रसार्णव · अध्याय 3
भगवन् देवदेवेश लोकनाथ जगत्पते
मन्त्रन्यासं समाचक्ष्व रसकर्मोपकारकम् ॥
पुनरन्यं प्रवक्ष्यामि मन्त्रमूर्तिं रसाङ्कुशीम्
पञ्चमं तु गृहं देवि दुर्लभं देवदानवैः ॥
चत्वारः प्रधानगृहाः हंसगृहं तु पञ्चमम्
यत्र सिद्धिर् मकारादिः तिष्ठते पञ्चमे गृहे ॥
लिङ्गाश्रयं यथा रूपं लिङ्गिमाया तु लिङ्गिनी
गगनेन तु सा ज्ञेया भगरेखा तु पञ्चमे ॥
प्रणवं पूर्वम् उच्चार्य बीजं शब्दमनुत्तरम्
ह्रींकारं चैव क्रींकारं हंसबुद्धिमनन्तरम् ॥
कालपाशं महामन्त्रं गृह्णीयात् साधकेश्वरः
महारम्भे तु तन्मन्त्रं प्रतीहारं रसाङ्कुशीम् ॥
लक्षमेकं जपेत्तस्य महासिद्धिः प्रवर्तते
बालवत्सपुरीषं तु ततः केनैव ग्राहयेत् ॥
चिताग्निभस्म तेनैव ग्राहयेत् परमेश्वरि
क्षेत्रं तदुत्तमं स्थानं रसेन्द्रस्तत्र तिष्ठति ॥
मार्जन्या मार्जयेत्स्थानं कुब्जिकाख्या तु खेचरी
द्वात्रिंशदक्षरा देवि पञ्चनादेषु संस्थिता ॥
ततः सिद्धाश्च चत्वारः पुरुषाष्टादश स्मृताः
अर्थपञ्चकसंयुक्ता ध्यानं स्यात् पञ्चकं पुनः ॥
योगिनीषट्कसंयुक्तं सप्तविंशत्क्रमान्वितम्
एकाशीतिपदैर्युक्तं पञ्चावरणसंयुतम् ॥
अनेन क्रमयोगेन मार्जनीं परिपूजयेत्
अनेन मार्जयेत् क्षेत्रं रसेन्द्रो यत्र तिष्ठति ॥
उपलेपं तु तत्रैव चण्डघण्टां तु कारयेत्
पूर्वे गृहे तु सा देवी चण्डघण्टा व्यवस्थिता ॥
चण्डभैरविका देवी संस्थिता दक्षिणे गृहे
गोमयं तेन गृह्णीयाल् लेपनार्थं वरानने ॥
चण्डकापालिनी देवी संस्थिता चोत्तरे गृहे
गृहीत्वा चोदकं तेन लेपयेद्भूमिमण्डलम् ॥
सप्तदशाक्षरां कालीं खल्लपाषाणतो न्यसेत्
द्वात्रिंशदक्षरं घोरं मर्दके तु नियोजयेत् ॥
गृह्णीयात् काञ्जिकां देवि कालपाशेन मन्त्रितः
एवं सुकर्मसंयोगं कुरुते खेचरीकुलम् ॥
अष्टाशीतिसहस्राणि याः स्थिता दिव्यखेचरी
ताः सर्वाः किंकरास्तस्य औषधं पेषयन्ति ताः ॥
तासां सर्वं तु मन्त्रैकं चतुरक्षरसंयुतम्
सा विद्या खेचरीणां तु नाम्नां तु कुलखेचरी ॥
राजिकां सैन्धवं न्यस्य सा विद्या कुलखेचरी
मन्त्रयेत् काञ्जिकां तत्र मन्त्रराजो रसाङ्कुशी ॥
अस्त्रविद्यां जपेत्तत्र या ज्ञाता पूर्वभार्गवे
गुडेष्टकां तु संमर्द्य प्रिये तन्मर्दितं रसम् ॥
का कथा मन्त्रराजस्य न वाक्यं त्रिशिरस्य च
षडङ्गं योजयेत् तां तु त्वरितं धारयेत् ततः ॥
डामराख्यं महामन्त्रं धमनीषु नियोजयेत्
चिन्तामणिमहाविद्यां कवचेषु नियोजयेत् ॥
चण्डिकाया महामन्त्रं तं तु पात्रे नियोजयेत्
नवविद्यां वरारोहे विन्यसेत्तुषगोमये ॥
त्रिपुराभैरवीं देवीं राजिकाकाञ्जिके न्यसेत्
गुडस्य कालरात्रिस् तु न्यस्तव्या वीरवन्दिते ॥
त्रिकूटाक्षं त्रिनेत्रं तु अनलस्य तु विन्यसेत्
उदके विन्यसेद्देवि चतुरशीतिचण्डिकाः ॥
क्षेत्रपालमघोरास्त्रं न्यस्तव्यं कोष्ठके प्रिये
महापाशुपतास्त्रं तु मूषायां च नियोजयेत् ॥
एतन्मन्त्रगणं देवि रसस्थाने नियोजयेत्
तदा तु सिध्यते तस्य साधकस्य फलं प्रिये ॥
रसाङ्कुशं महामन्त्रं जपेत्तु हृदयान्तरे
अन्ये ये योगिनीमन्त्राः सर्वान्नारीश्च जापयेत् ॥
अप्रकाशं तु तेनैव मन्त्रराजं रसाङ्कुशम्
अप्रकाशं च नारीणां रक्षयेत्प्रणवं तथा
महासमयविभ्रंशं नारीणां हृदयं यथा ॥
कुब्जिकाद्यास्तु ये मन्त्रा मया ते संप्रकाशिताः
त्रैलोक्यं क्षोभितास्ते तु न मन्यन्ते मम प्रिये ॥
रसाङ्कुशेन ज्ञानेन त्रैलोक्यं वश्यतां व्रजेत् ॥
मन्त्रन्यासमिति ज्ञात्वा यन्त्रमूषाग्निमानवित्
कुर्वाणो रसकर्माणि सिद्धिं प्राप्नोति साधकः ॥
मूल पाठ: Rasārṇava, 1-12 · Edition: Praphulla Chandra Ray Calcutta : Asiatic Society 1908-1910 (Bibliotheca Indica, 175) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0