भाषा

ENहिગુ
ग्रंथ पाठ

रसार्णव · अध्याय 1

1.1

यस्मिन् सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः
यश्च सर्वमयो नित्यं तस्मै सर्वात्मने नमः ॥

1.2

कैलासशिखरे रम्ये नानारत्नविभूषिते
नानाद्रुमलताकीर्णे गुप्तसम्बन्धवर्जिते ॥

1.3

देवदेवं सुखासीनं नीलकण्ठं त्रिलोचनम्
प्रणम्य शिरसा देवी पार्वती परिपृच्छति ॥

1.4

देवदेव महादेव काल कामाङ्गदाहक
कुलकौलमहाकौल सिद्धकौलादिनाशन ॥

1.5

त्वत्प्रसादाच्छ्रुतं सर्वम् अशेषमवधारितम्
यदि ते ऽहम् अनुग्राह्या यद्यहं तव वल्लभा ॥

1.6

सूचिता सर्वतन्त्रेषु या पुनर्न प्रकाशिता
जीवन्मुक्तिरियं नाथ कीदृशी वक्तुमर्हसि ॥

1.7

साधु साधु महाभागे साधु पर्वतनन्दिनि
साधु पृष्टं त्वया देवि भक्तानां हितकाम्यया ॥

1.8

अजरामरदेहस्य शिवतादात्म्यवेदनम्
जीवन्मुक्तिर्महादेवि देवानामपि दुर्लभा ॥

1.9

पिण्डपाते च यो मोक्षः स च मोक्षो निरर्थकः
पिण्डे तु पतिते देवि गर्दभो ऽपि विमुच्यते ॥

1.10

यदि मुक्तिर्भगक्षोभे किं न मुञ्चन्ति गर्दभाः
अजाश्च वृषभाश्चैव किंन मुक्ता गणाम्बिके ॥

1.11

तस्मात् संरक्षयेत् पिण्डं रसैश्चैव रसायनैः
शुक्रमूत्रपुरीषाणां यदि मुक्तिर्निषेवणात् ॥

1.12

किंन मुक्ता महादेवि श्वानशूकरजातयः
षड्दर्शने ऽपि मुक्तिस्तु दर्शिता पिण्डपातने ॥

1.13

करामलकवत् सापि प्रत्यक्षं नोपलभ्यते
अकथ्यमपि देवेशि सद्भावं कथयामि ते ॥

1.14

शून्यपापो मन्त्रयाजी न पिण्डं धारयेत् क्वचित्
देवानामपि देवेशि दुर्लभं पिण्डधारणम् ॥

1.15

किं पुनर्मानुषाणां तु धरणीतलवासिनाम्
धर्मे नष्टे कुतो धर्मः धर्मे नष्टे कुतः क्रिया ॥

1.16

क्रियानष्टे कुतो योगः योगे नष्टे कुतो गतिः
गतिनष्टे कुतो मोक्षो मोक्षे नष्टे न किंचन ॥

1.17

जीवन्मुक्तिस्वरूपं तु देवदेव श्रुतं मया
तत्प्रत्युपायं मे ब्रूहि यद्यस्ति करुणा मयि ॥

1.18

कर्मयोगेन देवेशि प्राप्यते पिण्डधारणम्
रसश्च पवनश्चेति कर्मयोगो द्विधा मतः ॥

1.19

मूर्छितो हरति व्याधिं मृतो जीवयति स्वयम्
बद्धः खेचरतां कुर्यात् रसो वायुश्च भैरवि ॥

1.20

ज्ञानान्मोक्षः सुरेशानि ज्ञानं पवनधारणात्
तत्र देवि स्थिरं पिण्डं यत्र स्थैर्ये रसः प्रभुः ॥

1.21

अचिराज्जायते देवि शरीरम् अजरामरम्
मनसश्च यथा ध्यानं रसयोगादवाप्यते ॥

1.22

सत्यं स लभते देवि ज्ञानं विज्ञानपूर्वकम्
तस्य मन्त्राश्च सिध्यन्ति यो ऽश्नाति मृतसूतकम् ॥

1.23

यावन्न शक्तिपातस्तु न यावत् पाशकृन्तनम्
तावत्तस्य कुतो बुद्धिः जायते मृतसूतके ॥

1.24

मद्यमांसरता नित्यं भगलिङ्गेषु ये रताः
तेषां विनष्टबुद्धीनां रसज्ञानं सुदुर्लभम् ॥

1.25

कुलशासनहीनानां सद्दर्शनम् अकाङ्क्षिणाम्
न सिध्यति रसो देवि पिबन्ति मृगतृष्णिकाम् ॥

1.26

गोमांसं भक्षयेद्यस्तु पिबेदमरवारुणीम्
कुलीनं तमहं मन्ये रसज्ञमपरे ऽधमाः ॥

1.27

न गर्भः सम्प्रदायार्थे रसो गर्भो विधीयते
तेनायं लभते सिद्धिं न सिद्धिः सूतकं विना ॥

1.28

यावन्न हरबीजं तु भक्षयेत् पारदं रसम्
तावत्तस्य कुतो मुक्तिः कुतः पिण्डस्य धारणम् ॥

1.29

मद्यमांसरताप्रज्ञा मोहिताः शिवमायया
जल्पन्ति च वयं मुक्ता यास्यामः शिवमन्दिरम् ॥

1.30

पिण्डधारणयोगे च निस्पृहा मन्दबुद्धयः
खण्डज्ञानेन देवेशि रञ्जितं सचराचरम् ॥

1.31

स्वदेहे खेचरत्वं च शिवत्वं येन लभ्यते
तादृशे तु रसज्ञाने नित्याभ्यासं कुरु प्रिये ॥

1.32

अवतारं रसेन्द्रस्य माहात्म्यं तु सुरेश्वर
श्रोतुमिच्छामि देवेश वक्तुमर्हसि तत्त्वतः ॥

1.33

साधु पृष्टं महाभागे गुह्याद्गुह्यतरं त्वया
अनुग्रहकरं ध्यानं लोकानामुपकारकम् ॥

1.34

त्वं माता सर्वभूतानां पिता चाहं सनातनः
द्वयोश्च यो रसो देवि महामैथुनसम्भवः ॥

1.35

स्वैरतः सम्भवाद्देवि पारदः कीर्तितो महः
पारदो गदितो यश्च परार्थं साधकोत्तमैः ॥

1.36

सूतो ऽयं मत्समो देवि मम प्रत्यङ्गसम्भवः
मम देहरसो यस्मात् रसस्तेनायमुच्यते ॥

1.37

दर्शनात् स्पर्शनात् तस्य भक्षणात् स्मरणादपि
पूजनाच्च प्रदानाच्च दृश्यते षड्विधं फलम् ॥

1.38

केदारादीनि लिङ्गानि पृथिव्या यानि कानि च
तानि दृष्ट्वा तु यत्पुण्यं तत्पुण्यं रसदर्शनात् ॥

1.39

चन्दनागुरुकर्पूर कुङ्कुमान्तर्गतो रसः
मूर्छितः शिवपूजायां शिवसांनिध्यसिद्धये ॥

1.40

भक्षणात् परमेशानि हन्ति पापत्रयं रसः
तथा तापत्रयं हन्ति रोगान् दोषत्रयोद्भवान् ॥

1.41

दुर्लभं ब्रह्मनिष्णातैः प्राप्यते परमं पदम्
हृद्व्योमकर्णिकान्तःस्थ रसेन्द्रस्य महेश्वरि ॥

1.42

स्मरणान्मुच्यते पापैः सद्यो जन्मान्तरार्जितैः ॥

1.43

स्वयंभूलिङ्गसाहस्रैः यत्फलं सम्यगर्चनात्
तत्फलं कोटिगुणितं रसलिङ्गार्चनाद्भवेत् ॥

1.44

अधमः खगवादस्तु विलवादस्तु मध्यमः
उत्तमो मन्त्रवादस्तु रसवादो महोत्तमः ॥

1.45

मन्त्रतन्त्रपरिज्ञाने रसयोगस्य दूषकाः
प्रयान्ति नरकं सर्वे छित्त्वा सुकृतसंचयम् ॥

1.46

रसविद्या परा विद्या त्रैलोक्ये ऽपि सुदुर्लभा
भुक्तिमुक्तिकरी यस्मात् तस्माद्देया गुणान्वितैः ॥

1.47

अस्तीति भाषते कश्चित् कश्चिन्नास्तीति भाषते
आस्तिके तु भवेत्सिद्धिः तस्य सिध्यति भूतले ॥

1.48

नास्तिकेनानुभावेन नास्ति नास्तीति यो वदेत्
तस्य नास्ति प्रिये सिद्धिर् जन्मकोटिशतैरपि ॥

1.49

ब्रह्मज्ञानेन मुक्तो ऽसौ पापी यो रसनिन्दकः
नाहं त्राता भवे तस्य जन्मकोटिशतैरपि ॥

1.50

श्वानो ऽयं जायते देवि यावत् जन्मसहस्रकम्
त्रिकोटिजन्मलक्षाणि मार्जारो जायते रसात्
रासभो लक्षजन्मानि लक्षजन्मानि वायसः ॥

1.51

कृमिको लक्षजन्मानि कुक्कुटो जन्मलक्षकम्
गृध्रको लक्षजन्मानि यः पापी रसनिन्दकः ॥

1.52

आलापं गात्रसंस्पर्शं यः कुर्याद् रसनिन्दकैः
यावज्जन्मसहस्रं तु स भवेद्दुःखपीडितः ॥

1.53

रसवीर्यविपाके च सूतकस्त्वमृतोपमः
तेन जन्मजराव्याधीन् हरते सूतकः प्रिये ॥

1.54

गुरुमाराधयेत् पूर्वं विशुद्धेनान्तरात्मना
सम्प्रदायं प्रयच्छन्ति गुरौ तुष्टे मरीचयः ॥

1.55

गुरुसेवां विना कर्म यः कुर्यान् मूढचेतनः
स याति निष्फलं कर्म स्वप्नलब्धं धनं यथा ॥

1.56

यः कर्म कुरुते दृष्टं तस्य लाभः पदे पदे
कारयेद् रसवादं तु तुष्टेन गुरुणा प्रिये ॥

1.57

सिद्ध्युपायोपदेशो ऽयम् उभयोर्भोगमोक्षदः
रसार्णवं महातन्त्रम् इदं परमदुर्लभम् ॥

1.58

गोप्यं गुरुप्रसादेन लब्धं स्यात् फलसिद्धये
लब्ध्वात्र रसकर्माणि नाहंकारं समाचरेत् ॥

1.59

अनुज्ञातश्च गुरुणा लब्ध्वा चाज्ञां रसाङ्कुशीम्
भैरवीं तनुम् आश्रित्य साधयेद्रसभैरवम् ॥

1.60

एवमुक्ता रसोत्पत्तिः माहात्म्यं च सुरेश्वरि
तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमिच्छसि ॥

मूल पाठ: Rasārṇava, 1-12 · Edition: Praphulla Chandra Ray Calcutta : Asiatic Society 1908-1910 (Bibliotheca Indica, 175) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc