रसरत्नाकर · अध्याय 3.2
र्रा, 3, 2
भक्त्या शास्त्रविचारणादनुदिनं पूजाविधेः पालनात् स्वात्मानन्दनिमज्जनात् परहितात् कार्यक्रियागोपनात् ।
नित्यं सद्गुरुसेवनाद् अनुभवात् सूतस्य सद्भावनाद् दास्यन्ते निजरश्मयो वरबलात् सत्सम्प्रदायात्स्फुटम्
रसादिलोहपर्यन्तं शोधने मारणे हितम् ।
भावनायां क्वचिच् चैव नानावर्गो निगद्यते
{देfऔल्त् वलुएस्}
अङ्गे नोक्ते भवेन्मूलं द्रवः सर्वाङ्गतो भवेत् ।
अमात्रायां समा मात्रा विज्ञेया रसकर्मणि
{क्षारवर्ग}
तिलापामार्गकदलीचित्रकार्द्रकमूलकम् ।
शिग्रुमोक्षपलाशं च सर्वमन्तःपुटे दहेत्
समालोड्य जलैर्वस्त्रैर्बद्ध्वा ग्राह्यमधोजलम् ।
शोधयेत् पाचयेदग्नौ मृद्भाण्डेन तु तज्जलम्
ग्राह्यं क्षारावशेषं तद् वृक्षक्षारमिदं स्मृतम् ।
{श्वेतवर्ग, शुक्लवर्ग}
चुन्नं कूर्पं शङ्खशुक्तिवराटैः शुक्लवर्गकः
{विड्वर्ग}
कपोतचाषगृध्राणां शिखिकुक्कुटयोश्च विट् ।
{अम्लवर्ग}
चाङ्गेरी चणकाम्लं तु मातुलुङ्गाम्लवेतसम्
चिञ्चानारङ्गजम्बीरमम्लवर्ग इति स्मृतः ।
{लवणपञ्चक}
सामुद्रं सैन्धवं काचं चुल्लिका च सुवर्चलम्
चूलिकानवसारः स्याद् एतल्लवणपञ्चकम् ।
{त्रिक्षार}
सज्जीक्षारं यवक्षारं टङ्कणं च तृतीयकम्
{मूत्रवर्ग}
क्षारत्रयमिदं ख्यातम् अजाश्वमहिषीगवाम् ।
नारीमेषीखरोष्ट्राणां मूत्रवर्गो गजस्य च
{मित्रपञ्चक}
मध्वाज्यटङ्कणं गुञ्जा गुडः स्यान् मित्रपञ्चकम् ।
{पित्तवर्ग}
नराश्वशिखिगोमत्स्यपित्तानि पित्तवर्गके
{वसावर्ग}
मत्स्याहिनरमेषीणां शिखिनां च वसा मता ।
{रक्तवर्ग}
मञ्जिष्ठा कुङ्कुमं लाक्षा दाडिमं रक्तचन्दनम्
बन्धूकं करवीरं च रक्तवर्गो ह्ययं भवेत् ।
{पीतवर्ग}
कुसुम्भं किंशुकं रात्रिः पतंगं मदयन्तिका
पीतवर्गो ह्ययं ख्यातो दिव्यौषधिगणं शृणु ।
{दिव्यौषधिगण}
अजकर्णी शङ्खपुष्पी रुदन्ती काकतुण्डिका
हंसपादी व्याघ्रनखी चाण्डाली क्षीरकन्दकः ।
वन्ध्याकर्कोटकी रम्भा गोजिह्वा कोकिलाक्षकः
शाकवृक्षो हेमवल्ली पातालगरुडी शमी ।
कटुतुम्बी वज्रलता सूरणं वनसूरणम्
मेषशृङ्गी चक्रमर्दो जलकुम्भी शतावरी ।
गुञ्जा कोशातकी नीली आखुकर्णी त्रिपर्णिका
कुक्कुटी कृष्णतुलसी पुङ्खा श्वेतापराजिता ।
गरुडी लाङ्गली ब्राह्मी चाङ्गेरी पद्मचारिणी
{वज्रशोधनम् (1)}
गृहीत्वाथ शुभं वज्रं व्याघ्रीकन्दोदरे क्षिपेत् ।
महिषीविष्ठया लिप्त्वा तुलाग्नौ च पुटे पचेत्
अहोरात्रात्समुद्धृत्य हयमूत्रैर्निषेचयेत् ।
व्याघ्रीकन्दे पुनः क्षिप्त्वा वज्रकंदोदरे क्षिपेत् ।
हयमूत्रैर् निषिञ्च्याच्च पुटेत्सिञ्च्याच्च पूर्ववत्
एवं सप्तदिनैः शुद्धं वज्रं स्यान्नात्र संशयः ।
{वज्रशोधनम् (2)}
कुलत्थकोद्रवक्वाथहयमूत्रस्नुहीपयः
क्षिप्त्वा भाण्डे क्षिपेत्तस्मिन् व्याघ्रीकन्दगतं पविम् ।
दोलायंत्रे दिवारात्रौ समुद्धृत्य पुनः क्षिपेत्
व्याघ्रीकन्दं महाकन्दे क्षिप्त्वा गजपुटे पचेत् ।
तत्पक्वं काञ्चनीद्रावैः सेचयेच्छुद्धिमाप्नुयात् ।
{वज्रशोधनम् (3)}
आखुकर्णी मेघनादः प्रियङ्गुर्मेषशृङ्गिका ।
अम्लवेतसनिर्गुण्डीकुलत्थकोद्रवाः शमी
मुनिश्च हयमूत्रेण कषायं कारयेच्छुभम् ।
जम्बीरे सूरणे वाथ क्षिप्त्वा वज्रं दिनं पचेत्
पूर्वक्वाथेन दोलायां शुद्धिमाप्नोति नान्यथा ।
{वज्र:: मारण}
शुद्धं वज्रं मत्कुणानां रक्तैर्लिप्त्वा धमेत्तु तत्
अग्निवर्णं क्षिपेन्मूत्रे गर्दभोत्थे पुनः पुनः ।
लेपितं धामितं तद्वदेवं कुर्यात् त्रिसप्तधा
{वज्र:: मारण}
तालकं मत्कुणैः पिष्ट्वा गोले तस्मिन्क्षिपेत्तु तत् ।
रुद्ध्वा मूषां धमेद् दार्ढ्यात् हयमूत्रे विनिक्षिपेत्
समुद्धृत्य पुनस्तद्वत् सप्तवारान्मृतो भवेत् ।
{वज्रमारणम् (3)}
मेषशृंगी भुजगास्थि कूर्मपृष्ठं शिलाजतु
गन्धकं कान्तपाषाणं मुनिपुष्पं सतालकम् ।
त्रिक्षारं पंचलवणं मेषशृङ्गीन्द्रवारुणी
वज्रवल्ली मूषकर्णी बदरीकुड्मलानि च ।
मूषकस्य मलं स्तन्यं स्नुह्यर्कक्षीरमत्कुणाः
पञ्चाङ्गां शरपुङ्खां च हस्तिनीरं नृछागयोः ।
पेटारीबीजं स्त्रीपुष्पं पारावतमलं शिलाम्
पुष्पाणि चैव वाकुच्याः पञ्चाङ्गं निम्बकस्य च ।
धात्रीवृक्षस्य पञ्चाङ्गं गोरम्भा चाजमूत्रकम्
हंसपादी वज्रकन्दं बृहतीफलसूरणे ।
गोजिह्वा कर्कटं मांसं मूत्रवर्गं च मिश्रयेत्
एतत्समस्तं व्यस्तं वा यथालाभं सुपिण्डितम् ।
तत्पिण्डे निक्षिपेद्वज्रमन्धमूषागतं पुटेत्
कुलत्थं कोद्रवं पिष्ट्वा हयमूत्रैर्विलोडयेत् ।
तन्मध्ये सेचयेत्तप्तां मूषां पुटविनिर्गताम्
एवं पुनः पुनः कुर्यादेकविंशतिवारकम् ।
आदाय पूर्वजं वज्रताले मत्कुणपेषिते
गोलके निक्षिपेद्रुद्ध्वा मूषां तीव्रानले धमेत् ।
इत्येवं सप्तधा धाम्यं हयमूत्रैर् निषेचयेत्
अनेन क्रमयोगेन मृतं भवति निश्चितम् ।
तं मृतं चूर्णयेत्खल्वे सिद्धयोग उदाहृतः
{मेर्चुर्य्:: शोधन}
भ्रामकस्य मुखं ताप्यं पेटारीबीजटङ्कणे ।
क्षारं चोत्तरवारुण्या गन्धकं तालकं शमी
भूधरस्थं पुटैकेन समुद्धृत्य विमर्दयेत् ।
पूर्ववत्पूर्वजैर्द्रावैस्तद्वद् रुद्ध्वा च पाचयेत्
पुनर्मर्द्यं पुनः पाच्यं दशवारं च पूर्ववत् ।
पातयेत्पातनायंत्रे सम्यक् शुद्धो भवेद्रसः
{मेर्चुर्य्:: शोधन}
रसस्य दशमांशं तु गन्धं दत्त्वा विमर्दयेत् ।
जम्बीरोत्थैर्द्रवैर्यामं पात्यं पातनयन्त्रके
पुनर्मर्द्यं पुनः पात्यं सप्तवारं विशुद्धये ।
{मेर्चुर्य्:: शोधन}
अथवा पारदं मर्द्यं तप्तखल्वे दिनावधि ।
कुमारीरजनीचुन्नैः पात्यं पातनयन्त्रके
कन्याग्नित्रिफलाभिश्च पुनर्मर्द्यं च पातयेत् ।
पुनर्मर्द्यं पुनः पात्यं सप्तवारं विशुद्धये ।
इत्येवं सप्तधा कुर्यात् सम्यक् शुद्धो भवेद्रसः
{मेर्चुर्य्:: मर्दन:: अप्प्लिचतिओन्}
युक्तं सर्वस्य सूतस्य तप्तखल्वे विमर्दनम् ।
शोधने चारणे चैव जारणे च विशेषतः ।
मूर्छने मारणे चैव बन्धने च प्रशस्यते
{तप्तखल्व}
अजाशकृत्तुषाग्निं च भूगर्ते त्रितयं क्षिपेत् ।
तस्योपरि स्थितं खल्वं तप्तखल्वमिदं भवेत्
खल्वं लोहमयं शस्तं मर्दकं चैव लोहजम् ।
तदभावे शिलोत्थं वा योग्यं खल्वं च मर्दकम्
{मेर्चुर्य्:: हिङ्गुलाकृष्ट}
अथवा हिंगुलात् सूतं ग्राहयेत्तन्निगद्यते ।
गोमूत्रैर् माहिषैर् मूत्रैस्तिलतैलसुराम्लकैः
सप्ताहं हिंगुलं पाच्यं लोहपात्रे क्रमाग्निना ।
चालयेल्लोहदण्डेन द्रावं दत्त्वा पुनः पुनः
सद्रवं तं समादाय शिखिपित्तेन भावयेत् ।
दिनान्ते पातनायन्त्रे पातयेच्चण्डवह्निना
सप्तकञ्चुकनिर्मुक्तः ख्यातोऽयं शुद्धसूतकः
कन्याभिस्त्रिफलाभिश्च पुनर्मर्द्यं च पातयेत् ।
इत्येवं सप्तधा कुर्यात् सम्यक् शुद्धो भवेद् रसः
{मेर्चुर्य्:: हिङ्गुलाकृष्ट}
दिनैकं हिङ्गुलं खल्वे मर्द्यमम्लेन केनचित् ।
पातयेत् पातनायंत्रे दिनान्ते तत्समुद्धरेत् ।
विना कर्माष्टकेनैव सूतोऽयं सर्वकार्यकृत्
सर्वसिद्धमतमेतदीरितं सूतशुद्धिकरमद्भुतं परम् ।
अल्पकर्मविधिभूरिसिद्धिदं देहलोहकरणे हि शस्यते
मूल पाठ: Rasaratnākara · Edition: Vaidya Jadavji Tricumji Acarya Benares : Caukhamba Sanskrit Office, 1939 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0