रसार्णव · अध्याय 7
सह लक्षणसंस्कारैर् आज्ञापय महारसान्
अन्यच्च तादृशं देव रसविद्योपकारकम् ॥
माक्षिको विमलः शैलश् चपलो रसकस्तथा
सस्यको दरदश्चैव स्रोतोञ्जनम् अथाष्टकम्
अष्टौ महारसाश्चैवम् एतान् प्रथमतः शृणु ॥
कृष्णस्तु भारतं श्रुत्वा योगनिद्रामुपागतः
तस्य पादतले विद्धं व्याधेन मृगशङ्कया ॥
ये तत्र पतिता भूमौ क्षताद्रुधिरबिन्दवः
ते निम्बफलसंस्थाना जाता वै माक्षिकोपलाः ॥
माक्षिको द्विविधस्तत्र पीतशुक्लविभागतः
विमलस्त्रिविधो देवि शुक्लः पीतश्च लोहितः ॥
तैलारनालतक्रेषु गोमूत्रे कदलीरसे
कुलत्थकोद्रवक्वाथैः माक्षिकं विमलं तथा
मुहुः शूरणकन्दस्थं स्वेदयेद्वरवर्णिनि ॥
क्षाराम्ललवणैरण्ड तैलसर्पिःसमन्वितम्
पुटत्रयं प्रदातव्यं तद्द्वयं शोधितं भवेत् ॥
माक्षिकं चूर्णितं स्तन्य स्नुह्यर्कक्षीरभावितम्
सत्त्वं मुञ्चति सुध्मातं टङ्ककङ्कुष्ठमोदितम् ॥
कदलीकन्दतुलसी नारङ्गाम्लपरिप्लुतम्
सप्तसप्तपुटोपेतं पञ्चद्रावकसंयुतम्
स्त्रीस्तन्यमोदितं ध्मातं सत्त्वं मुञ्चति माक्षिकम् ॥
क्षौद्रगन्धर्वतैलाभ्यां गोमूत्रेण घृतेन च
कदलीकन्दसारेण भावितं माक्षिकं मुहुः
मूषायां मुञ्चति ध्मातं सत्त्वं शुल्वनिभं मृदु ॥
देवदालीरसं क्षिप्त्वा पादांशटङ्कणैर्युतम्
प्रकटां मूषिकां कृत्वा धमेत् सत्त्वम् अपेक्षितम् ॥
किमत्र चित्रं कदलीरसेन सुपाचितं सूरणकन्दसम्पुटे
वातारितैलेन पुटेन ताप्यं पुटेन दग्धं वरशुद्धिम् एति ॥
गोमूत्रैश्च स्नुहिक्षीरैः भाव्यमेरण्डतैलकैः
माक्षिकं दिनम् एकं तु मर्दितं वटकीकृतम्
अभ्रवद्धमयेत् सत्त्वं सस्यकस्याप्ययं विधिः ॥
ताप्यम् आवर्तकं धातु माक्षिकं मधुधातुकम्
माक्षिकं तिक्तमधुरं मेहार्शःक्षयकुष्ठनुत्
कफपित्तहरं बल्यं योगवाहि रसायनम् ॥
ज्वरसंनिपातदारिद्र्याण्यपि यन्नामकथनमात्रेण ।
नश्यन्ति योजनशते कस् तस्माल्लोहवेधकरः ॥
विमलं शिग्रुतोयेन काङ्क्षीकासीसटङ्कणैः
वज्रकन्दसमायुक्तं भावितं कदलीरसैः ॥
मोक्षकक्षारसंयुक्तं धामितं मूकमूषया
सत्त्वं चन्द्रार्कसंकाशं प्रयच्छति न संशयः ॥
पतितो ऽपतितश्चेति द्विविधः शैला ईश्वरि
ग्रन्थान्तरे ऽपि कीर्त्यो ऽसौ कीर्तितो बहुभिः सुरैः ॥
निदाघे घर्मसंतप्ता धातुसारं धराधराः
निर्यासं च विमुञ्चन्ति तच्छिलाजतु कीर्तितम् ॥
शिलावद् धातुकं ध्मातं शैलजं गिरिसानुजम्
जत्वद्रिजं गिरिः शैलः प्रोक्तस्त्वयानुकीर्तितः ॥
क्षाराम्लगोजलैर्ध्मातं शुध्यते च शिलाजतु
अथवा गोघृतेनापि त्रिफलद्व्यार्द्रकद्रवैः
लोहपात्रे विनिक्षिप्य शोधयेत्तत्तु यत्नतः ॥
शैलं विचूर्णयित्वा तु धान्याम्लोपविषैर् विषैः
पिण्डं बद्ध्वा तु विधिवत् पातयेच्चपलं यथा ॥
गौरः श्वेतो ऽरुणः कृष्णश् चपलस्तु प्रशस्यते
हैमाभश्चैव ताराभो विशेषाद्रसबन्धकः ॥
शेषौ मध्यौ च लाक्षावत् शीघ्रद्रावौ तु निष्फलौ
वङ्गवद्द्रवते वह्नौ चपलस्तेन कीर्तितः ॥
वस्त्रेण बद्ध्वा चपलं लङ्घयेद्यदि सागरम्
वस्त्रं च वेष्टयेत् सद्यः तेनासौ चपलः स्मृतः ॥
सारयेत् पुटपाकेन चपलं गिरिमस्तके
देहबन्धं करोत्येव विशेषाद्रसबन्धनम् ॥
चपलश्चपलावेधं करोति घनवच्चलः
चपलो लेखनः स्निग्धो देहलोहकरो मतः ॥
मृत्तिकागुडपाषाण भेदतो रसकस्त्रिधा ॥
पीतस्तु मृत्तिकाकारो मृत्तिकारसको वरः
गुडाभो मध्यमो ज्ञेयः पाषाणाभः कनिष्ठकः ॥
कटुकालाबुनिर्यासे नालोड्य रसकं पचेत्
शुद्धो दोषविनिर्मुक्तः पीतवर्णस्तु जायते ॥
किमत्र चित्रं रसकं रसेन रजस्वलायाः कुसुमेन भावितम्
क्रमेण कृत्वा उरगेन रञ्जितं करोति शुल्बं त्रिपुटेन काञ्चनम् ॥
क्षीयते नापि वह्निस्थः सत्त्वरूपो महाबलः ॥
रसकं चूर्णयित्वा तु बद्ध्वा वस्त्रे विचक्षणः
मूत्रे निधापयेत् स्त्रीणां सप्तरात्रं सुरेश्वरि ॥
पुष्पाणां रक्तपीतानां रसैः पत्त्रैश्च भावयेत् ॥
क्षारैः स्नेहैस्तथा चाम्लैः भावितं रसकं मुहुः
ऊर्णालाक्षानिशापथ्या भूलताधूमसंयुतम् ॥
मूकमूषागतं ध्मातं टङ्कणेन समन्वितम्
सत्त्वं कुटिलसंकाशं मुञ्चत्येव न संशयः ॥
गोभद्दो रसकस्तुत्थं क्षितिकिट्टो रसोद्भवः
खर्परो नेत्ररोगारिः रीतिकृत्ताम्ररञ्जकः ॥
रसको रञ्जको रूक्षो वातकृत् श्लेष्मनाशनः
त्रिदोषघ्नं तु तत्सत्त्वं नेत्रदोषविनाशनम् ॥
कालकूटविषं पीत्वा गरुडः सोढुमक्षमः
सुधामपि तथावामत् भुक्त आशीविषामृते
स्वयं विनिर्गते चञ्च्वोः सस्यको ऽभूत् स कालिकः ॥
एकधा सस्यकस्तस्य स्त्रीमूत्रे भावयेद्रजः
शशशोणितमध्ये वा दिनमेकं निधापयेत् ॥
तस्य चूर्णं महेशानि पादसौभाग्यसंयुतम्
करञ्जतैलमध्यस्थं दिनमेकं निधापयेत् ॥
मध्यस्थमन्धमूषायाः धमयेत् कोकिलात्रयम्
इन्द्रगोपकसंकाशं सत्त्वं पतति शोभनम् ॥
एकधा सस्यकस्तस्मात् ध्मातो निपतितो भवेत्
कालिकारहितो रक्तः शिखिकण्ठसमाकृतिः ॥
सस्यो मयूरतुत्थं स्यात् वह्निकृत् कालनाशनः
रसायने तु योग्यः स्याद् वयःस्तम्भकरो भवेत् ॥
सस्यकः शुद्धिमाप्नोति रक्तवर्गेण भावितः ॥
दरदस्त्रिविधः प्रोक्तश् चर्मारः शुकतुण्डकः
हंसपादस्तृतीयः स्याद् गुणवानुत्तरोत्तरः ॥
चूर्णपारदभेदेन द्विविधो दरदः पुनः ॥
गोमांसे माहिषे मूत्रे दध्यम्लतिलतैलयोः
एकैकं त्रिदिनं पक्त्वा शिखिपित्तेन भावयेत् ॥
दरदं पातनायन्त्रे पातयेत् सलिलाशये
सत्त्वं तु सूतसंकाशं जायते नात्र संशयः ॥
लघुकन्दरसो म्लेच्छो हिङ्गुलं चूर्णपारदम्
मणिरागजमस्यैव नाम चर्मारगन्धिकम् ॥
तिक्तोष्णं हिङ्गुलं दिव्यं रसगन्धकसम्भवम्
लोहकुष्ठहरं दिव्य बलमेधाग्निदीपनम् ॥
किमत्र चित्रं दरदः सुभावितः क्षीरेण मेष्या बहुशो ऽम्लवर्गैः
सितं सुवर्णं बहुघर्मतापितं करोति साक्षाद्वरकुङ्कुमप्रभम् ॥
वल्मीकशिखराकारं भङ्गे नीलोत्पलद्युति
घृष्टं तु गैरिकच्छायं स्रोतोजं सुरवन्दिते ॥
गोशकृद्रसमूत्रेषु घृतक्षौद्रवसासु च
भावितं बहुशस्तच्च क्षिप्रं बध्नाति सूतकम् ॥
एवं महारसाः प्रोक्ताः शृणुष्वोपरसान् प्रिये ॥
गन्धकस्तालकः शिला सौराष्ट्री खगगैरिकम्
राजावर्तश्च कङ्कुष्ठम् अष्टा उपरसाः स्मृताः ॥
श्वेतद्वीपे पुरा देवि सर्वरत्नविभूषिते
सर्वकाममये रम्ये तीरे क्षीरपयोनिधेः ॥
विद्याधरीभिर्मुख्याभिर् अङ्गनाभिश्च योषिते
सिद्धाङ्गनाभिस्त्विष्टाभिस् तथैवाप्सरसां गणैः ॥
देवाङ्गनाभिरन्याभिः क्रीडिताभिः पुरा प्रिये
गीतनृत्यैर्विचित्रैश्च वाद्यैर्नानाविधैस्तथा ॥
एवं संक्रीडमानायास् तवाभूत् प्रसृतं रजः
तद्रजो ऽतीव सुश्रोणि सुगन्धि सुमनोहरम् ॥
रजसश्चातिबाहुल्यात् वासस्ते रक्ततां ययौ
तत्र त्यक्त्वा तु तद्वासः सुस्नाता क्षीरसागरे ॥
वृता देवाङ्गनाभिस्त्वं सुरैश्चापि पुरं गता
ऊर्मिभिस्ते रजोवस्त्रं नीतं मध्ये पयोनिधेः ॥
एवं ते शोणितं भद्रे प्रविष्टं क्षीरसागरे
क्षीराब्धिमथने चैतद् अमृतेन सहोत्थितम्
निजगन्धेन तान् सर्वान् हर्षयद्देवदानवान् ॥
ततो देवगणैरुक्तं गन्धकाख्यो भवत्वयम् ॥
रसस्य बन्धनार्थाय जारणाय भवत्वयम्
ये गुणाः पारदे प्रोक्तास् ते चैवात्र भवन्त्विति ॥
इति देवगणैः प्रीतैः पुरा प्रोक्तं सुरेश्वरि
तेनायं गन्धको नाम विख्यातः क्षितिमण्डले ॥
स चापि त्रिविधो देवि शुकचञ्चुनिभो वरः
मध्यमः पीतवर्णः स्याच् छुक्लवर्णो ऽधमः प्रिये ॥
करञ्जैरण्डतैलेन द्रावयित्वाजदुग्धके
सिञ्चेदुन्मत्तनिर्यासे त्रीन्वारांस्तं पृथक् पृथक् ॥
ज्वालिनीबीजचूर्णेन मत्स्यपित्तैश्च भावयेत्
भृङ्गाम्भसा वा सप्ताहं भावितः क्षालितो ऽम्भसा ॥
तापितो बदराङ्गारैः घृताक्ते लोहभाजने
आवर्तितश्च मृद्वग्नौ घृताक्तकर्पटोपरि ॥
क्षिप्रं भृङ्गस्य निर्यासे क्षालितो गन्धको हितः ॥
गन्धको हि स्वभावेन रसरूपः स्वरूपतः
गन्धकं शोधयेत् क्षीरे शृङ्गवेररसे तथा ॥
रसे च भृङ्गराजस्य निम्बुकस्य रसे तथा
शोधितः सप्तवाराणि गन्धको जायते ऽमलः ॥
तालकः पटलः पिण्डो द्विधा तत्राद्य उत्तमः
कुष्माण्डे तु शतं वारान् तालकं स्वेदयेद्बुधः ॥
स्नुक्क्षीरकटुकालाबु रसयोः सप्तधा पृथक्
तिलसर्षपशिग्रूणि लाक्षा च लवणं गुडः
टङ्कणं च युतैर्ह्येतैः तालकं भूधरे द्रवेत् ॥
व्याधिघातफलक्षारं मधुकुष्माण्डकं तथा
द्रवैः पुनर्नवोद्भूतैः सप्ताहं मर्दयेद्बुधः ॥
दत्त्वा पादांशकं सर्वं ततः पातनयन्त्रके
दद्यात् पुटं गजाकारं पतेत् सत्त्वं सुतालकात् ॥
रक्ता शिला तु गोमांसे लुङ्गाम्लेन विपाचिता
तां रक्तपीतपुष्पाणां रसैः पित्तैश्च भावयेत् ॥
सिता कृष्णा च सौराष्ट्री चूर्णखण्डात्मिका च सा ॥
गोपित्तेन शतं वारान् सौराष्ट्रीं भावयेत्ततः
धमित्वा पातयेत् सत्त्वं क्रामणं चातिगुह्यकम् ॥
कासीसं त्रिविधं शुक्लं कृष्णं पीतमिति प्रिये ॥
कासीसं चूर्णयित्वा तु कासमर्दरसेन च
राजकोशातकीतोयैः पित्तैश्च परिभावयेत् ॥
गैरिकं त्रिविधं रक्त हेमकेवलभेदतः
रक्तवर्गरसक्वाथ पित्तैस्तद्भावयेत् पृथक् ॥
अनेन क्रमयोगेन गैरिकं विमलं धमेत्
क्रमात् सितं च रक्तं च सत्त्वं पतति शोभनम् ॥
राजावर्तो द्विधा देवि गुलिकाचूर्णभेदतः ॥
तच्चूर्णं देवदेवेशि महिषीक्षीरसंयुतम्
विपचेदायसे पात्रे गोघृतेन विमिश्रितम् ॥
तच्चूर्णितं सुरेशानि कुनटीघृतमिश्रितम्
सौभाग्यपञ्चगव्येन पिण्डीबद्धं तु कारयेत्
धमितं खादिराङ्गारैः सत्त्वं मुञ्चति शोभनम् ॥
कङ्कुष्ठं विद्रुमच्छायं तच्च सत्त्वमयं प्रिये ॥
सूर्यावर्तोदककणा वह्निशिग्रुशिफारसैः
कदलीकन्दसारेण वन्ध्याकोशातकीरसैः ॥
काकमाचीदेवदाली वज्रकन्दरसैस्तथा
एभिर् व्यस्तैः समस्तैर्वा क्षाराम्लस्नेहसैन्धवैः
महारसाश्चोपरसाः शुद्धिमायान्ति भाविताः ॥
लाक्षालवणसौभाग्य धूमसारकटुत्रयम्
शिग्रुमूलमधूच्छिष्टं पथ्यागुग्गुलुधातवः ॥
सर्जिकासर्जनिर्यास पिण्याकोर्णासमन्वितम्
पारावतमलक्षुद्र मत्स्यद्रावकपञ्चकम् ॥
तिलसर्षपगोधूम माषनिष्पावचिक्कसम्
छागक्षीरेण संयुक्तं वज्रपिण्डी तु कीर्तिता ॥
अनया वज्रपिण्ड्या तु पञ्चमाहिषयुक्तया
महारसा मोदितास्तु पञ्चगव्येन भाविताः ॥
कोष्ठे खराग्निना ध्माताः सत्त्वं मुञ्चन्ति सुव्रते
एवं शिलाभ्यो जीवेभ्यो मृद्भ्यः सत्त्वं प्रजायते ॥
एवं चोपरसाः प्रोक्ताः शृणु लोहान्यतः परम् ॥
सुवर्णं रजतं ताम्रं तीक्ष्णं वङ्गं भुजंगमम्
लोहं तु षड्विधं तच्च यथा पूर्वं तदक्षयम् ॥
तत्रादितः सुरेशानि सारं लोहद्वयं स्मृतम्
साधारणे तीक्ष्णशुल्वे वङ्गनागौ तु पूतिकौ ॥
रसजं क्षेत्रजं चैव लोहसंकरजं तथा
त्रिविधं जायते हेम चतुर्थं नोपलभ्यते ॥
रक्ताभं पीतवर्णं च द्विविधं देवि काञ्चनम्
दाहे रक्तं सितं छेदे निकषे कुङ्कुमप्रभम् ॥
सगौरवं मृदु स्निग्धं तारशुल्वविवर्जितम्
हेम षोडशवर्णाढ्यं शस्यते देहलोहयोः ॥
मृत्तिका मातुलुङ्गाम्लैः पञ्चवासरभाविता
सभस्मलवणा हेम शोधयेत् पुटपाकतः ॥
शुक्लं च तारकृष्णं च द्विविधं रजतं प्रिये
गुरु स्निग्धं मृदु श्वेतं तारमुत्तममिष्यते ॥
नागेन क्षारराजेन द्रावितं शुद्धिमिच्छति
तारं त्रिवारं निक्षिप्तं पिशाचीतैलमध्यतः ॥
ताम्रं च द्विविधं प्रोक्तं रक्तं कृष्णं सुरेश्वरि
घनघातसहं स्निग्धं रक्तपत्त्रं मृदूत्तमम् ॥
स्नुह्यर्कक्षीरलवण क्षाराम्लपरिलेपितम्
ताम्रपत्त्रं च निर्गुण्डी रसमध्ये तु ढालयेत् ॥
रोहणं वाजरं चैव तृतीयं च पडालकम्
इति तीक्ष्णं त्रिधा तच्च कान्तलोहमिति स्मृतम् ॥
नीलं कृष्णमिति स्निग्धं सूक्ष्मधारमयः शुभम्
गुडूची हंसपादी च नक्तमालः फलत्रयम् ॥
गोपालकी गोरसानां तुम्बुरुर्लोहनिघ्नकः
एषां रसे ढालयेत्तत् गिरिदोषनिवृत्तये ॥
त्रपु च द्विविधं ज्ञेयं श्वेतकृष्णविभेदतः
श्वेतं लघु मृदु स्निग्धम् उत्तमं वङ्गमुच्यते ॥
नागस्त्वेकविधो देवि शीघ्रद्रावी मृदुर्गुरुः ॥
महिषस्यास्थिचूर्णेन वापात्तन्मूत्रसेचनात्
वङ्गं शुद्धं भवेत्तद्वत् नागो नागास्थिमूत्रतः ॥
गौरीफलानि क्षुरको रजनीतुम्बुरूणि च
कुबेराक्षस्य बीजानि मल्लिकायाश्च सुन्दरि ॥
पलाशशुष्कापामार्ग क्षारस्नुक्क्षीरयोगतः
सप्तधा परिवापेन शोधयन्ति भुजंगमम् ॥
स्नुहीक्षीरसमायोगात् वङ्गं चावापयेत्ततः ॥
स्नुह्यर्कक्षीरहलिनी कञ्चुकीकन्दचित्रकैः
गुञ्जाकरञ्जधुत्तूर हयगन्धाङ्घ्रितालकैः ॥
नक्तमालेङ्गुदीशक्र वारुणीमूलसंयुतैः
पिष्टैर्माहिषतक्रे तु सप्तरात्रोषितैस्ततः
निषेकः सर्वलोहानां मलं हन्ति न संशयः ॥
देवदालीफलरजः स्वरसैर्भावितं मुहुः
द्रावयेत् कनकं वापात् भूयो न कठिनं भवेत् ॥
अखिलानि च सत्त्वानि द्रावयेत् तत्प्रभावतः ॥
समांशं सुरगोपस्य सुरदाल्याश्च यद्रजः
आवापात् कुरुते देवि कनकं जलसंनिभम् ॥
मण्डूकास्थिवसाटङ्क हयलालेन्द्रगोपकैः
प्रतिवापेन कनकं सुचिरं तिष्ठति द्रुतम् ॥
त्रिःसप्तकृत्वो गोमूत्रे ज्वालिनीभस्म गालितम्
शोषयेत्तस्य वापेन तीक्ष्णं मूषागतं द्रवेत् ॥
त्रिःसप्तकृत्वो निचुल भस्मना भावितेन तु
केतक्यास्तु रसैस्तीक्ष्णम् आवापाद्द्रवतां व्रजेत् ॥
पक्वधात्रीफलरसैः शङ्खे सप्ताहभावितम्
पुनः कञ्चुकितोयेन भावितं सप्तवासरम् ॥
शरावयुगलान्तःस्थं सुदृढं परिधामितम्
तत्तीक्ष्णचूर्णं देवेशि रसरूपं प्रजायते ॥
तालकं गन्धपाषाण शिलामाक्षिकगैरिकम्
कासीसं खण्डसौराष्ट्री तुत्थमभ्रकमेव च ॥
श्वशृगालतरक्षूणां कुक्कुटस्य मलं तथा
मयूरगृध्रमार्जार विष्ठा च समभागकम् ॥
भावयेत्त्रिः स्नुहीक्षीरैर् देवदालीरसेन च
तत्कल्कम् अष्टमांशेन लोहपत्त्राणि लेपयेत् ॥
धमेद् द्रुतं भवेल्लोहम् एतैरेव निषेचयेत्
अङ्कोलस्य तु मूलानि काञ्जिकेन प्रपेषयेत्
लोहलेपं ततो दद्यात् अग्निस्थं धारयेत् प्रिये ॥
पुनर्लेपं ततो दद्यात् परिच्छिन्नारसेन तु
मत्स्यपित्तेन देवेशि वह्निस्थं धारयेत् प्रिये ॥
पुनर्लेपं प्रकुर्वीत लाङ्गलीकन्दसम्भवम्
त्रिभिर्लेपैर्द्रुतं लोहं निर्मलं स्वच्छवारिवत् ॥
चूर्णितं देवि कूर्मास्थि मेषशृङ्गं शिलाजतु
कुरुते प्रतिवापेन बलवज्जलवत् स्थिरम् ॥
अर्कापामार्गमुसली निचुलं चित्रकं तथा
कदली पोतकी दाली क्षारमेषां तु साधयेत् ॥
गालयेन्माहिषे मूत्रे षड्वारान्सुरवन्दिते
आवापाद्द्रावयेदेत दभ्रसत्त्वादिजं रजः ॥
दन्तीदन्तो विशेषेण द्रावयेत् सलिलं यथा ॥
रसेनोत्तरवारुण्याः प्लुतं वैक्रान्तजं रजः
प्रतिवापेन लोहानि द्रावयेत् सलिलोपमम् ॥
रत्नानां द्रावणं वक्ष्ये गगनस्य द्रुतिं तथा ॥
त्रिफला च त्रिकटुकं त्रिक्षारं पटुपञ्चकम्
बला चातिबला चैव तृतीया च महाबला ॥
अश्वगन्धा चवी नारी भूलता मातृवाहकः
गोपेन्द्रमण्डली चैव षड्बिन्दुर्द्विमुखी तथा ॥
धीरा सूरणकन्दश्च कञ्चुकी च पुनर्नवा
स्नुह्यर्कोन्मत्तहलिनी पाठा चोत्तरवारुणी ॥
अयस्कान्तो गोक्षुरश्च मृदुदूर्वाम्लवेतसम्
शिलाजतु च सौवीरं विषगन्धकटङ्कणम् ॥
पृथग्दशपलं सर्वं सूक्ष्मचूर्णं तु कारयेत्
कुम्भद्वयं कुलत्थानां काष्ठेन तिनिशस्य च ॥
क्वाथयेन्मृदुतापेन यावत् कुम्भावशेषितम्
तेन क्वाथेन तच्चूर्णं भावयेदेकविंशतिम् ॥
रत्नानि तेन लिप्तानि तत्क्वाथस्थं धमेत् पुनः
अहोरात्रेण तान्याशु द्रवन्ति सलिलं यथा ॥
अभ्रकादीनि लोहानि द्रवन्ति ह्य् अविचारतः
निर्मलानि च जायन्ते हरबीजोपमानि च ॥
मिलन्ति च रसेनाशु वह्निस्थान्यक्षयाणि च
तैर् द्रुतैः स्पर्शमात्रेण क्षणाद् बध्येत सूतकः ॥
लोहानां मारणं वक्ष्ये समाहितमनाः शृणु
स्नुहीक्षीरेण सिन्दूरं कनकं रजतं पुनः ॥
तेनैव माक्षिकं ताम्रम् अजाक्षीरेण गन्धकम्
स्तन्येन हिङ्गुलं तीक्ष्णं वङ्गतालपलाशकम् ॥
नागं शिलार्कक्षीरेण स्वच्छपत्त्रीकृतं प्रिये
मारयेत् पुटपाकेन निरुत्थं भस्म जायते ॥
न सो ऽस्ति लोहमातंगो यं न गन्धककेसरी
निहन्याद्गन्धमात्रेण यद्वा माक्षिककेसरी ॥
रसीभवन्ति लोहानि मृतानि सुरवन्दिते
हरन्ति रोगान् सकलान् रसयुक्तानि किं पुनः
शीलनान्नाशयन्त्येव वलीपलितरुग्जराः ॥
वज्रमाक्षिकतीक्ष्णाभ्रं शस्यते देहकर्मणि
नागं वङ्गं सुवीरं च द्रव्यकर्मणि योजयेत् ॥
परिबालं तु यल्लोहं तथा च मलयोद्भवम्
एतल्लोहद्वयं देवि विशेषाद्देहरक्षणम् ॥
रागं महारसादीनां ज्ञात्वा बीजानि साधयेत्
तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमर्हसि ॥
मूल पाठ: Rasārṇava, 1-12 · Edition: Praphulla Chandra Ray Calcutta : Asiatic Society 1908-1910 (Bibliotheca Indica, 175) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0