भाषा

ENहिગુ
ग्रंथ पाठ

रसेन्द्रचिन्तामणि · अध्याय 7

7.1

र्चिन्त्, 7
अथ विषोपरससाधनाध्यायं व्याचक्ष्महे

7.2

विषं हि नाम निखिलरसायनानाम् ऊर्जस्वलम् अखिलव्याधिविध्वंसविधायकताम् आसादयति

7.3

तत्खल्वष्टादशप्रकारं भवति ।
यत्र सक्तुकमुस्तककौर्मदार्वीकसार्षपसैकतवत्सनाभश्वेतशृङ्गिभेदानि प्रयोगार्थम् आहरणीयानि भवन्ति

7.4

<सक्तुक>
चित्रमुत्पलकन्दाभं सुपिष्टं सक्तुवद्भवेत् ।
सक्तुकं तद्विजानीयाद्दीर्घवेगं महोल्बणम्

7.5

<मुस्तक>
ह्रस्ववेगं च रोगघ्नं मुस्तकं मुस्तकाकृति ।
<कौर्म, दार्वीक>
कूर्माकृति भवेत्कौर्मं दार्वीको ऽहिफणाकृति

7.6

<सार्षप>
ज्वरहृत्सार्षपं रोमसर्षपामकणाचितम् ।
स्थूलसूक्ष्मैः कणैर्युक्तः श्वेतपीतैर् विरोमकः

7.7

<सैकत>
ज्वरादिसर्वरोगघ्नः कन्दः सैकतमुच्यते

7.8

<वत्सनाभ>
यः कन्दो गोस्तनाकारो न दीर्घः पञ्चमाङ्गुलात् ।
न स्थूलो गोस्तनादूर्ध्वं द्विविधो वत्सनाभकः

7.9

आशुकारी लघुस्त्यागी शुक्लकृष्णोऽन्यथा भवेत् ।
प्रयोज्यो रोगहरणे जारणायां रसायने

7.10

<श्वेतशृङ्गी>
गोशृङ्गवद्द्विधा शृङ्गी श्वेतः स्याद् बहिरन्तरे

7.11

एतानि सक्तुकाद्यानि वातादौ रक्तमेलनेनोन्मादसन्निपातादौ च प्रयोज्यानि

7.12

कालकूटमेषशृङ्गीदर्दुरहालाहलकर्कोटग्रन्थिहारिद्ररक्तशृङ्गीकेशरयमदंष्ट्राप्रभेदेन दशविषाणि परिवर्जनीयानि

7.13

<कालकूट>
वृत्तकन्दो भवेत्कृष्णो जम्बीरफलवच्च यः ।
तं कालकूटं जानीयात् घ्राणमात्रान्मृतिप्रदम्

7.14

<मेषशृङ्गी>
मेषशृङ्गाकृतिः कन्दो मेषशृङ्गीति कीर्त्यते ।
<दर्दुर>
दर्दुराकृतिकः कन्दो दर्दुरः कथितस्तु सः

7.15

<हलाहल>
अन्तर्नीलं बहिः श्वेतं विजानीयाद्धलाहलम् ।
<कर्कोट>
कर्कोटाभं तु कर्कोटं खरं बाह्येऽन्तरे मृदु

7.16

<हारिद्र>
हरिद्राग्रन्थिवद्ग्रन्थिः कृष्णवर्णोऽतिभीषणः ।
मूलाग्रयोः सुवृत्तः स्यादायतः पीतगर्भकः ।
कञ्चुकाढ्यः स्निग्धपर्वा हारिद्रः स्याच्च कन्दकः

7.17

<रक्तशृङ्गी>
गोशृङ्गाग्रेऽथ संक्षिप्ते नाशयासृक् प्रवर्तते ।
कन्दो लघुर् गोस्तनवद् रक्तशृङ्गीति तद्विषम्

7.18

<केसर>
शुक्लाभं यत्केशरं स्याद्गर्भे तत्केशरं विदुः ।
<यमदंष्ट्रा>
श्वदंष्ट्रारूपसंस्थाना यमदंष्ट्रेति सोच्यते

7.19

रसवादे धातुवादे विषवादे क्वचित्क्वचित् ।
दशैतानि प्रयुज्यन्ते न भैषज्ये रसायने

7.20

उद्धरेत् फलपाके तु नवं स्निग्धं घनं गुरु ।
अव्याहतं विषहरैर्वातादिभिर् अशोषितम्

7.21

<पोइसोन्:: शोधन>
विषभागान् चणकवत्स्थूलान् कृत्वा तु भाजने ।
तत्र गोमूत्रकं क्षिप्त्वा प्रत्यहं नित्यनूतनम्

7.22

शोषयेत् त्रिदिनाद् ऊर्ध्वं धृत्वा तीव्रातपे ततः ।
प्रयोगेषु प्रयुञ्जीत भागमानेन तद्विषम्

7.23

<पोइसोन्:: शुद्ध:: स्तोरगे>
रक्तसर्षपतैलेन लिप्ते वाससि धारयेत् ।
विषं शुद्धं प्रयत्नेन नान्यत्र गुणहानितः

7.24

<पोइसोन्:: मारण>
समटङ्कणसम्पिष्टं तद्विषं मृतमुच्यते ।
योजयेत् सर्वरोगेषु न विकारं करोति तत्

7.25

<पोइसोन्:: सुब्त्य्पेस्:: चोलोर्, चस्ते>
श्वेतो रक्तश्च पीतश्च कृष्णश्चेति चतुर्विधः ।
ब्राह्मणः क्षत्रियो वैश्यः क्रमाज्ज्ञेयश्च शूद्रकः

7.26

सर्वरोगहरो विप्रः क्षत्रियो रसवादकृत् ।
वैश्योऽपि रोगहर्ता स्याच्छूद्रः सर्वत्र निन्दितः

7.27

ब्राह्मणो दीयते रोगे क्षत्रियो विषभक्षणे ।
वैश्यो व्याधिषु सर्वेषु सर्पदंष्ट्रे च शूद्रकः

7.28

शरद्ग्रीष्मवसन्तेषु वर्षासु न तु दापयेत् ।
चतुर्मासे हरेद्रोगान् कुष्ठलूतादिकानपि

7.29

<पोइसोन्:: qउअन्तितिएस्>
यवाष्टकं भवेद्यावदभ्यस्तं तिलमात्रया ।
सर्वरोगोपशमनं दृष्टिपुष्टिकरं भवेत्

7.30

प्रथमे सार्षपी मात्रा द्वितीये सर्षपद्वयम् ।
तृतीये च चतुर्थे च पञ्चमे दिवसे तथा

7.31

षष्ठे च सप्तमे चैव क्रमवृद्ध्या विवर्धयेत् ।
सप्तसर्षपमात्रेण प्रथमं सप्तकं नयेत्

7.32

<पोइसोन्:: रुलेस् fओर् चोन्सुमे>
क्रमहान्या तथा देयं द्वितीये सप्तके विषम् ।
यवमात्रं विषं देयं तृतीये सप्तके क्रमात्

7.33

वृद्धहान्या च दातव्यं चतुर्थे सप्तके तथा ।
यवमात्रं ग्रसेत्स्वस्थो गुञ्जामात्रं तु कुष्ठवान्

7.34

अशीतिर्यस्य वर्षाणि वसुवर्षाणि यस्य वा ।
विषं तस्मै न दातव्यं दत्तं वै दोषकारकम्

7.35

दातव्यं सर्वरोगेषु घृताशिनि हिताशिनि ।
क्षीराशिनि प्रयोक्तव्यं रसायनरते नरे

7.36

ब्रह्मचर्यप्रधानं हि विषकल्पे समाचरेत् ।
पथ्यैः सुस्थमना भूत्वा तदा सिद्धिर्न संशयः

7.37

<पोइसोन्:: 8 वेगस्>
मात्राधिकं यदा मर्त्यः प्रमादाद्भक्षयेद्विषम् ।
अष्टौ वेगास्तदा चैव जायन्ते तस्य देहिनः

7.38

संतापः प्रथमे वेगे द्वितीये वेपथुर्भवेत् ।
वेगे तृतीये दाहः स्याच्चतुर्थे पतनं भुवि

7.39

फेनं तु पञ्चमे वेगे षष्ठे विकलता भवेत् ।
जडता सप्तमे वेगे मरणं चाष्टमे भवेत्

7.40

<पोइसोन्:: हेअलिन्ग् थे वेगस्>
विषवेगानिति ज्ञात्वा मन्त्रतन्त्रैर्विनाशयेत्

7.41

अतिमात्रं यदा भुक्तं वमनं कारयेत्तदा

7.42

तावद्दद्यादजादुग्धं यावद् वान्तिर्न जायते ।
अजादुग्धं यदा कोष्ठे स्थिरीभवति देहिनः ।
विषवेगं तदोत्तीर्णं जानीयात्कुशलो भिषक्

7.43

विषं हन्याद्रसः पीतो रजनीमेघनादयोः ।
सर्पाक्षी टङ्कणं वापि घृतेन विषहृत्परम्

7.44

पुत्रजीवकमज्जा वा पीतो निम्बुकवारिणा ।
विषवेगं निहन्त्येव वृष्टिर्दावानलं यथा

7.45

न क्रोधिते न पित्तार्ते न क्लीबे राजयक्ष्मणि ।
क्षुत्तृष्णाश्रमघर्माध्वसेविनि क्षयरोगिणि ।
गर्भिणीबालवृद्धेषु न विषं राजमन्दिरे

7.46

न दातव्यं न भोक्तव्यं विषं वादे कदाचन ।
आचार्येण तु भोक्तव्यं शिष्यप्रत्ययकारकम्

7.47

<पोइसोन्:: सुब्त्य्पेस्>
कालकूटो वत्सनाभः शृङ्गिकश्च प्रदीपनः ।
हालाहलो ब्रह्मपुत्रो हारिद्रः सक्तुकस्तथा ।
सौराष्ट्रिकः इति प्रोक्ता विषभेदा अमी नव

7.48

<उपविष>
अर्कसेहुण्डधुस्तूरलाङ्गलीकरवीरकाः ।
गुञ्जाहिफेनावित्येताः सप्तोपविषजातयः

7.49

<मेर्चुर्य्:: पक्षछेद:: ब्य् पोइसोन्>
एतैर्विमर्दितः सूतश्छिन्नपक्षः प्रजायते ।
मुखं च जायते तस्य धातूंश्च ग्रसतेतराम्

7.50

<वज्र:: सुब्त्य्पेस्:: चोलोउर्>
श्वेतरक्तपीतकृष्णा द्विजाद्या वज्रजातयः ।
स्त्रीपुंनपुंसकात्मानो लक्षणेन तु लक्षयेत्

7.51

<वज्र:: पुंवज्र>
वृत्ताः फलकसम्पूर्णास्तेजोवन्तो बृहत्तराः ।
पुरुषास्ते समाख्याता रेखाबिन्दुविवर्जिताः

7.52

<वज्र:: स्त्रीवज्र>
रेखाबिन्दुसमायुक्ताः षट्कोणास्ते स्त्रियो मताः

7.53

<वज्र:: नपुंसक>
त्रिकोणाः पत्तला दीर्घा विज्ञेयास्ते नपुंसकाः

7.54

<वज्र:: प्रोपेर्तिएस् ओf गेन्देर्स्>
सर्वेषां पुरुषाः श्रेष्ठा वेधका रसबन्धकाः ।
स्त्रीवज्रं देहसिद्ध्यर्थं क्रामणे स्यान्नपुंसकम्

7.55

विप्रो रसायने प्रोक्तः क्षत्रियो रोगनाशने ।
वादे वैश्यं विजानीयाद् वयःस्तम्भे तुरीयकम्

7.56

स्त्री तु स्त्रीणां प्रदातव्या क्लीबे क्लीबं तथैव च ।
सर्वेषां सर्वदा योज्याः पुरुषा बलवत्तराः

7.57

<वज्र:: शोधन>
व्याघ्रीकन्दोदरे क्षिप्त्वा सप्तधा पुटितः पविः ।
हयमूत्रस्य निर्वापाच्छुद्धः प्रतिपुटं भवेत्

7.58

<वज्र:: मारणम्>
त्रिवर्षनागवल्ल्याश्च कार्पास्या वाथ मूलिकाम् ।
पिष्ट्वा तन्मध्यगं वज्रं कृत्वा मूषां निरोधयेत् ।
मुनिसंख्यैर् गजपुटैर्म्रियते ह्यविचारितम्

7.59

<वज्र:: मारण>
मण्डूकं कांस्यजे पात्रे निगृह्य स्थापयेत्सुधीः ।
स भीतो मूत्रयेत्तत्र तन्मूत्रे वज्रमावपेत् ।
तप्तं तप्तं च बहुधा वज्रस्यैवं मृतिर्भवेत्

7.60

<वज्र:: मारण>
हिङ्गुसैन्धवसंयुक्ते क्वाथे कौलत्थके क्षिपेत् ।
तप्तं तप्तं पुनर्वज्रं भवेद्भस्म त्रिसप्तधा

7.61

<वज्र:: भस्मन्:: उसे>
रसे यत्र भवेद्वज्रं रसः सोऽमृतमुच्यते ।
भस्मीभावगतं युक्त्या वज्रवत् कुरुते तनुम्

7.62

<वैक्रान्त:: शोधन>
वैक्रान्तं वज्रवच्छोध्यं नीलं श्वेतं च लोहितम् ।
<वैक्रान्त:: फ्य्स्. प्रोपेर्तिएस्>
वज्रलक्षणसंयुक्तं दाहघातासहिष्णु तत्

7.63

<वैक्रान्त:: मारण>
हयमूत्रेण तत्सिञ्चेत्तप्तं तप्तं त्रिसप्तधा ।
पञ्चाङ्गोत्तरवारुण्या लिप्तं मूषागतं पुटैः

7.64

कुञ्जराख्यैर्मृतिं याति वैक्रान्तं सप्तभिस्तथा ।
<वैक्रान्त:: सुब्स्तितुते fओर् वज्र>
भस्मीभूतं तु वैक्रान्तं वज्रस्थाने नियोजयेत्

7.65

<नवरत्नानि>
पुंवज्रं गरुडोद्गारं माणिक्यं वासवोपलम् ।
वैदूर्यपुष्पे गोमेदं मौक्तिकं च प्रवालकम् ।
एतानि नवरत्नानि सदृशानि सुधारसैः

7.66

<जेwएल्स्:: शोधन>
स्वेदयेद्दोलिकायन्त्रे जयन्त्या स्वरसेन च ।
मणिमुक्ताप्रवालानां यामैके शोधनं भवेत्

7.67

<जेwएल्स्:: स्पेचिअल् शोधन>
शुध्यत्यम्लेन माणिक्यं जयन्त्या मौक्तिकं तथा ।
विद्रुमं क्षारवर्गेण तार्क्ष्यं गोदुग्धतस्तथा

7.68

पुष्यरागं च संधानैः कुलत्थक्वाथसंयुतैः ।
तण्डुलीयजलैर्वज्रं नीलं नीलीरसेन च

7.69

रोचनाभिश्च गोमेदं वैदूर्यं त्रिफलाजलैः ।
<जेwएल्स्:: शोधन:: इम्पर्त्स् अद्दितिओनल् qउअलितिएस्>
मुक्तादिष्वविशुद्धेषु न दोषः स्याच्च शास्त्रतः ।
तथापि गुणवृद्धिः स्याच्छोधनेन विशेषतः

7.70

<धातु, उपरस:: शोधन>
अम्लक्षारविपाचितं तु सकलं लौहं विशुद्धं भवेन्माक्षीकोऽपि शिलापि तुत्थगगनं तालं च सम्यक्तथा ।
मुक्ताविद्रुमशुक्तिकाथ चपलाः शङ्खा वराटाः शुभा जायन्तेऽमृतसन्निभाः पयसि च क्षिप्तः शुभः स्याद्बलिः

7.71

<जेwएल्स्:: मारण>
लकुचद्रावसम्पिष्टैः शिलागन्धकतालकैः ।
वज्रं विनान्यरत्नानि म्रियन्तेऽष्टपुटैः खलु

7.72

<जेwएल्स्:: मारण>
कुमार्या तण्डुलीयेन स्तन्येन च निषेचयेत् ।
प्रत्येकं सप्तवेलं च तप्ततप्तानि कृत्स्नशः

7.73

मौक्तिकानि प्रवालानि तथा रत्नान्यशेषतः ।
क्षणाद्विविधवर्णानि म्रियन्ते नात्र संशयः

7.74

<जेwएल्स्:: शोधन, मारण>
वज्रवत् सर्वरत्नानि शोधयेन्मारयेत् तथा

7.75

<हरिताल:: शोधन>
तालकं पोट्टलीं बद्ध्वा सचूर्णे काञ्जिके क्षिपेत् ।
दोलायन्त्रेण यामैकं ततः कूष्माण्डजे रसे

7.76

तिलतैले पचेद्यामं यामं तत्त्रैफले जले ।
दोलायन्त्रे चतुर्यामं पक्वं शुध्यति तालकम्

7.77

<हरिताल:: शुद्ध:: मेदिच्. प्रोपेर्तिएस्>
स शुद्धः कान्तिवीर्ये च कुरुते मृत्युनाशनः

7.78

<हरिताल:: सत्त्व:: पातनम्>
लाक्षाराजी तिलाः शिग्रुष्टङ्कणं लवणं गुडम् ।
तालकार्धेन संमिश्र्य छिद्रमूष्यां निरोधयेत् ।
पुटेत्पातालयन्त्रेण सत्त्वं पतति निश्चितम्

7.79

<हरिताल:: सत्त्व:: पातन>
जैपालसत्त्ववातारिबीजमिश्रं च तालकम् ।
कूपीस्थं वालुकायन्त्रे सत्त्वं मुञ्चति यामतः

7.80

<इन्दुसुन्दरी>
भृष्टटङ्कणतालस्य लौहपर्पटवेष्टिता ।
गुटिका गुरुमार्गेण ध्माता स्याद् इन्दुसुन्दरी

7.81

<??>
हिङ्गुलस्य च दारस्य तालकादेश्च बन्धने ।
लौहपत्त्र्या बहिर्लेपो भक्ताङ्गाररसेन च

7.82

<मनःशिला:: सत्त्व:: पातन>
तालवच्च शिलासत्त्वं ग्राह्यं तैरेव भेषजैः

7.83

<तुत्थ:: सत्त्व:: पातन>
तुल्यं टङ्कणकं ग्राह्यं ध्माते सत्त्वं च तुत्थके

7.84

<माक्षिक:: सत्त्व:: पातन>
ऊर्णा लाक्षा गुडश्चेति पुरटङ्कणकैः सह ।
संमर्द्यं वटिकाः कार्याश्छागीदुग्धेन यत्नतः ।
ध्मातास्ताप्यस्य तीव्राग्नौ सत्त्वं मुञ्चति लोहितम्

7.85

<महारस:: सत्त्व:: पातन>
एवं तालशिलाधातुर् विमलाखर्परादयः ।
मुञ्चन्ति निजसत्त्वानि धमनात् कोष्ठिकाग्निना

7.86

<कासीस:: सत्त्वपातन (?), मृदूकरण (?)>
शिलया गन्धकेनापि भर्जितः क्षोदितः खगः ।
मुद्रितस्ताम्रपात्रेण लिप्तः स्याद् ध्मापितो मृदुः

7.87

<माक्षिक:: सत्त्व:: पातन>
समगन्धं चतुर्यामं पक्त्वा ताप्यं ततः पचेत् ।
अर्धगन्धं यामयुग्मं भृष्टटङ्कार्धसंयुतम् ।
अन्धमूषागतं ध्मातं सत्त्वं मुञ्चति शुल्ववत्

7.88

<गुटी औस् वेर्स्छ्. स्तोffएन् -> वर्णोत्कर्ष (गोल्धेर्स्तेल्लुन्ग्)>
भ्रामयेद्भस्ममूषायां ताप्यं गन्धकटङ्कणम् ।
गुटी भवति पीताभा वर्णोत्कर्षविधायिनी

7.89

<गुटी:: fओर् वर्णोत्कर्ष>
ताप्यस्य खण्डकान्सप्त दहेन्नागमृदन्तरे ।
ध्मापिता टङ्कणेनैव गुटीभवति पूर्ववत्

7.90

<भूनाग:: सत्त्व:: पातन>
सद्यो भूनागमादाय चारयेच्छिखिनं बुधः ।
अथवा कुक्कुटं वीरं कृत्वा मन्दिरमागतम्

7.91

मलं मूत्रं गृहीत्वास्य संत्यज्य प्रथमांशिकम् ।
आलोड्य क्षारमध्वाज्यैर् धमेत् सत्त्वार्थम् आदरात्

7.92

मुञ्चति ताम्रवत्सत्त्वं तन्मुद्राजलपानतः ।
नश्यति जङ्गमविषं स्थावरं च न संशयः

7.93

<भूनाग:: सत्त्व:: पातन>
क्षीरेण पक्त्वा भूनागांस्तन्मृदा वाथ टङ्कणैः ।
भृष्टैश्चक्रीं विधायाथ पात्यं सत्त्वं प्रयत्नतः

7.94

यत्रोपरसभागोऽस्ति रसे तत्सत्त्वयोजनम् ।
कर्तव्यं तत्फलाधिक्यं रसज्ञत्वम् अभीप्सता

7.95

<मनःशिला:: शोधनम्>
जयन्तिकाद्रवे दोलायन्त्रे शुध्येन्मनःशिला ।
दिनमेकमजामूत्रे भृङ्गराजरसेऽपि वा

7.96

<मनःशिला:: शुद्ध:: मेदिच्. प्रोपेर्तिएस्>
शिला स्निग्धा कटुस्तिक्ता कफघ्नी लेखनी सरा

7.97

<मनःशिला:: रेमोवेस् कालिमा>
कूपिकादौ परीपाकात्स्वर्णस्य कालिमापहा ।
<मनःशिला:: द्रावण>
कटुतैले शिलाचम्पकदल्यन्तः सरत्यपि

7.98

<रसक:: शोधनम्>
नरमूत्रे च गोमूत्रे जलाम्ले वा ससैन्धवे ।
सप्ताहं त्रिदिनं वापि पक्वः शुध्यति खर्परः

7.99

<तुत्थ:: शोधन>
एकः सूतस्तथा पीतिश्चतुर्भेकास्त्रिदारकः ।
बीजपिष्टः पिकज्वालैर् भेको बद्धोऽन्धवेश्मनि

7.100

विष्ठया मर्दयेत्तुत्थं समम् ओतोर् दशांशता ।
टङ्कणेन समं पिष्ट्वाथवा लघुपुटे पचेत् ।
तुत्थं शुद्धं भवेत्क्षौद्रे पुटितं वा विशेषतः

7.101

<तुत्थ:: शुद्ध:: बोदिल्य् रेअच्तिओन्>
वान्तिर्भ्रान्तिर्यदा न स्तस्तदा शुद्धिं विनिर्दिशेत्

7.102

<तुत्थ:: शुद्ध:: मेदिच्. प्रोपेर्तिएस्>
लेखनं भेदि च ज्ञेयं तुत्थं कण्डुक्रिमिप्रणुत्

7.103

<माक्षिक:: शोधन>
अगस्त्यपत्रनिर्यासैः शिग्रुमूलं सुपेषितम् ।
तन्मध्ये पुटितं शुध्येत् ताप्यं त्वम्लेन पाचितम्

7.104

<माक्षिक:: शोधन>
सिन्धूद्भवस्य भागैकं त्रिभागं माक्षिकस्य च ।
मातुलुङ्गरसैर्वापि जम्बीरोत्थद्रवेण वा

7.105

कृत्वा तदायसे पात्रे लौहदर्व्या च चालयेत् ।
सिन्दूराभं भवेद्यावत् तावन्मृद्वग्निना पचेत् ।
सुशुद्धं माक्षिकं विद्यात्सर्वरोगेषु योजयेत्

7.106

<माक्षिक:: मारण>
माक्षिकस्य चतुर्थांशं गन्धं दत्त्वा विमर्दयेत् ।
उरूवूकस्य तैलेन ततः कुर्यात्सुचक्रिकाम्

7.107

शरावसंपुटे धृत्वा पुटेद्गजपुटेन च ।
सिन्दूराभं भवेद्भस्म माक्षिकस्य न संशयः

7.108

<माक्षिक:: मृत:: मेदिच्. प्रोपेर्तिएस्>
माक्षिकं तिक्तमधुरं मोहार्शःक्रिमिकुष्ठनुत् ।
कफपित्तहरं बल्यं योगवाहि रसायनम्

7.109

<विमल:: शोधन>
जम्बीरस्य रसे स्वेदो मेषशृङ्गीरसे ऽथवा ।
रम्भातोयेन वा पाको घस्रं विमलशुद्धये

7.110

<कासीस:: शोधन>
सकृद्भृङ्गाम्बुना स्विन्नं कासीसं निर्मलं भवेत्

7.111

<कासीस:: शुद्ध:: मेदिच्. प्रोपेर्तिएस्>
कासीसं शीतलं स्निग्धं श्वित्रनेत्ररुजापहम् ।
पित्तापस्मारशमनं रसवद् गुणकारकम्

7.112

<कान्त:: शोधनम्>
लवणानि तथा क्षारौ शोभाञ्जनरसे क्षिपेत् ।
अम्लवर्गयुतेनादौ दिने घर्मे विभावयेत्

7.113

तद्द्रवैर्दोलिकायन्त्रे दिवसं पाचयेत् सुधीः ।
कान्तपाषाणशुद्धौ तु रसकर्म समाचरेत्

7.114

<मोनेय् चोwरिए:: फ्य्स्. प्रोपेर्तिएस्>
पीताभा ग्रन्थिला पृष्ठे दीर्घवृत्ता वराटिका ।
<मोनेय् चोwरिए:: ओप्तिमल् wएइघ्त्>
सार्धनिष्कभरा श्रेष्ठा निष्कभारा च मध्यमा ।
पादोननिष्कभारा च कनिष्ठा परिकीर्तिता

7.115

<मोनेय् चोwरिए:: शोधन>
वराटी काञ्जिके स्विन्ना यामाच्छुद्धिमवाप्नुयात्

7.116

<मोनेय् चोwरिए:: शुद्ध:: मेदिच्. प्रोपेर्तिएस्>
परिणामादिशूलघ्नी ग्रहणीक्षयहारिणी ।
कटूष्णा दीपनी वृष्या तिक्ता वातकफापहा ।
रसेन्द्रजारणे प्रोक्ता विडद्रव्येषु शस्यते

7.117

<दरद:: शोधनम्>
मेषीक्षीरेण दरदमम्लवर्गेण भावितम् ।
सप्तवारं प्रयत्नेन शुद्धिमायाति निश्चितम्

7.118

<दरद:: शुद्ध:: मेदिच्. प्रोपेर्तिएस्>
तिक्तोष्णं हिङ्गुलं दिव्यं रसगन्धसमुद्भवम् ।
मेहकुष्ठहरं रुच्यं मेधाग्निवर्धनम्

7.119

<शोधन ओf दिff. सुब्स्तन्चेस्>
सौवीरं टङ्कणं शङ्खं कङ्कुष्ठं गैरिकं तथा ।
एते वराटवच्छोध्या भवेयुर्दोषवर्जिताः

7.120

<कासीस:: शोधन>
जम्बीरपयसा शुध्येत्कासीसं टङ्कणाद्यपि

7.121

<स्रोतोञ्जन:: शोधनम्>
स्रोतोञ्जनं तु गोमूत्रघृतक्षौद्रवसादिभिः ।
विभावितं च शुद्धं स्याद्रसबन्धकरं परम्

7.122

<नीलाञ्जन:: शोधन>
नीलाञ्जनं चूर्णयित्वा जम्बीरद्रवभावितम् ।
दिनैकमातपे शुद्धं भवेत्कार्येषु योजयेत्

7.123

<एxत्रच्तिओन् ओf ओइल् fरोम् सेएद्स्>
सुपक्वभानुपत्राणां रसमादाय धारयेत् ।
समस्तबीजचूर्णं यदुक्तानुक्तं पृथक्पृथक् ।
आतपे मुञ्चते तैलं साध्यासाध्यं न संशयः

मूल पाठ: Rasendracintāmaṇi · Edition: Prof. Siddhinandanamisra, Benares: Caukhambha Orientalia, 2000 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc