भाषा

ENहिગુ
ग्रंथ पाठ

रसार्णव · अध्याय 8

8.1

महारसानां लोहानां रत्नानां च सुरेश्वर
रागसंख्यां तथा बीज साधनं च वद प्रभो ॥

8.2

महारसेषु द्विगुणस् ताम्ररागः सुरेश्वरि
गिरिदोषे क्षयं नीते सूतकं रञ्जयन्ति ते ॥

8.3

सस्यकश्चपलश् चैव राजावर्तश्च माक्षिकः
विमलो गैरिकं चैषाम् एकैकं द्विगुणं भवेत् ॥

8.4

भ्रामकादिषु कान्तेष्वप्य् एकद्वित्रिगुणो हि सः
एकैकमभ्रके चैव श्वेतपीतारुणः सिते ॥

8.5

अष्टादशसहस्राणि स्थिता रागाश्च गन्धके
अयुतं दरदे देवि शिलायां द्विसहस्रकम् ॥

8.6

रसके सप्तसाहस्रं कङ्कुष्ठे तु चतुष्टयम्
रसगर्भे प्रकाशन्ते जारणं तु भवेद्यदि ॥

8.7

द्वादशाग्रं शतं पञ्च नागे रागा व्यवस्थिताः
शतहीनं सहस्रं तु वङ्गे रागा व्यवस्थिताः ॥

8.8

रागाणां शतपञ्चाशत् शुल्वमध्ये व्यवस्थिताः
रक्तपीताश्च शुक्लाश्च हेम्नि रागाश्च षोडश ॥

8.9

रागाः षष्टिसहस्राणि शक्रनीले व्यवस्थिताः
महानीले च देवेशि ते रागा द्विगुणाः स्थिताः ॥

8.10

माणिक्ये तु सुरेशानि रागा लक्षत्रयोदश
गजवारिसमुत्पन्नं रत्नं मुक्ताफलं विदुः ॥

8.11

गजे त्रीणि सहस्राणि षट्सहस्राणि वारिजे
नवलक्षं च रागाणां पद्मरागे व्यवस्थिताः ॥

8.12

भेदयेत् सर्वलोहानि यच्च केन न भिद्यते
तद्वज्रं तस्य देवेशि रागं लक्षद्वयं विदुः ॥

8.13

षोडशैव सहस्राणि पुष्परागे व्यवस्थिताः
पादोनलक्षरागास्तु प्रोक्ता मरकते प्रिये ॥

8.14

रागसंख्यां न जानाति संक्रान्तस्य रसस्य तु
अधिकं मारयेल्लोहं हीनं चैव प्रकाशयेत् ॥

8.15

मानवेन्द्रः प्रकुर्वीत यो हि जानाति पार्वति
शतकोटिप्रमाणेन रागसंख्यां प्रकल्पयेत्
स्पर्शनं चैवमालोक्य शतकोटिस्तु विध्यते ॥

8.16

अतः परं प्रवक्ष्यामि बीजानां साधनं प्रिये
हेमतारवशाद्बीजं द्विविधं तावदीश्वरि ॥

8.17

पीतारुणैर्हेमबीजं तारबीजं सितैर्भवेत्
कल्पितं रञ्जितं पक्वम् इति भूयस्त्रिधा भवेत् ॥

8.18

कल्पितं द्विविधं तच्च शुद्धमिश्रविभेदतः ॥

8.19

रसोपरसलोहानां बीजानां कल्पनं पृथक्
शुद्धं मिश्रं तु संयोगात् यथालाभं सुरेश्वरि ॥

8.20

सत्त्वमावर्तितं व्योम्नि शोधितं काचटङ्कणैः
चिञ्चाफलाम्लनिर्गुण्डी पत्त्रकल्कनिषेचनैः
पक्वं निविडितं देवि रसपिष्टिक्षमं भवेत् ॥

8.21

स्नेहक्षाराम्लवर्गैश्च शिलायाश्च पुटत्रयात्
मृताहे धूपनायन्त्रे धूपगन्धानुलेपनात्
वङ्गस्यापि विधानेन तालकस्य हतस्य वा ॥

8.22

ताप्यहिङ्गुलयोर्वापि हते च रसकस्य वा
रसगर्भे द्रवेत् कृष्णं पत्त्रं कनकतारयोः ॥

8.23

संकराख्यं तु दुर्मेल्यं प्रिये मृदुखराह्वयम्
ततः संमृदितं देवि द्वंद्वमेलापनं द्रुतम्
भवेत् समरसं गर्भे रसराजस्य च द्रवेत् ॥

8.24

अतः परं प्रवक्ष्यामि द्वंद्वमेलापनं शृणु ॥

8.25

वर्षाभूकदलीकन्द काकमाचीपुनर्नवाः
चूर्णं नरकपालं च गुञ्जाटङ्कणसंयुतम्
क्षीरतैलेन सुध्मातं हेमाभ्रं मिलति प्रिये ॥

8.26

अनेनैव विधानेन ताराभ्रमपि मेलयेत् ॥

8.27

वङ्गमावर्त्य देवेशि पुनः सूतकयोजितम्
कदलीकन्दतोयेन मर्दयेट्टङ्कणान्वितम्
अन्धमूषागतं ध्मातं वङ्गाभ्रं मिलति क्षणात् ॥

8.28

चूर्णं नरकपालस्य स्त्रीस्तन्यं वनशिग्रुकम्
गुञ्जाटङ्कणसंयुक्तं वङ्गाभ्रं मिलति क्षणात् ॥

8.29

अभ्रकं चूर्णयित्वा तु काकमाचीरसप्लुतम्
कपित्थतोयसंस्पृष्टं रसटङ्कणसंयुतम्
वङ्गपत्त्रान्तरन्यस्तं ध्मातं वङ्गाभ्रकं मिलेत् ॥

8.30

आवर्त्य कटुतैलेन भस्मापामार्गजं क्षिपेत्
वङ्गाभ्रं हरितालं च नागाभ्रे तु मनःशिलाः ॥

8.31

हेमाभ्रं नागताप्येन ताराभ्रं वङ्गतालकात्
गन्धकेन तु शुल्वाभ्रं तीक्ष्णाभ्रं सिन्धुहिङ्गुलात्
वङ्गाभ्रं हरितालेन नागाभ्रं शिलया मिलेत् ॥

8.32

लाङ्गली चामरीकेशं कार्पासास्थिकुलत्थकम्
भूलता चाश्मदलनी स्त्रीस्तन्यं सुरगोपकः ॥

8.33

एतत्प्रलिप्तमूषायां सुध्मातास्तीव्रवह्निना
कान्ताभ्रशैलविमला मिलन्ति सकलान् क्षणात् ॥

8.34

लताछुछुन्दरीमांसं विषटङ्कणयोजितम्
मूषालेपेन कुरुते सर्वद्वंद्वेषु मेलनम् ॥

8.35

अभ्रकं सुरसा शृङ्गं मण्डूकस्य वसा विषम्
गुञ्जाटङ्कणयोगेन सर्वसत्त्वेषु मेलनम् ॥

8.36

टङ्कणोर्णागिरिजतु कर्णाख्यामलकर्कटैः
मिलन्ति सर्वद्वंद्वानि स्त्रीस्तन्यपरिपेषितैः ॥

8.37

धातकीगुग्गुलुगुड सर्जयावकटङ्कणैः
स्त्रीस्तन्यपेषितैः सर्वं द्वंद्वजं तु रसायने ॥

8.38

खसत्त्वं सूक्ष्मचूर्णं तु पूर्वकल्केन संयुतम्
अन्धमूषागतं ध्मातं संकरं मिलति क्षणात् ॥

8.39

वापितं ताप्यरसक सस्यकैर्दरदेन च
खसत्त्वं स्यान्निबद्धं च दृढं ध्मातं मिलेत्ततः ॥

8.40

रसोपरसलोहानि सर्वाण्येकत्र धामयेत्
अन्योन्यं द्वंद्वतां यान्ति द्रवन्ति सलिलं यथा ॥

8.41

बीजानि कल्पितान्येवं रञ्जितानि परं शृणु ॥

8.42

घनं माक्षिकचूर्णेन शुल्वचूर्णेन रञ्जितम्
द्वंद्वितं ताप्यसत्त्वेन रसराजस्य रञ्जनम् ॥

8.43

आरक्तवल्लीगोमूत्रः बहुधा परिभावितैः
कुनटीगन्धपाषाणैर् हेममाक्षिकहिङ्गुलैः ॥

8.44

वापितं सेवितं रक्त गणैः स्नेहैर्मृतं ततः
रञ्जनं रसराजस्य तीक्ष्णताम्रौ विशेषतः ॥

8.45

केवलं विमलं ताम्रं वापितं दरदेन च
कुरुते त्रिगुणं जीर्णं लाक्षाभं निर्मलं रसम् ॥

8.46

रसकं द्विगुणं दत्त्वा ताम्रं सुध्मातमीश्वरि
कृष्णाभ्रकस्य चूर्णं च रक्तवर्गैर् मुहुः पुटैः ॥

8.47

ताप्येन वा मृतं हेम त्रिगुणेन निवापितम्
भाण्डिकायां तु रसकं ताप्यसैन्धवसंयुतम् ॥

8.48

इन्द्रगोपनिभं यावत् सर्वं द्विगुणजारणात्
द्रुतं हेमनिभं सूतं कुरुते नात्र संशयः ॥

8.49

अभ्रकं हेम ताम्रं च शिलया माक्षिकेण च
गैरिकेण च मुख्येन रसकेन च रञ्जयेत् ॥

8.50

बीजानि रञ्जितान्येवं पक्वबीजान्यतः शृणु ॥

8.51

महारसानुपरसान् तीक्ष्णलोहानि च क्षिपेत्
समांशं सममाक्षीकं गन्धकावापयोगतः ॥

8.52

शतशो वापयेदेतत् अक्षीणं सावशेषितम्
समांशं रसराजस्य गर्भे द्रवति निश्चितम् ॥

8.53

तदेतद्विष्टिकास्तम्भे जारणायां सुरेश्वरि
रञ्जने रसराजस्य सारणायां च शस्यते ॥

8.54

तदेव शतशो रक्त गणैः स्नेहैर्निषेचितम्
अधिकं शस्यते तेषु सहस्रांशेन वेधकृत् ॥

8.55

निर्व्यूढं नागवङ्गाभ्यां क्रियायां हेमतारयोः
खसत्त्वं रविणा योज्यं द्वंद्वितं स्याद्रसायने ॥

8.56

सस्नेहक्षारपञ्चाम्लैः रसैस्तैस्तालकादिभिः
समद्वित्रिगुणान् ताम्रे वाहयेद्वङ्गपन्नगान् ॥

8.57

रक्तस्नेहनिषिक्तं तद् रसाकृष्टिरिति स्मृतम् ॥

8.58

माक्षिकं गन्धपाषाणं हरितालं मनःशिलाम्
वैक्रान्तकं कान्तमुख्यं सस्यकं विमलाञ्जनम्
रसकं वापितं शश्वच् चूर्णितं हेम्नि वाहयेत् ॥

8.59

लोहपर्पटिकाताप्य कङ्कुष्ठविमलाभ्रकैः
मृतशुल्वशिलासत्त्व स्नुह्यर्कक्षीरहिङ्गुलैः
नागो निर्जीवतां याति पुटयोगैः पुनः पुनः ॥

8.60

रसतालकशङ्खाभ्र चिञ्चाक्षारैस्तथा त्रपुः
मृतं नागं मृतं वङ्गं शुल्वं तीक्ष्णं च वा मृतम्
एकैकमुत्तमे हेम्नि वाहयेत् सुरवन्दिते ॥

8.61

निरुत्थे पन्नगे हेम्नि निर्व्यूढे शतशो गणे
गोरोचनानिभं धाम भास्करे तारसंनिभम् ॥

8.62

तीक्ष्णाभ्रकं रविसमं माक्षिकं द्विगुणं तथा
आवर्तितं चूर्णितं च मारितं सप्तभिः पुटैः ॥

8.63

व्यूढे शतगुणे हेम्नि तद्बीजं जारयेत् समम्
चन्द्रार्कपत्त्रलेपेन शतभागेन वेधयेत् ॥

8.64

ऊर्ध्वाधो माक्षिकं दत्त्वा शुल्वं हेमसमं भवेत्
एवं दशगुणं व्यूढं बीजं कारणसंनिभम् ॥

8.65

रसकाभ्रं कान्तताम्रे भागवृद्ध्या धमेत्ततः
माक्षिकेण हतं तच्च बीजे निर्वाहयेत् प्रिये ॥

8.66

द्वात्रिंशद्गुणितं हेम्नि नागं ताप्यं हतं वहेत्
त्रिंशद्गुणशिलावापं नागबीजमुदाहृतम् ॥

8.67

ताप्यतालकवापेन सत्त्वं पीताभ्रकस्य तु
बीजे निर्वाहयेद् एतत् योषामृष्टस्य वेधकम् ॥

8.68

नागः करोति मृदुतां निर्व्यूढस्तां च रक्तताम्
वापितं पीततां तीक्ष्णं कान्तस्थां कालिकां विषम् ॥

8.69

हेमबीजमिति प्रोक्तं तारबीजमतः शृणु ॥

8.70

तीक्ष्णाभ्रताप्यविमल रसकं समभागिकम्
वङ्गभागास्तु चत्वारः सर्वं ध्मातं विचूर्णितम् ॥

8.71

पुटेन निहतं कार्यं व्यूढं तारं तु वेधयेत्
द्वात्रिंशत्सद्गुणं तारे वङ्गे ताप्यं हतं वहेत्
त्रिंशद्गुणात् तालवापात् वङ्गबीजमुदाहृतम् ॥

8.72

कुटिलं विमलं तीक्ष्णं खसत्त्वं चापि वाहयेत्
वङ्गाभ्रं ताप्यसत्त्वं वा तालमाक्षिकवापतः
शुक्लपुष्पगणैः सेकं स्नेहयुक्तैस्तु कारयेत् ॥

8.73

उक्तानि तारबीजानि बीजानां रञ्जनं शृणु ॥

8.74

तीक्ष्णमाक्षिकशुल्वं च नागं चपलमारितम्
सिन्दूरसंनिभं यावत् तेन बीजानि रञ्जयेत् ॥

8.75

निधाय खर्परे नागं ब्रह्मबीजदलैः सह
दग्धमग्निमधो दत्त्वा वह्निवर्णं यदा भवेत् ॥

8.76

वासकेन विभीतेन शाककिंशुकशिग्रुभिः
कोरण्डकस्य पुष्पेण बकुलस्यार्जुनस्य च ॥

8.77

अहिमारेण नागिन्या कुमार्या नागकन्यया
शिलया च त्रिगुणया क्वथितेनाजवारिणा ॥

8.78

भावितं खर्परस्थं च प्लावयित्वा पुनः पुनः
सप्तभिर्दिवसैरेव मारितं सुरवन्दिते ॥

8.79

पुटयेद्गन्धकेनादाव् आम्लैश्च तदनन्तरम्
इदं दलानां बीजानां रसराजस्य रञ्जने
उद्घाटे क्रामणे योज्यं पिष्टीस्तम्भे विशेषतः ॥

8.80

मञ्जिष्ठाकिंशुकरसे खदिरं रक्तचन्दनम्
करवीरं देवदारुं सरलं रजनीद्वयम् ॥

8.81

अन्यानि रक्तपुष्पाणि पिष्ट्वा लाक्षारसेन तु
तैलं विपाचयेद्देवि तेन बीजानि रञ्जयेत् ॥

8.82

द्विगुणे रक्तपुष्पाणां रक्तपीतगणस्य च
क्वाथे चतुर्गुणे क्षीरे तैलमेकं सुरेश्वरि ॥

8.83

ज्योतिष्मतीकरञ्जाख्य कटुतुम्बीसमुद्भवम्
पाटलीपिप्पलीकाम काकतुण्डीरसान्वितम् ॥

8.84

भेकशूकरमेषाहि मत्स्यकूर्मजलौकसाम्
वसया चैकया युक्तं षोडशांशैः सुपेषितैः ॥

8.85

भूलतामलमाक्षीक द्वंद्वमेलापनौषधैः
पाचितं गालितं चैतत् सारणा तैलमुच्यते ॥

8.86

रसतुल्यं यथा बीजं गतं गर्भद्रुतिं प्रिये
व्यापकत्वेन सर्वे च समभागास्तथेष्यते ॥

8.87

पक्वं श्रेष्ठं समं गर्भे यद्द्रवेद्रञ्जयेच्च तम् ॥

8.88

एवमुक्तानि बीजानि जारयेद्विडयोगतः
तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमिच्छसि ॥

मूल पाठ: Rasārṇava, 1-12 · Edition: Praphulla Chandra Ray Calcutta : Asiatic Society 1908-1910 (Bibliotheca Indica, 175) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc