भाषा

ENहिગુ
ग्रंथ पाठ

Rasaratnasamuccaya · अध्याय 7

7.1

रसशालां प्रकुर्वीत सर्वबाधाविवर्जिते ।
सर्वौषधिमये देशे रम्ये कूपसमन्विते

7.2

यक्षत्र्यक्षसहस्राक्षदिग्विभागे सुशोभने ।
नानोपकरणोपेतां प्राकारेण सुशोभिताम्

7.3

शालायाः पूर्वदिग्भागे स्थापयेद् रसभैरवम् ।
वह्निकर्माणि चाग्नेये याम्ये पाषाणकर्म च

7.4

नैरृत्ये शस्त्रकर्माणि वारुणे क्षालनादिकम् ।
शोषणं वायुकोणे च वेधकर्मोत्तरे तथा ।
स्थापनं सिद्धवस्तूनां प्रकुर्याद् ईशकोणके

7.5

पदार्थसंग्रहः कार्यो रससाधनहेतुकः ।
सत्त्वपातनकोष्ठीं च झरत्कोष्ठीं सुशोभनाम्

7.6

भूमिकोष्ठीं चलत्कोष्ठीं जलद्रोण्यो ऽप्यनेकशः ।
भस्त्रिकायुगलं तद्वन्नलिके वंशलोहयोः

7.7

स्वर्णायोघोषशुल्वाश्मकुण्ड्यश् चर्मकृतां तथा ।
करणानि विचित्राणि द्रव्याण्यपि समाहरेत्

7.8

कण्डणीपेषणीस्वल्पाद्रोणीरूपाश्च वर्तुलाः ।
आयसास्तप्तखल्लाश्च मर्दकाश्च तथाविधाः

7.9

सूक्ष्मच्छिद्रसहस्राढ्या द्रव्यगालनहेतवे ।
चालनी च कटत्राणि शलाका हि च कुण्डली

7.10

चालनी त्रिविधा प्रोक्ता तत्स्वरूपं च कथ्यते ।
वैणवीभिः शलाकाभिर्निर्मिता ग्रथिता गुणैः ।
कीर्तिता सा सदा स्थूलद्रव्याणां गालने हिता

7.11

चूर्णचालनहेतोश्च चालन्यन्यापि वंशजा

7.12

कर्णिकारस्य शाल्मल्या हरिजातस्य कम्बया ।
चतुरङ्गुलविस्तारयुक्तया निर्मिता शुभा

7.13

कुण्डल्यरत्निविस्तारा छागचर्माभिवेष्टिता ।
वाजिवालाम्बरानद्धतला चालनिका परा ।
तया प्रचालनं कुर्याद्धर्तुं सूक्ष्मतरं रजः

7.14

मूषामृत्तुषकार्पासवनोपलकपिष्टकम् ।
त्रिविधं भेषजं धातुजीवमूलमयं तथा ।
शिखित्रा गोवरं चैव शर्करा च सितोपला

7.15

शिखित्राः पावकोच्छिष्टा अङ्गाराः कोकिला मताः

7.16

कोकिलाश् चेतिताङ्गारा निर्वाणाः पयसा विना

7.17

पिष्टकं छगणं छाणम् उपलं चोत्पलं तथा ।
गिरिण्डोपलसाठी च संशुष्कच्छगणाभिधाः

7.18

काचायोमृद्वराटानां कूपिका चषकानि च

7.19

कूपिका कुपिका सिद्धा गोला चैव गिरिण्डिका

7.20

चषकं च कटोरी च वाटिका खारिका तथा ।
कञ्चोली ग्राहिका चेति नामान्येकार्थकानि हि

7.21

शूर्पादिवेणुपात्राणि क्षुद्रशिप्राश्च शङ्खिकाः ।
क्षुरप्राश्च तथा पाक्यः यच्चान्यत्तत्र युज्यते ।
पालिका कर्णिका चैव शाकच्छेदनशस्त्रकाः

7.22

शालासम्मार्जनाद्यं हि रसपाकान्तकर्म यत् ।
तत्रोपयोगि यच्चान्यत्तत्सर्वं परविद्यया

7.23

श्रीरसाङ्कुशया सर्वं मन्त्रयित्वा समर्चयेत् ।
अन्यथा तद्गतं तेजः परिगृह्णन्ति भैरवाः

7.24

रससंचिन्तका वैद्या निघण्टुज्ञाश्च वार्त्तिकाः ।
सर्वदेशजभाषाज्ञाः संग्राह्यास्ते ऽपि साधकैः

7.25

रसपाकावसानं हि सदाघोरं च जापयेत्

7.26

सोद्यमाः शुचयः शूरा बलिष्ठाः परिचारकाः

7.27

धर्मिष्ठः सत्यवाग्विद्वान् शिवकेशवपूजकः ।
सदयः पद्महस्तश्च संयोज्यो रसवैद्यके

7.28

पताकाकुम्भपाथोजमत्स्यचापाङ्कपाणिकः ।
अनामाधस्थरेखाङ्कः स स्यादमृतहस्तवान्

7.29

अदेशिकः कृपामुक्तो लुब्धो गुरुविवर्जितः ।
कृष्णरेखाकरो वैद्यो दग्धहस्तः स उच्यते

7.30

निग्रहमन्त्रज्ञास्ते योज्या निधिसाधने

7.31

बलिष्ठाः सत्यवन्तश्च रक्ताक्षाः कृष्णविग्रहाः ।
भूतत्रासनविद्याश्च ते योज्या बलिसाधने

7.32

निर्लोभाः सत्यवक्तारो देवब्राह्मणपूजकाः ।
यमिनः पथ्यभोक्तारो योजनीया रसायने

7.33

धनवन्तो वदान्याश्च सर्वोपस्करसंयुताः ।
गुरुवाक्यरता नित्यं धातुवादेषु ते शुभाः

7.34

तत्तदौषधनामज्ञाः शुचयो वञ्चनोज्झिताः ।
नानाविषयभाषाज्ञास्ते मता भेषजाहृतौ

7.35

शुचीनां सत्यवाक्यानामास्तिकानां मनस्विनाम् ।
संदेहोज्झितचित्तानां रसः सिध्यति सर्वदा

7.36

दशाष्टक्रियया सिद्धो रसो ऽसौ साधकोत्तमः ।
हा रसो नष्टमित्युक्त्वा सेवेतान्यत्र तं रसम्

7.37

रससिद्धो भवेन्मर्त्यो दाता भोक्ता न याचकः ।
जरामुक्तो जगत्पूज्यो दिव्यकान्तिः सदा सुखी

मूल पाठ: Rasaratnasamuccaya · Edition: Krsnaravasarman Vinayaka Bapata, Poona 1890. (Anandasrama Sanskrit Series edition, vol. 19) · Data entry Wieslaw Mical Somadeva Vasudeva Anne Glazier Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc