8.258

रात्रौ पिबेद् गवां क्षीरं कृष्णानां च विशेषतः ।
संवत्सराज्जरामृत्युरोगजालं निवारयेत्

8.259

वीर्यवृद्धिकरं श्रेष्ठं रामाशतसुखप्रदम् ।
तावन्न च्यवते वीर्यं यावदम्लं न सेवते

8.260

दीपनं कान्तिदं पुष्टितुष्टिकृत्सेविनां सदा ।
सुगुप्तः कथितः सूतः सिद्धयोगेश्वराभिधः

8.261

<पलितघ्नचूर्णम्>
त्रिफला लोहजं चूर्णं रक्तचित्रकजा जटा ।
च्युतक्षुद्राम्रकं बीजं पालाशं क्षुद्रदुग्धिका

8.262

एतदष्टकमादाय पृथक् पञ्चपलोन्मितम् ।
मिश्रयित्वा पलाशस्य सर्वाङ्गरसभावितम्

8.263

महाकालजबीजानां भागत्रयमथाहरेत् ।
भागं कृष्णतिलस्यैकं मिश्रयित्वा निपीडयेत्

8.264

तेन तैलेन तच्चूर्णं पिण्डीकार्यं विमर्दनात् ।
स्निग्धे भाण्डे तदाधाय शरावेण निरोधयेत्

8.265

लिप्त्वा तदाशु धान्ये च पललौघे निधापयेत् ।
मासमात्रात्समाहृत्य पूजयित्वा शिवं शिवम्

8.266

तोलैकं भक्षयेत्प्रातस्तोलैकं भोजनोपरि ।
एवं मासत्रयाभ्यासात्पलितं हन्त्यसंशयम् ।
वर्षैकेन जरां हत्वा मृत्युं जयति मानवः

8.267

<कामिनीमदनिधूननरसः>
कज्जलीकृतसुगन्धकशम्भोस् तुल्यभागकनकस्य बीजम् ।
मर्दयेत्कनकतैलयुतं स्यात् कामिनीमदविधूनन एषः

8.268

अस्य वल्लयुगलं ससितं चेत् सेवितं हरति मेहगणौघम् ।
वीर्यदार्ढ्यकरणं कमनीयं द्रावणं निधुवने वनितानाम्

8.269

<चतुर्मुखरसः>
रसगन्धकलौहाभ्रं समं सूताङ्घ्रि हेम च ।
सर्वं खल्वतले क्षिप्त्वा कन्यास्वरसमर्दितम्

8.270

त्रिफलातुलसीब्राह्मीरसैश्चानु विमर्दयेत् ।
एरण्डपत्रैरावेष्ट्य धान्यराशौ दिनत्रयम्

8.271

संस्थाप्य च तदुद्धृत्य त्रिफलामधुसंयुतम् ।
एतद्रसायनवरं सर्वरोगेषु योजयेत्

8.272

तद्यथाग्निबलं खादेद्वलीपलितनाशनम् ।
पौष्टिकं बल्यमायुष्यं पुत्रप्रसवकारकम्

8.273

क्षयमेकादशविधं कासं पञ्चविधं तथा ।
कुष्ठमष्टादशविधं पाण्डुरोगान् प्रमेहकान्

8.274

शूलं श्वासं च हिक्कां च मन्दाग्निं चाम्लपित्तकम् ।
व्रणान् सर्वानामवातं विसर्पं विद्रधिं तथा

8.275

अपस्मारं महोन्मादं सर्वार्शांसि त्वगामयान् ।
क्रमेण शीलितं हन्ति वृक्षमिन्द्राशनिर्यथा ।
चतुर्मुखेन देवेन कृष्णात्रेयाय सूचितम्

8.276

<गन्धलौह>
गन्धं लौहं भस्म मध्वाज्ययुक्तं सेव्यं वर्षं वारिणा त्रैफलेन ।
शुक्ले केशे कालिमा दिव्यदृष्टिः पुष्टिवीर्यं जायते दीर्घमायुः

8.277

<सिद्धलक्ष्मीश्वररसः>
अष्टांशहेम्नि हरजे शिखिमूषिकायां संजार्य षड्गुणबलिं क्रमशो ऽधिकं च ।
ऊर्ध्वं पयोऽग्निम् अधरे विनिधाय धीराः सिद्धीः समग्रमतुलाः स्वकरे कुरुध्वम्

8.278

<वह्निसिद्धरसः>
लौहं गन्धं टङ्कणं भ्रामयित्वा सार्धस् तस्मिन् सूतकोऽन्यश्च गन्धः ।
कन्याम्भोभिर् मर्दितः काचकूप्यां क्षिप्तो वह्णौ सिद्धये वह्णिसिद्धः

मूल पाठ: Rasendracintāmaṇi · Edition: Prof. Siddhinandanamisra, Benares: Caukhambha Orientalia, 2000 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc