भाषा

ENहिગુ
ग्रंथ पाठ

रसरत्नाकर · अध्याय 3.3

3.3.1

र्रा, 3, 3
षट्काष्टकं ह्यष्टकमष्टकं च शोध्यं विमर्द्यं च यथोदितं तत् ।
वज्रादिलोहान्तकमुक्तपूर्वं तद्वक्ष्यते सूतवरस्य सिद्ध्यै

3.3.2

{वज्र:: सुब्त्य्पेस्}
श्वेता रक्ताः पीतकृष्णा द्विजाद्या वज्रजातयः ।
पुंस्त्रीनपुंसकाश् चेति लक्षणेन तु लक्षयेत्

3.3.3

{पुंवज्र:: परीक्षा}
वृत्ताः फलकसम्पूर्णास् तेजस्वन्तो बृहत्तराः ।
पुरुषास्ते समाख्याता रेखाबिन्दुविवर्जिताः

3.3.4

{स्त्रीवज्र:: परीक्षा}
रेखाबिन्दुसमायुक्ताः षडस्रास्ताः स्त्रियः स्मृताः ।
{नपुंसक:: परीक्षा}
त्रिकोणं पत्त्रदेहं यद्दीर्घं यत्स्यान्नपुंसकम्

3.3.5

सर्वेषां पुरुषाः श्रेष्ठा वेधका रसबन्धकाः ।
स्त्रीवज्रा देहसिद्ध्यर्थं क्रामकं स्यान्नपुंसकम्

3.3.6

{दिव्यौषधि}
अजामारी काकमाची देवदालीन्द्रवारुणी ।
काकजङ्घा शिखिशिखा सर्पाक्षी नागवल्लिका

3.3.7

मीनाक्षी कृष्णधत्तूरो बला नागवल्ली जया ।
मुण्डी महाबला पूगी त्रिविधं चित्रकं निशा

3.3.8

मूर्वा काञ्चाननं कन्या पेटारी सूर्यवर्तकः ।
विष्णुक्रान्ता कारवल्ली वाकुची सिन्दुवारिका

3.3.9

स्वर्णपुष्पी खण्डजारी मञ्जिष्ठा पीलुकं वचा ।
स्नुही रक्तस्नुही बिल्वं कार्पासः कंगुणी घना

3.3.10

पलाशाङ्कोलविजया मेघनादार्कसर्षपाः ।
ब्रह्मदण्डी महाराष्ट्री श्वेता रक्ता पुनर्नवा

3.3.11

उदुम्बरसोमलता कुम्भी पुष्करमूलकम् ।
तिलपर्णी कृष्णजीरा वृश्चिकाली च कालिका

3.3.12

करवीरोऽग्निदमनी बृहती भूमिपाटली ।
यवचिञ्ची चन्द्रलता मर्कटी वनराजकम्

3.3.13

बदरी लज्जरी लाक्षा चणा वर्तुलपत्रका ।
अपामार्गो भूकदम्बो विषमुष्ट्येकवीरकः

3.3.14

गोरम्भा कदली जाती मुसली सहदेविका ।
एरण्डः सैन्धवं पथ्या शुंठी मण्डूकपर्णिका

3.3.15

मरूवको हिंगु वालो लक्ष्मणा हस्तिमूलिका ।
क्षीरवृक्षाश्च ये सर्वे तथा नानाविधं विषम्

3.3.16

दिव्यौषधिगणः ख्यातो रसराजस्य साधने ।
व्यस्तं वाथ समस्तं वा यथालाभं नियोजयेत्

3.3.17

{विषवर्गः}
तीव्रगन्धरसस्पर्शैर्विविधैस्तु वनोद्भवैः ।
मर्दनात्स्वेदनात्सूतो म्रियते बध्यतेऽपि च

3.3.18

रक्तशृङ्गी कालकूटं हारिद्रं सक्तूकं तथा ।
मौस्तिकं विषवर्गः स्यात् मूषाकरणमुच्यते ।
{वज्रमूषा:: प्रोदुच्तिओन्}
तुषं वस्त्रं समं दग्धं तत्पादांशा च मृत्तिका ।
कूपीपाषाणपादं च वज्रवल्ल्या द्रवैर्दिनम्

3.3.19

मर्दयेत् कारयेन्मूषां वज्राख्यां रसबन्धकाम् ।
{वज्रमूषा (2)}
वल्मीकमृत्तिकाङ्गाराः पुराणं लोहकिट्टकम्

3.3.20

श्वेतपाषाणकं चैतत् सर्वं चूर्ण्यं समं समम् ।
सर्वतुल्यं तुषं दग्धं सर्वं तोयैश्च मर्दयेत्

3.3.21

मूषासंपुटकं कुर्यात् सन्धिं लिप्याच्च तेन वै ।
सर्वकार्यकरा एषा वज्रमूषा महाबला

3.3.22

{वज्रमूषा (3)}
गारा दग्धास्तुषा दग्धा दग्धा वल्मीकमृत्तिका ।
गजाश्वानां मलं दग्धं यावत्तत् कृष्णतां गतम्

3.3.23

पाषाणभेदीपत्राणि कृष्णा मृच् च समं समम् ।
वज्रवल्ल्या द्रवैर्मर्द्यं दिनं वा शोषयेद् दृढम्

3.3.24

तेन कोष्ठं वङ्कनालं वज्रमूषां च कारयेत् ।
वर्तुला गोस्तनाकारा वज्रमूषा प्रकीर्तिता

3.3.25

मूर्छने मारणे बन्धे द्वंद्वमेलापके हिता ।
सैव छिद्रान्विता मध्यगम्भीरा सारणोचिता

3.3.26

प्रकटा शरावकाकारा बीजनिर्वापणे हिता ।
{वज्र:: मारण}
सूतं धान्याभ्रकं तुल्यं दिनं पुनर्नवाद्रवैः ।
मर्दितं तप्तखल्वे तु वज्रमूषान्धितं पचेत्

3.3.27

चिञ्चाबीजं मेषशृंगी स्त्रीपुष्पं चाम्लवेतसम् ।
पञ्चाङ्गं शरपुङ्खायाः शशदन्ताः शिलाजतु

3.3.28

एतत्समस्तं व्यस्तं वा यथालाभं सुचूर्णयेत् ।
स्नुह्यर्कोन्मत्तवारुण्याः क्षीरैः स्तन्यैर्विमर्दयेत्

3.3.29

तद्गोलके क्षिपेद्वज्रं रुद्ध्वा मूषां धमेद् दृढम् ।
गुडूचीं सैन्धवं हिंगु समुस्तोत्तरवारुणीम्

3.3.30

क्वाथैः कौलत्थकैः पिष्ट्वा तस्मिन्द्रावे निषेचयेत् ।
तद्वज्रं पूर्ववद्गोले क्षिप्त्वा रुद्ध्वा धमेत्तथा

3.3.31

सेचनान्तं पुनः कुर्यादेकविंशतिवारकम् ।
तालमत्कुणयोगेन सप्तवारं पुनर्धमेत्

3.3.32

सेचयेदश्वमूत्रेण तद्वज्रं म्रियते ध्रुवम् ।
{वज्र:: मारण}
त्रिवर्षरूढकार्पासमूलमादाय पेषयेत्

3.3.33

त्रिवर्षनागवल्ल्या वा निजद्रावैः प्रपेषयेत् ।
तद्गोलके क्षिपेद्वज्रं रुद्ध्वा गजपुटे पचेत्

3.3.34

एवं सप्तपुटैः पक्व एकैकेन मृतो भवेत् ।
{वज्रमारणम् (6)}
तालकासीससौराष्ट्रयोर् ह्यपामार्गस्य भस्म च

3.3.35

पिष्ट्वा कौलत्थकैः क्वाथैस्तस्मिन्वज्रं सुतापितम् ।
क्षिप्त्वा त्रिसप्तवाराणि म्रियते नात्र संशयः

3.3.36

{वज्रमारणम् (7)}
वैक्रान्तभस्मना सार्धं पेषयेदम्लवेतसम् ।
तद्गोलके क्षिपेद्वज्रमन्धमूषागतं धमेत्

3.3.37

सेचयेदश्वमूत्रेण पूर्वगोले पुनः क्षिपेत् ।
रुद्ध्वा ध्मातं पुनः सेच्यमेवं कुर्यात्त्रिसप्तकम्

3.3.38

म्रियते नात्र सन्देहः सर्वकर्मसु योजयेत् ।
{वज्रमारणम् (8)}
उत्तरावारुणीक्षीरैः कान्तपाषाणजं मुखम्

3.3.39

क्षणं पिष्ट्वा तु तद्गोले वज्रं क्षिप्त्वा पचेदनु ।
नृतैले गन्धतैले वा म्रियते नात्र संशयः

3.3.40

{वज्रमारणम् (9)}
भूनागं गन्धकं वाथ नारीस्तन्येन पेषयेत् ।
तद्गोलस्य पचेद्वज्रं पूर्वतैले मृतं भवेत्

3.3.41

{वज्रमारणम् (10)}
स्नुहीक्षीरेण विमलां पिष्ट्वा तद्गोलके क्षिपेत् ।
वज्रं निरुध्य मूषां तां शुष्कां तीव्राग्निना धमेत्

3.3.42

तप्तमश्वस्य मूत्रे तु क्षिप्त्वा वज्रं समाहरेत् ।
इत्येवं सप्तधा कार्यं ततस्तालकमत्कुणाः

3.3.43

कृत्वा गोलं क्षिपेत्तस्मिन्वज्रमूषां निरुध्य च ।
धामितं पूर्ववत्सेच्यं सप्तवारैर्मृतं भवेत्

3.3.44

{वज्रमारणम् (11)}
वज्रं मत्कुणरक्तेषु क्षिप्त्वा लिप्त्वातपे क्षिपेत् ।
शुष्कं लेप्यं पुनः शोष्यं यावत् सप्तदिनावधि

3.3.45

विष्णुक्रान्तापेटकार्योर् द्रवैः सिञ्चेत् पुनः पुनः ।
तप्तं तप्तं तु तद्वज्रं शतवारान्मृतं भवेत्

3.3.46

{वज्रमारणम् (12)}
गन्धकं चूर्णितं भाव्यं स्त्रीपुष्पेण तु सप्तधा ।
पुनः स्त्रीरजसालोड्य तस्मिन्वज्रं सुतापितम्

3.3.47

सेचयेत्तापयेदेवं मृतं स्यात्तु त्रिसप्तधा ।
{वज्र:: मृदूकरण}
मातुलुङ्गगतं वज्रं रुद्ध्वा बाह्ये मृदा लिपेत् ।
पचेत् पुटे समुद्धृत्य तद्वच्छतपुटैः पचेत्

3.3.48

नागवल्ल्या द्रवैर् लिप्तं तत्पत्रेणैव वेष्टितम् ।
जानुमध्यस्थितं यामं तद्वज्रं मृदुतां व्रजेत्

3.3.49

{वज्रौदनं वज्रमृदूकरणम् (2)}
मातृवाहकजीवस्य मध्ये वज्रं विनिक्षिपेत् ।
जम्बीरोदरगं वाथ दोलायन्त्रे दिनं पचेत्

3.3.50

कुलत्थकोद्रवक्वाथैस् त्रैफले वा कषायके ।
अहोरात्रात् समुद्धृत्य जम्बीरे तु पुनः क्षिपेत्

3.3.51

मातृवाहकजीवे वा क्षिप्त्वा पक्त्वा च पूर्ववत् ।
पुनः क्षेप्यं पुनः पाच्यं त्रिदिनान्ते समुद्धरेत्

3.3.52

बदरीवटनिम्बानाम् अङ्कुराणि समाहरेत् ।
पिष्ट्वा तद्गोलके वज्रं पूर्वपक्वं विनिक्षिपेत्

3.3.53

अश्वत्थपत्रकैर् वेष्ट्यं तद्गोलं जानुमध्यगम् ।
दिनं वा धारयेत् कक्षे मृदुर्भवति निश्चितम्

3.3.54

{वज्रमृदूकरणम् (3)}
पारदं तीक्ष्णचूर्णं च दिनमम्लेन मर्दयेत् ।
तद्गोले निक्षिपेद्वज्रं सूत्रेणावेष्टयेद्बहिः

3.3.55

नागवल्लीद्रवैश्चैव वेष्टितं धान्यराशिगम् ।
मासान्ते तत्समुद्धृत्य नागवल्ल्या द्रवैर्लिपेत् ।
तद्दलैर्वेष्टितं जानुमध्यस्थं मृदुतां व्रजेत्

3.3.56

{वज्रमृदूकरणम् (4)}
कान्तपाषाणवज्रं वा चूर्णं वा कान्तलोहजम्

3.3.57

ससूतम् अम्लयोगेन दिनमेकं विमर्दयेत् ।
तद्गोले निक्षिपेद्वज्रं निम्बकार्पासकोलजैः

3.3.58

पत्रैः पिष्टैस्तु संवेष्ट्य नागवल्लीदलैस्ततः ।
वेष्ट्यं तज्जानुमध्यस्थं दिनान्ते मृदुतां व्रजेत्

3.3.59

{वर्जमृदूकरणम् (5)}
एरण्डवृक्षमध्ये तु तत्फले वा क्षिपेत्पविम् ।
मासमात्रात्समुद्धृत्य जानुमध्ये तु पूर्ववत्

3.3.60

कोमलं जायते वज्रं दिनान्ते नात्र संशयः ।
{वज्रमृदूकरणम् (6)}
वज्रं तित्तिरमांसेन वेष्टयेन्निक्षिपेन्मुखे

3.3.61

अतिस्थूलस्य भेकस्य मुखं सूत्रेण वेष्टयेत् ।
निखनेद्धस्तमात्रायां भूमौ मासात्समुद्धरेत्

3.3.62

मण्डूकसंपुटे रुद्ध्वा सम्यग्गजपुटे पचेत् ।
तद्वज्रं पूर्वगोलस्थं जानुमध्ये गतं दिनम्

3.3.63

भवेद्वज्रौदनं साक्षान्मार्यं पश्चाच्च योजयेत् ।
सर्ववज्रौदनानां तु मारणं पूर्ववद्भवेत्

3.3.64

{वैक्रान्तशोधनम्}
त्रिक्षारैः पञ्चलवणैर् वसामूत्राम्लकोद्रवैः ।
मत्स्यपित्तैस्तैलघृतैः कुलत्थैः काञ्जिकान्वितैः

3.3.65

सप्ताहं दोलकायन्त्रे व्याघ्रीकन्दगतं पचेत् ।
सप्तवर्णं तु वैक्रान्तं शुद्धिमायाति निश्चितम्

3.3.66

{उपरसानां शोधनम्}
जम्बीराणां द्रवे मग्नमातपे धारयेद्दिनम् ।
शुध्यन्ति टङ्कणं शंखो वराटाञ्जनगैरिकम् ।
कासीसं भूखगं चैव शुद्धं योगेषु योजयेत्

3.3.67

{गन्धकशुद्धिः (1)}
यामैकं गन्धकं मर्द्यं द्रवैर् निम्बाजगन्धयोः ।
शृङ्गीधत्तूरयोर्वाथ तिलपर्ण्याश्च वा द्रवैः ।
तदादाय घृतैस्तुल्यं लोहपात्रे क्षणं पचेत्

3.3.68

लघ्वग्निना द्रुतं तद्वै अजाक्षीरे विनिक्षिपेत् ।
इत्येवं सप्तधा कुर्याच्छुद्धिमायाति गन्धकम्

3.3.69

{गन्धकशोधनम् (2)}
करञ्जैरण्डतैलं च छागीदुग्धं च भाण्डके

3.3.70

क्षिप्त्वा तस्य मुखं रुद्ध्वा स्वच्छवस्त्रेण बुद्धिमान् ।
गन्धकं धूर्तजैर् द्रावैर्दिनं भाव्यं विशोषयेत्

3.3.71

तच्चूर्णं पूर्वभाण्डस्य वस्त्रोपरि निधारयेत् ।
आच्छाद्य च शरावेण पृष्ठे देयं पुटं लघु

3.3.72

द्रुतं गन्धं समादाय भाव्यं धत्तूरजैर्द्रवैः ।
तद्वद्द्राव्यं पुनर्भाव्यं द्रावयेच्च पुनस्ततः

3.3.73

आदाय मत्स्यपित्तेन सप्तधा भाव्यमातपे ।
ततः कोशातकीबीजचूर्णेन सह पेषयेत्

3.3.74

भावयेद्भृङ्गजैर्द्रावैः सप्ताहम् आतपे खरे ।
तोयेन क्षालितं शोष्यं ततो मृद्वग्निना क्षणम्

3.3.75

घृताक्ते लोहपात्रे तु द्रावितं ढालयेत्ततः ।
भृङ्गराजद्रवान्तस्थं सम्यक् शुद्धं भवेत्तु तत्

3.3.76

{गन्धतैल}
अथ शुद्धस्य गन्धस्य तैलपातनमुच्यते ।
अम्लपर्णी देवदाली दाडिमं मातुलुङ्गकम्

3.3.77

नारङ्गं वा यथालाभं द्रवमेकस्य चाहरेत् ।
गन्धकस्य तु पादांशं टङ्कणं द्रवसंयुतम्

3.3.78

एताभ्यां गन्धकं भाव्यं घर्मे वारत्रयं पुनः ।
धत्तूरस्तुलसी कृष्णा लशुनं देवदालिका

3.3.79

शिग्रुमूलं काकमाची कर्पूरं शङ्खपुष्पिका ।
कृष्णागुरु च कस्तूरी वन्ध्याकर्कोटकी समम्

3.3.80

मातुलुङ्गरसैः पिष्ट्वा क्षिपेदेरण्डतैलके ।
अनेन लोहपात्रस्थं भावयेत्पूर्वगन्धकम्

3.3.81

त्रिवारं क्षौद्रतुल्यं तज्जायते गन्धवर्जितम् ।
इदं गन्धकतैलं स्यात्तत्तद्योगेषु योजयेत्

3.3.82

{हरितालशुद्धिः (1)}
सचूर्णेणारनालेन दोलायन्त्रेण तालकम् ।
दिनं पक्वं विचूर्ण्याथ भाव्यं कूष्माण्डजैर्द्रवैः

3.3.83

शोष्यं पेष्यं पुनर्भाव्यं शतवारं विशुद्धये ।
{हरितालशुद्धिः (2)}
तालकं कणशः कृत्वा तालात् पादांशटङ्कणम्

3.3.84

द्वयं जम्बीरजैर् द्रावैः क्षालयेत्काञ्जिकैस्तथा ।
तच्छुष्कं पोटलीबद्धं सचूर्णे काञ्जिके पचेत्

3.3.85

द्विदिनं दोलकायन्त्रे तद्वत्कूष्माण्डजैर्द्रवैः ।
पाचितं शुद्धिमायाति तालं सर्वत्र योजयेत्

3.3.86

{विमलशुद्धिः}
सुवर्णवर्णं विमलं ताप्यं वा कणशः कृतम् ।
पुनर्नवायाः कल्कस्थं कौलत्थे स्वेदयेज्जले

3.3.87

सैन्धवैर्बीजपूराक्तैर्युक्तं वा पोटलीकृतम् ।
दोलायन्त्रे दिनं स्वेद्यं शुद्धिमायाति निश्चितम्

3.3.88

{रसकशुद्धिः}
रजस्वलारजोमूत्रै रसकं भावयेद्दिनम् ।
तैरेव दिनमेकं तु मर्दयेच्छुद्धिम् आप्नुयात्

3.3.89

{उपरस:: शोधन}
पुनर्नवामेघनादकपिजम्बीरतिन्दुकैः ।
अगस्तिपुष्पकुमुदयवचिञ्चाम्लवेतसैः

3.3.90

यवसूरणभूधात्रीमाण्डूकीकरवीरकैः ।
कारवल्लीक्षीरकन्दरक्तोत्पलशमीवनैः

3.3.91

मेषशृङ्ग्या चोष्ट्रवसाशक्रवारुणिटङ्कणैः ।
तैलमत्स्यवसाव्योषैर् द्रवैरेतैः सकाञ्जिकैः

3.3.92

एतैः समस्तैर्व्यस्तैर्वा दोलायन्त्रे दिनत्रयम् ।
अभ्रपत्राद्युपरसान् शुद्धिहेतोस्तु पाचयेत्

3.3.93

{उपरस:: शोधन}
सूर्यावर्तो वज्रकन्दः कदली देवदालिका ।
शिग्रुः कोशातकी वन्ध्या काकमाची च वालुकम्

3.3.94

आसामेकरसेनैव त्रिक्षारपटुपञ्चकम् ।
भावयेदम्लवर्गेण तीव्रघर्मे दिनावधि

3.3.95

एतत्कल्केन संलेप्यमभ्रकं वज्रमाक्षिकम् ।
वैक्रांतं सस्यकं तालं कान्तपाषाणम् अञ्जनम्

3.3.96

विमलां च शिलां तुत्थमन्यानुपरसांस्तथा ।
दोलायन्त्रे सारनाले पूर्वकल्कयुते पचेत् ।
तीव्रानले दिनैकेन शुद्धिमायान्ति तानि वै

3.3.97

{धान्याभ्रकरणम्}
शुद्धमभ्रं भिन्नपत्रं कृत्वा व्रीहियुते दृढे ।
वस्त्रे बद्ध्वा सारनाले भाण्डमध्ये विमर्दयेत्

3.3.98

हस्ताभ्यां स्वयमायाति यावदम्लान्तरे तु तत् ।
द्रवं त्यक्त्वा तु तच्छोष्यं दिनं धान्याभ्रकं भवेत्

3.3.99

{अभ्र:: मारण:: निश्चन्द्र}
एतद्धान्याभ्रकं मर्द्यं भानुदुग्धैर् दिनावधि ।
कृत्वा पूपं भानुपत्रैर्वेष्टितं पाचयेत्पुटे

3.3.100

इत्येवं दशधा पाच्यं दुग्धैर्भाव्यं पुनः पुनः ।
ततो वटजटाक्वाथैर्मर्द्यं दशपुटैः पचेत्

3.3.101

सघृतैर् महिषीक्षीरैर्मर्द्यं देयं पुटत्रयम् ।
निश्चन्द्रं जायते ह्यभ्रं योजनीयं रसायने

3.3.102

{अभ्रकभस्म (2)}
पुनर्नवाद्यौषधानि ख्यातानि ह्यभ्रशोधने

3.3.103

धान्याभ्रकं तु तैरेव त्रिदिनं तु पुटे पचेत् ।
पूर्ववत्क्रमयोगेन म्रियते पञ्चभिः पुटैः

3.3.104

{मेतल्स्:: शोधन}
तैले तक्रे गवां मूत्रे काञ्जिके रविदुग्धके ।
कुलत्थानां कषाये च जम्बीराणां द्रवे तथा

3.3.105

तप्त्वा तप्त्वा निषिञ्चेद् एकैकस्मिंस्तु सप्तधा ।
स्वर्णादिलोहपत्राणि शुद्धिमायान्ति निश्चितम्

3.3.106

{लेअद्, तिन्:: शोधन}
द्राविते नागवङ्गे च पचेत्तद्वद्विशुद्धये ।
{ब्रोन्zए, चोप्पेर्:: शोधन}
त्रिक्षारं पंचलवणं जम्बीराम्लेन सप्तधा

3.3.107

भावयेदातपे तीव्रे तत्कल्केन विलेप्य च ।
घोषारताम्रपत्राणां शुद्ध्यै गजपुटे पचेत्

3.3.108

{लेअद्:: मारण}
लोहपात्रे पचेन्नागं तुल्यं यावद्द्रुतं भवेत् ।
चाल्यं पलाशदण्डेन भस्मीभूतं समुद्धरेत्

3.3.109

भस्मतुल्यां शिलां तस्मिन्क्षिप्त्वा चाम्लेन केनचित् ।
पेषयेद्याममात्रं तु रुद्ध्वा गजपुटे पचेत्

3.3.110

स्वाङ्गशीतं पुनः पिष्ट्वा विंशत्यंशशिलायुतम् ।
अम्लेन याममात्रं च रुद्ध्वा पचेच्च पूर्ववत् ।
एवं षष्टिपुटैः पक्वो मृतो भवति पन्नगः

3.3.111

{इरोन् (गेन्.):: मारण}
नारीस्तन्येन सम्पिष्टं हिङ्गूलं पलपञ्चकम्

3.3.112

तेन लोहस्य पत्राणि लेपयेत् पलपञ्चकम् ।
रुद्ध्वा गजपुटे पच्यात् कषायैस्त्रैफलैः पुनः

3.3.113

जम्बीरैर् आरनालैर्वा विंशांशदरदेन च ।
पिष्ट्वा रुद्ध्वा पुटेल्लोहं तद्वत्पाच्यं पुनः पुनः

3.3.114

चत्वारिंशत्पुटैरेव तीक्ष्णं कान्तं च मुण्डकम् ।
म्रियते नात्र संदेहो दत्त्वा दत्त्वैव हिङ्गुलम्

3.3.115

{वङ्गभस्म}
लोहपात्रे द्रुते वङ्गे पादांशं तालकं क्षिपेत् ।
चाल्यम् अश्वत्थदण्डेन जातं भस्म समुद्धरेत्

3.3.116

तद्भस्म हरितालं तु तुल्यमम्लेन मर्दयेत् ।
पलाशकद्रवैर्वाथ यामान्ते चोद्धृतं पुटेत्

3.3.117

उद्धृत्य दशमांशेन तालेन सह मर्दयेत् ।
पूर्वद्रावैस्तु यामैकं रुद्ध्वा गजपुटे पचेत् ।
चत्वारिंशत्पुटैरेवं पक्वं स्यान्मृतवङ्गकम्

3.3.118

{चोप्पेर्:: मारण}
कण्टवेधीकृतं ताम्रपत्रं तुल्यांशगन्धकैः

3.3.119

अम्लपिष्टैः प्रलिप्याथ रुद्ध्वा गजपुटे पचेत् ।
उद्धृत्य चूर्णयेत्तस्मिन् पादांशं गन्धकं क्षिपेत्

3.3.120

जम्बीरैरारनालैर्वा पिष्ट्वा रुद्ध्वा पुटेत् पुनः ।
एवं चतुःपुटैः पच्याद्गन्धो देयः पुटे पुटे

3.3.121

मातुलुङ्गद्रवैरेवं पुटमेकं प्रदापयेत् ।
सितशर्करया पञ्चपुटं देयं मृतं भवेत्

3.3.122

{सिल्वेर्:: मारण}
माक्षिकेनाम्लपिष्टेन तत्तुल्यं तारपत्रकम् ।
लिप्त्वा रुद्ध्वा पुटे पक्त्वा समुद्धृत्य विचूर्णयेत्

3.3.123

कणामाक्षिकसिन्धूत्थभूधात्र्यश्च समं समम् ।
पूर्वचूर्णेन तुल्यांशमिदमम्लेन मर्दयेत्

3.3.124

रुद्ध्वा गजपुटे पच्यात्तैरेव मर्दयेत्पुटेत् ।
एवं सप्तपुटैः पक्वं तारं भस्मत्वमाप्नुयात्

3.3.125

{गोल्द्:: मारण}
मृतं नागं स्नुहीक्षीरैरथवाम्लेन केनचित् ।
पिष्ट्वा तेन समांशेन स्वर्णपत्राणि लेपयेत्

3.3.126

रुद्ध्वा गजपुटे पक्त्वा समुद्धृत्य विचूर्णयेत् ।
तस्मिन्नेवं मृतं नागमष्टमांशेन लेपयेत्

3.3.127

यामैकं मर्दयेद् अम्लै रुद्ध्वा गजपुटे पचेत् ।
एवमष्टपुटैः पक्वं मृतं भवति हाटकम् ।
{ब्रस्स्, ब्रोन्zए:: मारण}
आरे घोषे प्रकर्तव्यं ताम्रवन्मारणं परम्

3.3.128

विविधपरमयोगैर् युक्तिर्युक्तैः प्रसिद्धैरनुभवपथदृष्टैः शोधनं मारणं च ।
पविबलिगगनानां सर्वलोहे विशेषाद् गदितमिह हितार्थं वार्तिकानां विभूत्यै

मूल पाठ: Rasaratnākara · Edition: Vaidya Jadavji Tricumji Acarya Benares : Caukhamba Sanskrit Office, 1939 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc