रसार्णव · अध्याय 2
रसोपदेशदाता च कथं स्याद्वद मे प्रभो
शिष्यश्चैव कथं देव रसानुष्ठानतत्परः ॥
निस्पृहो निरहंकारो लोभमायाविवर्जितः
कुलमार्गरतो नित्यं गुरुपूजारतश्च यः ॥
दान्तः शिष्योपदेशज्ञः शक्तिमान् गतमत्सरः
धर्मज्ञः सत्यवाक् दक्षः शीलवान् गुणवान् शुचिः ॥
अनेकरसशास्त्रज्ञो रसमण्डपकोविदः
रसदीक्षाविधानज्ञो यन्त्रौषधिमहारसान् ॥
रागसंख्यां बीजकलां द्वंद्वमेलापनं विडम्
रञ्जनं सारणं तैलं दलानि क्रामणानि च ॥
वर्णोत्कर्षं मृदुत्वं च जारणां बालबद्धयोः
खेचरीं भूचरीं चैव यो वेत्ति स गुरुर्मतः ॥
देशकालक्रियाभिज्ञो दयादाक्षिण्यसंयुतः
लोभमायाविनिर्मुक्तो मन्त्रानुष्ठानतत्परः ॥
सामुद्रलक्षणोपेतो गम्भीरो गुरुवत्सलः
देवाग्नियोगिनीचक्र कुलपूजारतः सदा
शिष्यो विनीतस्तन्त्रज्ञः सत्यवादी दृढव्रतः ॥
ये नराः कुम्भकुद्दाल ध्वजशङ्खादिलाञ्छितैः
करैरधिष्ठिता देवि योज्यास् ते निधिसाधने ॥
बलवन्तो महासत्त्वाः कृष्णरक्तविलोचनाः
वक्रघोणाः सदा क्रूराः प्रशस्ता बिलसाधने ॥
निर्मांसमूर्धपिण्डीकान् रक्तकेशान् गतालसान्
कठिनान् उष्णपादांश्च धातुवादे नियोजयेत् ॥
आदौ परीक्षयेद्देवि साधकान् सुसमाहितान्
ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रांश्चानुक्रमेण तु ॥
जितेन्द्रियाः क्लेशसहा नित्योद्यमसमन्विताः
शूराश्च कृतविद्याश्च प्रशस्ताः साधकाः प्रिये ॥
रसदीक्षाविहीना ये प्रोक्तलक्षणवर्जिताः
विप्लावकाः पापरताः वर्जयेत्तान् प्रयत्नतः ॥
दुश्चारिणी दुराचारा निष्ठुरा कलहप्रिया
बह्वाशिनी च दुश्चित्ता कोटराक्षी च निर्दया
रसनिन्दाकरी या च तां नारीं परिवर्जयेत् ॥
ईदृशीभिर् वरारोहे सम्पूर्णं क्षितिमण्डलम्
न तादृशी भवेन्नारी यादृशी रसबन्धकी ॥
काकिणी कीकणी नारी तथैव काञ्चिकाचिनी
कृष्णपक्षे ऋतुमती सा नारी काकिणी स्मृता ॥
उभयपक्षे ऋतुमती सा नारी कीकणी मता ॥
शुक्लपक्षे ऋतुमती सा नारी काञ्चिकाचिनी ॥
नवयौवनसम्पन्ना सुरूपा चारुहासिनी
सूक्ष्मकेशा तु या नारी क्षीराहारप्रिया सदा ॥
प्रियालापकरी नित्यं शिवशास्त्रकथाप्रिया
पद्माकारं मुखं यस्या दृष्टिरिन्दीवराकृतिः ॥
दशना वज्रसदृशाः प्रवालसदृशो ऽधरः
यस्याः पयोधरौ देवि तुङ्गपीनौ समाव् उभौ ॥
अश्वत्थपत्त्रसदृशी योनी यस्या भगः समः
यत्पादौ मांसलौ स्निग्धौ वर्तुलावर्तरोमकौ ॥
श्यामा च मध्ये क्षामा च तन्वी भक्तिपरा शिवे
पद्मिनी सा तु विज्ञेया प्रसन्ना मृगलोचना ॥
पूर्णिमायाममायां वा पक्षे पक्षे रजस्वला
षड्भेदा काकिणी नाम्ना पूर्वप्रोक्ता रसप्रदा ॥
यस्य तुष्टो महादेवस् तस्य सिद्धो रसायने
तयैव देवदेवेशि रसकर्माणि कारयेत् ॥
तस्य हि निर्मला बुद्धिर् निश्चिता रससाधने
तस्माद्गुरुश्च शिष्यश्च पूर्वोक्तः सिद्धिभाग्भवेत् ॥
ईदृशैर्लक्षणैः नारीं कुतः प्राप्नोति साधकः
यत्र रूपं महादेव लक्षणं नात्र विद्यते ॥
लक्षणं विद्यते यत्र भावना नात्र विद्यते
अथवा रूपहीनाया रूपं केन प्रवर्तते ॥
लक्षणत्रितयं कुत्र त्वया दृष्टं महेश्वर
तदेतज्जायते येन तमुपायं वद प्रभो ॥
शृणु देवि परं गुह्यं यत्सुरैरपि दुर्लभम्
पितुः सदाशिवाज्जातं जन्म यच्चण्डिकोदरे ॥
तासां बुद्धिर्भवेद्देवि निर्मला रससाधने
दापयेत्त्वरितामन्त्रं जपेत्तं दर्पवर्जिता ॥
लक्षमन्त्रं जपेद्या तु जायते सा सुलक्षणा
बद्ध्वा तु खेचरीं मुद्रां जपेत् फेट्कारभैरवीम् ॥
ममेयं चण्डिका माता जन्म च त्रिपुरान्तकात्
कालिकाहं समुद्भूता स्मीदृशं संस्मरेत्तु सा ॥
भूतं भव्यं भविष्यं च त्रैलोक्ये कथयेत्तु सा
सहायास्तादृशास्तस्य यादृशी भवितव्यता ॥
देवदेव महादेव समस्तज्ञानभाजन
रसदीक्षां तु पृच्छामि साधकानां हिताय वै ॥
शृणु भैरवि यद्भावम् अपूर्वं वर्णयामि ते
रसदीक्षाविधानं तु तस्मान्निगदितं शृणु ॥
यत्र राजा नयपरो बलवान् धर्मतत्परः
मन्त्री च धर्मतत्त्वज्ञो भक्तिश्रद्धासमन्वितः ॥
तत्रेदं कारयेत् कर्म रसबन्धं रसायनम्
जना माहेश्वरा यत्र तत्र स्थाने तु कारयेत् ॥
कारयेद्विजने स्थाने पशुर्यत्र न विद्यते
सुगुप्ते सुषमे स्थाने सर्वबाधाविवर्जिते ॥
प्राकारपरिखोपेते कपाटार्गलरक्षिते
एकान्ते निर्मले हृद्ये नानापुष्पद्रुमान्विते ॥
हंसकारण्डवाकीर्णे चक्रवाकोपशोभिते
दिव्यौषधिगणोपेते सजले श्यामशाद्वले ॥
कुमुदोत्पलकह्लार कदलीषण्डमण्डिते
चित्रिते भवनोद्याने कारयेत् परमेश्वरि ॥
तन्मध्ये देवदेवेशि मत्तवारणसंयुतम्
वातायनसमोपेतम् ऊर्ध्वनिर्गामिधूमकम् ॥
रक्तपताकासंयुक्तं सज्जोपकरणं तथा
प्रविभक्तौषधितुषा काष्ठारण्योत्पलालयम् ॥
समालिखितदिग्देवं समर्चितविनायकम्
प्रतिष्ठितम् उमेशाभ्यां लोकपालैश्च रक्षितम् ॥
निर्मापयेदेकतलं द्वितलं वापि मण्डपम्
अथ पक्षे सिते देवि चन्द्रताराबलान्विते ॥
पुण्ये तिथौ मुहूर्ते च लग्ने सौम्यग्रहेक्षिते
स्नातः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः ॥
मधुसर्पिर्दधिक्षीर तिलैः संपूज्य बालिकाः
कपिलागोमयालिप्ते हिरण्यकलशावृते ॥
यवसिद्धार्थकास्तीर्णे गन्धमाल्योपशोभिते
तत्रेष्टिकाभिः रचिते करपीठे सुरेश्वरि ॥
शिलापट्टं समुत्कीर्य शिलापट्टार्गलं प्रिये
न्यासं रसाङ्कुशेनैव कृत्वाङ्गुलिहृदादिषु ॥
रसलिङ्गं न्यसेत्तत्र हेम्ना च सहितं प्रिये
ओं ह्रीं श्रीं सूतराजस्य मूलमन्त्र उदाहृतः ॥
तस्मिन् रसाङ्कुशीं देवीं मूलेनावाहयेत्प्रिये
चतुरस्रे तु दिक्पालान् पूजयित्वा बहिः क्रमात् ॥
नन्दिनं च महाकालं भृङ्गिरीटं महाबलम्
कुम्भकर्णं च सुग्रीवं भृङ्गीकं च दृढायुधम् ॥
द्वारे चतुर्धा विन्यस्य पूजयेद्दक्षवामयोः
शुक्रं पूर्वे ऽभिसंपूज्य स्कन्दमाग्नेयगोचरे ॥
दक्षिणस्यां ततो रुद्रं पवनं नैरृते तथा
शिवं पश्चिमभागे तु पावकं वायवे न्यसेत्
उमामुत्तरभागे तु व्यापकं चेशगोचरे ॥
लेपिका क्षेपिका चैव क्षारिका रञ्जिका तथा
लोहटी बन्धकारी च भूचरी मृत्युनाशिनी ॥
विभूतिः खेचरी चैव दश दूत्यः क्रमेण च
पूज्यास्त्वष्टदले पद्मे ऊर्ध्वाधस्तु दलेषु च ॥
माक्षिको विमलः शैलश् चपलो रसकस्तथा
सस्यको गन्धतालौ च पूर्वादिक्रमयोगतः ॥
अष्टादशभुजा रुद्राः पञ्चवक्त्रास् त्र्यम्बकाः
चन्द्रार्धशोभिमुकुटा नीलग्रीवा वृषध्वजाः ॥
स्वस्ववर्णधराः सर्वे ऽप्यष्टविद्येश्वरास्तथा
पूजनीया महेशानि द्वितीये ऽष्टदलाम्बुजे ॥
कर्णिकायां तु पूर्वादि पूर्वं शक्तिचतुष्टयम्
मालिनी हेमशक्तिश्च परा शक्तिर्बला स्मृता
अपरा वज्रशक्तिश्च कान्तिज्ञेयं परापरम् ॥
मध्ये तासां च शक्तीनां सर्वज्ञं रसभैरवम्
शुद्धस्फटिकसंकाशं पञ्चवक्त्रं त्र्यम्बकम् ॥
ज्वलत्पिङ्गोग्रनेत्रं च ज्वलज्जिह्वाननं तथा
ज्वलद्भ्रुवं ज्वलत्केशं दुष्प्रेक्ष्यं प्रेतविष्टरम् ॥
जटामुकुटसंयुक्तं चन्द्रार्धकृतशिखरम्
व्याघ्रचर्मधरं नागो पवीतं वृषभध्वजम् ॥
अष्टादशभुजं देवम् ईषत्प्रहसिताननम्
द्वात्रिंशार्णेन मनुना पूजयेत् सकलं शिवम् ॥
रसेश्वरस्य मन्त्रं च कथ्यमानं निबोध मे ॥
तस्योत्सङ्गे महादेवीं रत्नाभरणभूषणाम्
उत्तप्तहेमरुचिरां पीतवस्त्रां त्रिलोचनाम् ॥
श्वेतचामरयोर्मध्ये मुक्ताच्छत्त्रेण शोभिताम्
अङ्कुशं चाक्षमालां च दधतीं दक्षहस्तयोः ॥
पाशाभये च वामाभ्यां चन्द्रार्धकृतशेखराम्
रसाङ्कुशीं महादेवीं नीलग्रीवां कृपामयीम् ॥
पूजयेद्रससिद्ध्यर्थं विद्यया पञ्चबीजया
वाग्भवं भुवनेशीं च श्रीबीजं च सुरेश्वरि ॥
मादनं शक्तिबीजं च विद्या परमदुर्लभा
धूपदीपैस्तु नैवेद्यैः पुष्पताम्बूलचन्दनैः ॥
शान्तिपाठस्य निर्घोषैः स्तोत्रमङ्गलनिस्वनैः
घण्टाटङ्कारसंयुक्तैः पूजां कृत्वा यथाविधि ॥
अघोरेण बलिं दद्यात् सर्वविघ्नोपशान्तये
भूतेभ्यो यक्षरक्षभ्यो पिशाचेभ्यश्च यत्नतः ॥
अघोरमन्त्रसंयुक्तम् ओंकारादिनमो ऽन्तकम्
सर्वकर्माकरं देवि विघ्नोपद्रवनाशनम् ॥
यथाशक्ति जपित्वा तु विद्यामेव रसाङ्कुशीम्
कुण्डं विधाय देवेशि योनिचक्रं समेखलम् ॥
तत्राज्यतिलसंयुक्तं होमं कृत्वा क्रमेण तु
कलशं स्थापयेद्देवि पयःपूर्णं फलान्वितम् ॥
पञ्चरत्नसमोपेतं वासोभिः परिवेष्टितम्
तत्राष्टादशविद्याभिर् अभिमन्त्र्य पृथक् पृथक् ॥
गन्धपुष्पादिभिः पूर्णं पल्लवैर् उपशोभितम्
अर्घ्यपात्रं च संपूज्य वर्धन्याभ्युक्ष्य साधकम् ॥
शतमष्टोत्तरं चैवम् अर्घ्यपात्रोदकेन तु
अभिषिच्य विधानेन कुम्भतोयेन मन्त्रवित् ॥
विद्यामुपदिशेद्देवि पाठयेद्रससाधकम्
कुमारोयोगिनीयोगि साधकांश्च यथोचितैः ॥
तर्पयेदन्नपानैश्च जागरं तत्र कारयेत्
एवंविहितदीक्षस्तु साधकः क्षुरनायिके ॥
महाभूतमयीं तत्र वर्णपञ्चकसंयुताम्
पञ्चबीजात्मिकां विद्यां प्राणायामात्मसूत्रके ॥
मुद्रां रसाङ्कुशीं बद्ध्वा लक्षमेकं जपेत्प्रिये
तस्य सिध्यति देवेशि निर्विघ्नं रसभैरवः ॥
प्रणवादिनमो ऽन्तस्तु तर्पणान्ते जपः परः
अहिंसा चन्दनं सत्यं पुष्पम् अस्तेयधूपनम् ॥
ब्रह्मचर्यं महादीपम् अप्रतिग्रहघण्टिकाम्
पायसान्नं महेशानि सर्वभूतदयात्मकम् ॥
संगूह्याराधयेद् देवीं स भवेत्सिद्धिभाजनम्
सहस्रं वा शतं वापि त्रिसंध्यं संजपेदिमाम् ॥
अस्या आज्ञाप्रसादेन जायते खेचरो रसः
दिव्यौषध्यश्च तस्यैव सिध्यन्ति सुरवन्दिते ॥
अनङ्कुशं समारुह्य वने मत्तगजं यथा
तथा रसाङ्कुशाभिज्ञो रसेन्द्रं प्राप्य सीदति ॥
विद्यया सह मन्तव्यं गुरोः सत्सम्प्रदायिनः
रसप्रयोगजातं तु सर्वतः सिद्धिमिच्छता ॥
अथ प्रश्नावताराय पूर्वोक्तं रसभैरवम्
समाहितमना ध्यायेत् तदालीनं समाचरेत् ॥
अनाहते ब्रह्मरन्ध्रे मनः कृत्वा निरामये
करन्यासं पुरा कृत्वा अङ्गन्यासमनन्तरम्
यथाशक्ति जपेन्मन्त्रं रसेन्द्रस्य समाहितः ॥
चतुष्कोणं पुनः कृत्वा मध्ये षट्कोणमण्डलम्
हस्तमात्रं द्विहस्तं वा तण्डुलैर्विमलैर्लिखेत् ॥
सुगन्धैर्लेपिते स्थाने पूजयेच्चन्दनादिभिः ॥
कर्णिकायां न्यसेद्देवि पूर्वोक्तं रसभैरवम्
षट्कोणे देवताषट्कं महाकालादि विन्यसेत् ॥
महाकालं महाबलम् अघोरं वज्रवीरकम्
न्यसेत् क्रोधं च कङ्कालं मालामन्त्रैः समर्चयेत् ॥
एवं न्यासाक्षरः कुटैः गन्धपुष्पैः समर्चयेत्
पूर्णकुम्भं न्यसेन्मध्ये शरावं तण्डुलैः सह ॥
तस्योपरि घृतदीपं वर्तीं मन्त्रैश्च मन्त्रयेत् ॥
समानीय कुमारीं तु कुमारं वा सुशोभनम्
एकद्वित्रिचतुःपञ्च यथालाभं समानयेत्
गन्धपुष्पैर्धूपदीपैः नैवेद्येन च पूजयेत् ॥
एकैकस्या न्यसेन्मन्त्रं हृदयाद्याश्च देवताः ॥
ततो निरीक्ष्य तद्दीपं सर्वास्तत्र कुमारिकाः
पश्यन्ति देवता दीपे कुमाराश्च शुभाशुभम्
सिद्धिं वाप्यथवासिद्धिं कथयन्ति कुमारिकाः ॥
प्रश्नावतारं ज्ञात्वेति रसकर्मणि संचरेत् ॥
यः पुरा देवदेवेशि रसेन्द्रे भावितात्मवान्
सप्तजन्म मृतो जातो न त्यजेद् रसभावनम् ॥
एवं शुभाशुभं ज्ञात्वा देवतानुग्रहान्वितः
मण्डपे पूर्ववद्देवीम् अर्चयित्वा रसाङ्कुशीम् ॥
आचार्यमपि संपूज्य धूपस्रक्चन्दनादिभिः
अघोरेण बलिं दत्त्वा ततः कर्म समाचरेत् ॥
ओषध्यो मण्डपे प्राच्यां रसस्वेदो ऽग्निगोचरे
दक्षिणस्यां लोहमारो नैरृत्यां पेषणादिकम् ॥
द्रुतिक्रिया तु वारुण्यां वायव्ये धमनं प्रिये
वर्णोत्कर्षस्तु कौबेर्याम् ऐशान्यां रसवेधनम् ॥
आसनं तु गुरोर्मध्ये निवेश्य सुरनायिके
नियामनादिकं कर्म क्रामणान्तं वरानने
रसाङ्कुशेन मन्त्रेण कर्तव्यं साधकेन तु ॥
यः पुरा देवदेवेशि वर्णितो रसभैरवः
सद्योजातं तस्य जानु वामदेवं तु गुह्यकम् ॥
अघोरं हृदयं तस्य वक्त्रं तत्पुरुषं स्मृतम्
यावद् भ्रूमध्यम् ईशानम् अर्धचन्द्रं ललाटकम् ॥
बिन्दुर् देवेशि तस्योर्ध्वे बिन्दोरूर्ध्वे स्थितो नदः
ललाटशिरसोर्मध्ये शक्तिस्तत्रैव संस्थिता ॥
व्यापिनी ब्रह्मरन्ध्रस्था तस्योर्ध्वे तून्मना भवेत्
उन्मना उन्मनीभावम् उन्मनापदमव्ययम् ॥
तस्योर्ध्वे परमं सत्यं व्योमस्थायि परात्परम्
शून्यं शून्यं पुनः शून्यं त्रिशून्यं च निरामयम् ॥
नभश्च गगनं व्योम खमाकाशं च केवलम्
निष्कलं निर्मलं नित्यं निस्तरङ्गं निरामयम् ॥
निष्प्रपञ्चं निराधारं निर्गुणं गुणगोचरम्
एवंरूपं सदा ध्यायेत् स्वदेहे रसभैरवम् ॥
यदा च निश्चलं ध्यायेत् यदा च निश्चलं मनः
वह्निमध्ये तदा सूतो बध्यते निश्चलस्तथा ॥
यदा च चलति ध्यानं रसो वह्नौ न तिष्ठति ॥
मण्डलस्य बहिः रात्रौ सुरामत्स्यामिषादिभिः
अर्चयेद् यक्षगन्धर्वान् पिशाचान् राक्षसांस्तथा ॥
क्रियाकरणविघ्नाश्च फलविघ्नाश्च कोटिशः
सम्भवन्ति तथा तत्तच् छान्त्यै च वटुकेश्वरम्
अर्चानुग्रहषट्कं च सम्पूज्यादौ समाचरेत् ॥
कर्मान्ते च पुनर्बालम् अष्टाष्टकमनुग्रहम्
सम्पूज्य विनियुञ्ज्यात् तत् सिद्धद्रव्यं तु सिद्धिदम् ॥
सिद्धस्तु नाशयेद्वादं तद्देशं तु परित्यजेत्
भ्रमेन्माधुकरीं भिक्षां सुसिद्धे तु महारसे ॥
प्रमादादुत्थितो विघ्नो रसबन्धे कृते सति
रसशान्तिर्विधातव्या रसक्षोभं न कारयेत् ॥
रसं न दर्शयेद्देवि नारीहस्ते न पातयेत्
नार्यै गुह्यं न वक्तव्यं द्रव्यं ताभ्यो हि गोपयेत् ॥
परद्रव्यैर् न कर्तव्यं परदारान्न संस्पृशेत्
परान्नं नैव भुञ्जीत परांश्चैव न विश्वसेत् ॥
न देयं दुष्टबुद्धीनां गोष्ठीरूपेण याचके ॥
अष्टम्यां पौर्णमास्यां च अमावास्यां युगादिषु
अयने विषुवे चैव चतुर्दश्यां विशेषतः
रसोत्सवं प्रकुर्वीत यथावित्तानुसारतः ॥
एवं रसोत्सवं देवि यः कुर्याद्भक्तिसंयुतः
ब्रह्महत्यादिपापानि नश्यन्ति विविधानि च ॥
अनेन विधिना यत्र पूजां कुर्वन्ति साधकाः
न तत्र रोगदौर्गत्यं नेतयः प्रभवन्ति च ॥
एवंविधां रसे पूजां प्रतिष्ठाप्य यथाविधि
पश्चात्कर्म विधातव्यम् आत्मनः शुभमिच्छताम् ॥
अन्यथा कुरुते यस्तु तस्य सिद्धिर्न जायते
अपायः पापशङ्का च बुद्धिभङ्गो हि जायते ॥
अवज्ञा रोगजातं च संदेहश्च पदे पदे
आलस्याद्गुरुलोभाच्च परस्य कथनेन च
उत्पन्नमपि विज्ञानं हरन्ति कुलकाः प्रिये ॥
दीक्षितो रसकर्माणि मन्त्रन्यासविदाचरेत्
तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुम् इच्छसि ॥
मूल पाठ: Rasārṇava, 1-12 · Edition: Praphulla Chandra Ray Calcutta : Asiatic Society 1908-1910 (Bibliotheca Indica, 175) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0