भाषा

ENहिગુ
ग्रंथ पाठ

रससंकेतकलिका · अध्याय 5

5.1

र्स्क्, 5
विषं व्योषं हरिद्राब्दं निम्बपत्रं विडङ्गकम् ।
गुटी छागाम्बुना बद्धा स्याज्जया योगवाहिका

5.2

सूतार्कयोर्विषं गन्धं विङ्गंगाग्न्यब्दकेसरम् ।
रेणुका ग्रन्थिकं बोलं सर्वेषां द्विगुणं गुडम्

5.3

कोलप्रमाणां गुटिकां भक्षयेत्प्रातरेव हि ।
कासे श्वासे क्षये गुल्मे प्रमेहे विषमज्वरे

5.4

शोके पाण्ड्वामये कुष्ठे ग्रहण्यर्शोभगन्दरे ।
विजयागुटिका ह्येषा रुद्रप्रोक्ताधिका गुणैः

5.5

अङ्कोलाग्नी च गन्धोषणरसविषकं पित्तभाजं क्रमात्तत्सामुद्रं चार्कदुग्धैस्त्रिभिरथ पुटितं निम्बुतोयैर्विमर्द्य ।
कृत्वा गुञ्जासमानाम् इषुशररसदिग्वह्निबाणेषुदिग्भिर् दद्याच्छ्लेष्मानिलार्शो ज्वरं जठरं कफेतां वटीं शङ्कराख्याम्

5.6

चिञ्चाक्षारपलं पटुव्रजपलं निम्बूरसैः कल्कितं तस्मिञ्छङ्खपलं प्रतप्तमसकृन्निर्वाप्य शीर्णावधिम् ।
हिङ्गुव्योषपलं रसामृतबलीन्निक्षिप्य निष्कांशकान् बद्धा शङ्खवटी क्षयग्रहणिकागुल्मांश्च शूलं जयेत्

5.7

रसं कृष्णाभया त्वक्षं वासा भार्गी क्रमोत्तरम् ।
तत्समं खादिरं सारं बब्बूलक्वाथभावितम्

5.8

एकविंशतिवारांश्च मधुनाक्षमिता वटी ।
कासं श्वासं क्षयं हिक्कां हन्त्येषा कासकर्तरी

5.9

व्योषग्रन्थि वचाग्नि हिंगु जरणद्वन्द्वं विषं निम्बुकं द्रावैर् आर्द्रकैर् असेर्विमृषितं तुल्यौ मरीचोपमा ।
वर्तिः सा विनिहन्ति शूलमखिलं सर्वाङ्गजं मारुतम् वह्निं चाशु करोति वाडवसमं सूर्यप्रभावाभिधा

5.10

एला सकर्पूरसिता सधात्री जातीफलं शाल्मलिगोक्षुरौ च ।
सूतेन्द्रवङ्गायसभस्म सर्वम् एतत्समानं परिभावयेच्च

5.11

गुडूचिका शाल्मलिका कषायैर् निष्कार्धमाना मधुना ततश्च ।
बद्धा गुटी चन्द्रकलेति संज्ञा मेहेषु सर्वेषु नियोजनीया

5.12

हिङ्गुलं च चतुर्जातं लवङ्गौषधचन्दनम् ।
जातिजं केसरं कृष्णा त्वाकल्लमहिफेनकम्

5.13

कस्तूरीन्दुसमं सर्वं तत्समे विजयासिते ।
क्षौद्रैः कोलमिता कार्या गुटी भोगपुरन्दरी

5.14

शुक्रस्तम्भकरी ह्येषा बलमांसविवर्धिनी ।
नरश्चटकवद् गच्छेच्छतवारं स्थिरेन्द्रियः

5.15

वङ्गं कासीसकं कृष्णा गुञ्जातुल्यार्द्रकाम्बुना ।
कफवातामयं हन्ति गुटी नागार्जुनाभिधा

5.16

त्रिफला विडङ्गसोमाभल्लातकवह्निविश्वानाम् ।
अष्टौ शुक्लवचाया भागाः स्युः सद्विषस्यैकः ।
एतत्सर्वं गोजलपिष्टं वटिकास्तु चणकाभाः ।
छायाशुष्का देया त्रिद्व्येकचतुःक्रमाद् विज्ञैः

5.17

सार्पविसूचिगदार्ते दुष्टाजीर्णहते त्रिदोषेऽपि ।
सद्यो जीवति पुरुषो मृतोऽपि गुटिकाप्रभावेण

5.18

मूलेन पत्रेण फलेन वापि व्योषान्विता या कितवोद्भवेन ।
बद्धा गुटी सा सहसैव हन्ति सोन्माददोषत्रयदुष्टवातान्

5.19

कट्फलाम्बुगिलं कृष्णां हिङ्गुलं बोलटङ्कणम् ।
गुडेन गुटिका शाणमिता सा नवमेऽह्नि

5.20

उष्णोदकेन दातव्या सद्यो ऽलर्कविषापहा ।
गरभृङ्गोषणं चूर्णं साज्यं वा तद्विषापहम्

5.21

रसराजशुल्वगन्धकसुरतिक्तैः पीतभृङ्गमरिचैश्च ।
ब्राह्मीद्वितयरसाढ्या गुटिकाः कार्याश्चणकाभाः

5.22

एका देया प्रथमं त्रिदोषविकलस्य मूर्छितस्यापि ।
अन्या मुहूर्तपरतः प्रहराद् अन्यापरा नैव

5.23

जीवति मृतोऽपि पुरुषस् त्रिदोषजान्विततन्द्रिकायुक्तः ।
श्रीनागार्जुनगदिता गुटिका मृतसंजीवनीख्याता

5.24

एलवालुकाभयाबोलमिन्द्रा गुग्गुलुसंयुता ।
स्नुहीक्षीरेण गुटिका शोथिनी ज्वरनाशिनी

5.25

वरा व्योषं वरं तुत्थं यष्टी वेल्लार्कवारिजम् ।
रोध्रं रसाञ्जनं चूर्णं वर्तिः कार्या नभोऽम्बुना

5.26

सद्योऽक्षिकोपं स्तन्येन तिमिरं रोध्रतोयतः ।
किंशुकस्य रसाद्धन्ति बिल्लं पुष्पं च रक्तताम्

5.27

पटलं वस्तमूत्रेण स्तम्भे पाटलिपतने ।
नागार्जुनेन लिखिता सर्वनेत्रामयापहा

5.28

व्योषं वरा वरं हिङ्गु तिक्तोग्रा नक्तमालकः ।
गौरी कटु त्वजामूत्रैश् छायाशुष्का गुटीकृता

5.29

अपस्मारस्मृतिभ्रंशमुन्मादं शिरसो रुजम् ।
नक्तान्ध्यं तिमिरं हन्ति दोषं भूतादिकं भ्रमम्

5.30

एकद्वित्रिचतुर्थाख्यं मञ्जनाज् ज्वरमेव च ।
सन्निपातं त्वचैतन्यं नाशयेत् सुप्रचेतनम्

5.31

सैन्धवेन युक्तं वज्रीक्षीरम् अग्निविपाचितम् ।
द्विवल्लमुष्णकैः पीतं विरेकाज्ज्वरनाशनम्

5.32

लवणं भानुदुग्धेन सकृद्भावितमातपे ।
गव्येन पयसा पीतं कर्षार्धं वान्तिकारकम्

5.33

सूतेन्द्रं बलितालकं च कुनटी खल्वे समांशं दिनं सौवीरेण विमर्द्य तेन वसनं वर्तीकृतं लेपयेत् ।
तैलेन प्रविलेपितं च बहुशो वह्निं ततो दीपयेत् तस्माद्यद्गलितं तु तैलमसितं तेनाङ्गलेपः कृतः

5.34

जङ्घाबाहुकराग्रपादशिरसां कम्पानशेषाञ्जयेत् कुष्ठं तीव्रभगन्दरं व्रणगणान्रोगान्महागृध्रसीम् ।
अन्यान् रोगगणांश्च वातजनितान्नाडीव्रणान्दुस्तरान् ।
विख्यातं भुवनत्रये गदहरं वातारितैलं महत्

5.35

रामठं निम्बपत्राणि फेनः सागरसंभवः ।
एतानि समभागानि तद्वद्देयं सितं विषम्

5.36

गोमूत्रेण समायुक्तं कटुतैलं विपाचयेत् ।
तेनैव पूरयेत्कर्णं नरकुञ्जरवाजिनाम्

5.37

कर्णरोगं निहन्त्याशु लेपनाच्छिरसो गदान् ।
नाम्ना कर्णामृतं तैलं ब्रह्मणा निर्मितं स्वयम्

5.38

कस्तूरीन्दुश्च बाह्लीकं नखं मांसी च सर्जकम् ।
मुस्तागुरु सिता सर्वं क्रमवृद्धं समं पुरम्

5.39

स्तोकं स्तोकं क्षिपेत्तैलं दिनैकमथ कुट्टयेत् ।
वर्तिं निर्वापयेत् दीप्तां दिव्यं धूमं विमुञ्चति

5.40

सर्वदेवप्रियः सर्वः मन्त्रसिद्धिप्रदायकः ।
स्नाने वस्त्रे रतागारे धूपोऽयं राजवल्लभः ।
भ्वग्नितिथिमिते वर्षे चामुण्डो योगिनीपुरे ।
रससंकेतकलिकां कृतवान् इष्टसिद्धिदाम्

मूल पाठ: Rasasaṃketakalikā [= Rasasaṅketakalikā] · Edition: Jadavji Tricumji, Benares: Caukhamba Amarabharati Prakashan 1984. (Chaukhamba Ayurveda Granthamala, 10) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc