Rasaratnasamuccaya · अध्याय 8
कथ्यते सोमदेवेन मुग्धवैद्यप्रबुद्धये ।
परिभाषा रसेन्द्रस्य शास्त्रैः सिद्धैश्च भाषिता
अर्धं सिद्धरसस्य तैलघृतयोर्लेहस्य भागो ऽष्टमः संसिद्धाखिललोहचूर्णवटकादीनां तथा सप्तमः ।
यो दीयेत भिषग्वराय गदिभिर्निर्दिश्य धन्वन्तरिम् सर्वारोग्यसुखाप्तये निगदितो भागः स धन्वन्तरेः
भैषज्यक्रीणितद्रव्यभागो ऽप्य् एकादशो हि यः ।
वणिग्भ्यो गृह्यते वैद्यै रुद्रभागः स उच्यते
प्रगृह्याधिकरुद्रांशं यो ऽसमीचीनम् औषधम् ।
दापयेल्लुब्धधीर् वैद्यः स स्याद् विश्वासघातकः
धातुभिर् गन्धकाद्यैश्च निर्द्रवैर् मर्दितो रसः ।
सुश्लक्ष्णः कज्जलाभो ऽसौ कज्जलीत्यभिधीयते
सद्रवा मर्दिता सैव रसपङ्क इति स्मृता
अर्कांशतुल्याद् रसतो ऽथ गन्धान् निष्कार्धतुल्यात् त्रुटिशो ऽभिखल्ले ।
अर्कातपे तीव्रतरे विमर्द्यात् पिष्टी भवेत् सा नवनीतरूपा
खल्ले विमर्द्य गन्धेन दुग्धेन सह पारदम् ।
पेषणात् पिष्टतां याति सा पिष्टीति मता परैः
चतुर्थांशसुवर्णेन रसेन घृष्टिषष्टिका ।
भवेत् पातनपिष्टी सा रसस्योत्तमसिद्धिदा
रूप्यं वा जातरूपं वा रसगन्धादिभिर्हतम् ।
समुत्थितं च बहुशः सा कृष्टी हेमतारयोः
पिष्टीं क्षिपेत् सुवर्णातर्न वर्णो हीयते तया
स्वर्णकृष्ट्या कृतं बीजं रसस्य परिरञ्जनम्
ताम्रं तीक्ष्णसमायुक्तं द्रुतं निक्षिप्य भूरिशः ।
सगन्धलकुचद्रावे निर्गतं वरलोहकम्
तेन रक्तीकृतं स्वर्णं हेमरक्तीत्युदाहृतम्
निक्षिप्ता सा द्रुते स्वर्णे वर्णोत्कर्षविधायिनी ।
तारस्य रञ्जनी चापि बीजरागविधायिनी
एवमेव प्रकर्तव्या ताररक्ती मनोहरा ।
रञ्जनी खलु रूप्यस्य बीजानामपि रञ्जनी
मृतेन वा बद्धरसेन वान्यल्लोहेन वा साधितमन्यलोहम् ।
सितं च पीतत्वमुपागतं तद्दलं हि चन्द्रानलयोः प्रसिद्धम्
मासकृतबद्धेन रसेन सह योजितम् ।
साधितं वान्यलोहेन सितं पीतं च तद्दलम्
माक्षिकेण हतं ताम्रं दशवारं समुत्थितम् ।
तद्वद्विशुद्धनागं हि द्वितयं तच्चतुष्पलम्
नीलाञ्जनहतं भूयः सप्तवारं समुत्थितम् ।
इति संसिद्धमेतद्धि शुल्वनागं प्रकीर्त्यते
साधितस्तेन सूतेन्द्रो वदने विधृतो नृणाम् ।
निहन्ति मासमात्रेण मेहव्यूहं विशेषतः
पथ्याशनस्य वर्षेण पलितवलिभिः सह ।
गृध्रदृष्टिर्लसत्पुष्टिः सर्वारोग्यसमन्वितः
लोहं लोहान्तरे क्षिप्तं ध्मातं निर्वापितं द्रवे ।
पाण्डुपीतप्रभं जातं पिञ्जरीत्यभिधीयते
भागाः षोडश तारस्य तथा द्वादश भास्वतः ।
एकत्रावर्तितास्तेन चन्द्रार्कमिति कथ्यते
साध्यलोहे ऽन्यलोहं चेत्प्रक्षिप्तं वङ्कनालतः ।
निर्वापणं तु तत्प्रोक्तं वैद्यैर्निर्वाहणं खलु
क्षिपेन्निर्वापणं द्रव्यं निर्वाह्ये समभागिकम् ।
आवाह्य वापनीये च भागे दृष्टे च दृष्टवत्
मृतं तरति यत्तोये लोहं वारितरं हि तत्
अङ्गुष्ठतर्जनीघृष्टं यत् तद् रेखान्तरे विशेत् ।
मृतलोहं तदुद्दिष्टं रेखापूर्वाभिधानतः
गुडगुञ्जासुखस्पर्शं मध्वाज्यैः सह योजितम् ।
नायाति प्रकृतिं ध्माताद् अपुनर्भवम् उच्यते
तस्योपरि गुरु द्रव्यं धान्यं चोपनयेद्ध्रुवम् ।
हंसवत् तीर्यते वारिण्युत्तमं परिकीर्तितम्
रौप्येण सह संयुक्तं ध्मातं रौप्येण चेल् लगेत् ।
तदा निरुत्थमित्युक्तं लोहं तद् अपुनर्भवम्
निर्वापणविशेषेण तत्तद्वर्णं भवेद्यदा ।
मृदुलं चित्रसंस्कारं तद्बीजमिति कथ्यते
इदमेव विनिर्दिष्टं वैद्यैरुत्तरणं खलु ।
संस्पृष्टलोहयोरेकलोहस्य परिनाशनम्
प्रध्मातं वङ्कनालेन तत्ताडनमुदाहृतम्
चूर्णाभ्रं शालिसंयुक्तं वस्त्रबद्धं हि काञ्जिके ।
निर्यातं मर्दनाद्वस्त्राद्धान्याभ्रमिति कथ्यते
क्षाराम्लद्रावकैर्युक्तं ध्मातमाकरकोष्ठके ।
यस्ततो निर्गतः सारः सत्त्वमित्यभिधीयते
कोष्ठिका शिखरापूर्णैः कोकिलैर् ध्मानयोगतः ।
आकण्ठमनुप्राप्यैर् एककोलीसको मतः
द्रावणे सत्त्वपाते च माधुकाः खादिराः शुभाः ।
दुर्द्रावे वंशजास्ते तु स्वेदने बादराः शुभाः
विद्याधराख्ययन्त्रस्थाद् आर्द्रकद्रावमर्दितात् ।
समाकृष्टो रसो यो ऽसौ हिङ्गुलाकृष्ट उच्यते
स्वल्पतालयुतं कांस्यं वङ्कनालेन ताडितम् ।
मुक्तरङ्गं हि तत्ताम्रं घोषाकृष्टम् उदाहृतम्
तीक्ष्णनीलाञ्जनोपेतं ध्मातं हि बहुशो दृढम् ।
कृष्णं द्रुतद्रावं वरनागं तदुच्यते
मृतस्य पुनरुद्भूतिः सम्प्रोक्तोत्थापनाख्यया
द्रुतद्रवस्य निक्षेपो द्रवे तद् ढालनं मतम्
त्रिंशत्पलमितं नागं भानुदुग्धेन मर्दितम् ।
विमर्द्य पुटयेत्तावद्यावत्कर्षावशेषितम्
न तत्पुटसहस्रेण क्षयमायाति सर्वथा ।
चपलो ऽयं समादिष्टो वार्त्तिकैर् नागसम्भवः
इत्थं हि चपलः कार्यो वङ्गस्यापि न संशयः
तत्स्पृष्टहस्तसंस्पृष्टः केवलो बध्यते रसः
स रसो धातुवादेषु शस्यते न रसायने ।
अयं हि खर्वणाख्येन लोकनाथेन कीर्तितः
भूभुजंगशकृत्तोयैः प्रक्षाल्यापहृतं रजः ।
कृष्णवर्णं हि तत्प्रोक्तं धौताख्यं रसवादिभिः
द्रव्ययोर्मर्दनाध्मानाद् द्वंद्वानं परिकीर्तितम्
भागाद्याधिके क्षेपम् अनुवर्णसुवर्णके ।
द्रवैर्वा वह्निकाग्रासो भञ्जनी वादिभिर्मता
पतङ्गीकल्कतो जाता लोहे तारे च हेमता ।
दिनानि कतिचित्स्थित्वा यात्यसौ चुल्लका मता
रञ्जिताद्धि चिराल्लोहाद्ध्मानाद्वा चिरकालतः ।
विनिर्यासः स निर्दिष्टः पतङ्गीरागसंज्ञकः
द्रव्यान्तरक्षेपो लोहाद्ये क्रियते हि यः ।
स आवापः प्रतीवापस् तदेवाच्छादनं मतम्
वह्निस्थिते लोहे विरम्याष्टनिमेषकम् ।
सलिलस्य परिक्षेपः सो ऽभिषेक इति स्मृतः
तप्तस्याप्सु विनिक्षेपो निर्वापः स्नपनं च तत्
प्रतीवापादिकं कार्यं द्रुते लोहे सुनिर्मले
यदा हुताशो दीप्तार्चिः शुल्कोत्थानसमन्वितः ।
शुद्धावर्तस् तदा ज्ञेयः स कालः सत्त्वनिर्गमे
द्राव्यद्रव्यनिभा ज्वाला दृश्यते धमने यदा ।
द्रावस्योन्मुखता सेयं बीजावर्तः स उच्यते
वह्निस्थम् एव शीतं यत्तदुक्तं स्वाङ्गशीतलम्
अग्नेराकृष्य शीतं यत्तद्बहिः शीतमुच्यते
क्षाराम्लैर् औषधैर्वापि दोलायन्त्रे स्थितस्य हि ।
पचनं स्वेदनाख्यं स्यान्मलशैथिल्यकारकम्
उदितैरौषधैः सार्धं सर्वाम्लैः काञ्जिकैरपि ।
पेषणं मर्दनाख्यं स्याद्बहिर्मलविनाशनम्
मर्दनादिष्टभैषज्यैर् नष्टपिष्टत्वकारकम् ।
तन्मूर्छनं हि वङ्गाहिभुजकञ्चुकनाशनम्
स्वेदातपादियोगेन स्वरूपापादनं हि यत् ।
तदुत्थापनम् इत्युक्तं मूर्छाव्यापत्तिनाशनम्
स्वरूपस्य विनाशेन पिष्टत्वाद् बन्धनं हि तत् ।
विद्वद्भिर्निर्जितः सूतो नष्टपिष्टिः स उच्यते
उक्तौषधैर्मर्दितपारदस्य यन्त्रस्थितस्योर्ध्वम् अधश् च तिर्यक् ।
निर्यातनं पातनसंज्ञम् उक्तं वङ्गाहिसम्पर्कजकञ्चुकघ्नम्
जलसैन्धवयुक्तस्य रसस्य दिवसत्रयम् ।
स्थितिर् आस्थापनी कुम्भे यासौ रोधनमुच्यते
रोधनाल्लब्धवीर्यस्य चपलत्वनिवृत्तये ।
क्रियते पारदे स्वेदः प्रोक्तं नियमनं हि तत्
धातुपाषाणमूलाद्यैः संयुक्तो घटमध्यगः ।
ग्रासार्थं त्रिदिनं स्वेदो दीपनं तन्मतं बुधैः
इयन्मानस्य सूतस्य भोज्यद्रव्यात्मिका मितिः ।
इयतीत्युच्यते यासौ ग्रासमानं समीरितम्
ग्रासस्य चारणं गर्भे द्रावणं जारणं तथा ।
इति त्रिरूपा निर्दिष्टा जारणा वरवार्त्तिकैः
ग्रासः पिण्डः परिणामस्तिस्रश्चाख्याः परा पुनः
समुखा निर्मुखा चेति जारणा द्विविधा पुनः
निर्मुखा जारणा प्रोक्ता बीजादानेन भागतः
शुद्धं स्वर्णं च रूप्यं च बीजम् इत्यभिधीयते
चतुःषष्ट्यंशतो बीजप्रक्षेपो मुखमुच्यते
एवं कृते रसो ग्रासलोलुपो मुखवान् भवेत् ।
कठिनान्यपि लोहानि क्षमो भवति भक्षितुम् ।
इयं हि समुखा प्रोक्ता जारणा मृगचारिणा
दिव्यौषधिसमायोगात् स्थितः प्रकटकोष्ठीषु ।
भुंजीताखिललोहाद्यं यो ऽसौ राक्षसवक्त्रवान्
रसस्य जठरे ग्रासक्षपणं चारणा मता
ग्रस्तस्य द्रावणं गर्भे गर्भद्रुतिर् उदाहृता
बहिरेवं द्रुतिं कृत्वा घनसत्त्वादिकं खलु ।
जारणाय रसेन्द्रस्य सा बाह्यद्रुतिर् उच्यते
निर्लेपत्वं द्रुतत्वं च तेजस्त्वं लघुता तथा ।
असंयोगश्च सूतेन पञ्चधा द्रुतिलक्षणम्
औषधाध्मानयोगेन लोहधात्वादिकं तथा ।
संतिष्ठते द्रवाकारं सा द्रुतिः परिकीर्तिता
द्रुतग्रासपरीणामो विडयन्त्रादियोगतः ।
जारणेत्युच्यते तस्याः प्रकाराः सन्ति कोटिशः
क्षारैरम्लैश्च गन्धाद्यैर् मूत्रैश्च पटुभिस् तथा ।
रसग्रासस्य जीर्णार्थं तद्विडं परिकीर्तितम्
सुसिद्धबीजधात्वादि जारणेन रसस्य हि ।
पीतादिरागजननं रञ्जनं परिकीर्तितम्
सूते सतैलयन्त्रस्थे स्वर्णादिक्षेपणं हि यत् ।
वेधाधिक्यकरं लोहे सारणा सा प्रकीर्त्तिता
व्यवायिभेषजोपेतो द्रव्ये क्षिप्तो रसः खलु ।
वेध इत्युच्यते तज्ज्ञैः स चानेकविधः स्मृतः
लेपः क्षेपश्च कुन्तश्च धूमाख्यः शब्दसंज्ञकः
लेपनं कुरुते लोहं स्वर्णं वा रजतं तथा ।
लेपवेधः स विज्ञेयः पुटमत्र च सौरकम्
प्रक्षेपणं द्रुते लोहे वेधः स्यात्क्षेपसंज्ञितः
संदंशधृतसूतेन द्रुतद्रव्याहृतिश्च या ।
सुवर्णत्वादिकरणं कुन्तवेधः स उच्यते
वह्नौ धूमायमाने ऽन्तः प्रक्षिप्तरसधूमतः ।
स्वर्णाद्यापादनं लोहे वेधः स उच्यते
मुखस्थितरसेनाल्पलोहस्य धमनात्खलु ।
स्वर्णरूप्यत्वजननं शब्दवेधः स कीर्तितः
सिद्धद्रव्यस्य सूतेन कालुष्यादिनिवारणम् ।
प्रकाशनं च वर्णस्य तदुद्घाटनम् ईरितम्
क्षाराम्लैरौषधैः सार्द्धं भाण्डं रुद्ध्वाऽतियत्नतः ।
भूमौ निखन्यते यत्नात्स्वेदनं संप्रकीर्तितम्
रसस्यौषधयुक्तस्य भाण्डरुद्धस्य यत्नतः ।
मन्दाग्नियुतचुल्ल्यन्तः क्षेपः संन्यास उच्यते
द्वावेतौ स्वेदसंन्यासौ रसराजस्य निश्चितम् ।
गुणप्रभावजनकौ शीघ्रव्याप्तिकरौ तथा
रसनिगममहाब्धेः सोमदेवः समन्तात् स्फुटतरपरिभाषानामरत्नानि हृत्वा ।
व्यरचयदतियत्नात्तैरिमां कण्ठमालां कलयतु भिषगग्र्यो मण्डनार्थं सभायाम्
भवेत्पठितवारो ऽयमध्यायो रसवादिनाम् ।
रसकर्माणि कुर्वाणो न स मुह्यति कुत्रचित्
मूल पाठ: Rasaratnasamuccaya · Edition: Krsnaravasarman Vinayaka Bapata, Poona 1890. (Anandasrama Sanskrit Series edition, vol. 19) · Data entry Wieslaw Mical Somadeva Vasudeva Anne Glazier Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0