भाषा

ENहिગુ
ग्रंथ पाठ

रसरत्नाकर · अध्याय 2.3

2.3.1

र्रा, 2, 3
दिव्ययोगगुटिकारसायनं क्रामणेन रहितं न सिध्यति ।
शीघ्रसिद्धिकरमेव सेव्यतां क्रामणार्थम् अनुपानमत्र वै

2.3.2

काकतुम्बी काकमाची निर्गुण्डी च कुमारिका ।
गोजिह्वा सैन्धवं गुञ्जा ह्य् आर्द्रकं च समं समम्

2.3.3

पिष्ट्वा तेन प्रलेप्तव्या मूषा सर्वाङ्गुलावधि ।
पारदं व्योमसत्त्वं च कान्तं तीक्ष्णं च मुण्डकम्

2.3.4

ताप्यसत्त्वं च तुल्यांशं सर्वं संचूर्ण्य मर्दयेत् ।
दिनं जम्बीरजैर्द्रावैस्तन्मूषायां विनिक्षिपेत्

2.3.5

आच्छाद्यालेप्य कल्केन चान्धयित्वा विशोषयेत् ।
करीषाग्नौ दिवारात्रं पुटे पक्त्वा समुद्धरेत्

2.3.6

पुनः प्रलिप्तमूषायां क्षिप्त्वा रुद्ध्वा पुटेत् ततः ।
इत्येवं दशमूषासु प्रलिप्तासु विपाचयेत्

2.3.7

जायते गुटिका दिव्या मृतसंजीवनी परा ।
वक्त्रे शिरसि कण्ठे वा कर्णे वा धारिता करे

2.3.8

हेम्ना सुवेष्टिता सम्यग्वयःस्तम्भकरी परा ।
वलीपलितकालाग्निमृत्युशङ्काविनाशनी

2.3.9

वर्षमात्रान् न संदेहो जीवेद् वर्षशतत्रयम् ।
शुद्धपलैकं तु गवां क्षीरैः पिबेत्सदा

2.3.10

अनेन त्व् अनुपानेन देहे संक्रमते रसः ।
समुखं पारदं कान्तं मुण्डलोहाभ्रसत्त्वकम्

2.3.11

तत्त्वं मृतं वज्रं सर्वं जम्बीरजैर् द्रवैः ।
सप्ताहं मर्दयेत् तुल्यं कृत्वा गोलं समुद्धरेत्

2.3.12

निर्गुण्डी सैन्धवं क्षौद्रं गोजिह्वा काकतुण्डिका ।
पिष्ट्वा तु लेपयेद्गोलं सर्वतो ऽङ्गुलमात्रकम्

2.3.13

तं रुद्ध्वा वज्रमूषायां पचेद्यामं तु भूधरे ।
लिप्त्वा रुद्ध्वा पुनः पाच्यमित्येवं पक्षमात्रकम्

2.3.14

यवचिञ्चापलाशोत्थराजीकार्पासबीजकैः ।
सुपिष्टैर् लेपयेन्मूषां तन्मध्ये पूर्वगोलकम्

2.3.15

टङ्कणं श्वेतकाचं च दत्त्वा पृष्ठे निरुध्य च ।
खदिराङ्गारयोगेन धमेद् यावद् द्रुतं भवेत्

2.3.16

ततस्तं विडलिप्तायां मूषायां च निवेशयेत् ।
तत्तुल्यं दापयेत्स्वर्णं जयेत्तं धमन् धमन्

2.3.17

जीर्णे स्वर्णे समुद्धृत्य तप्तखल्वे विमर्दयेत् ।
त्र्यहं दिव्यौषधिद्रावैर् वज्रमूषान्धितं धमेत्

2.3.18

जायते गुटिका दिव्या नाम्ना वज्रेश्वरी परा ।
वक्त्रस्था सा जरां मृत्युं हन्ति संवत्सरात्किल

2.3.19

शस्त्रस्तम्भं च कुरुते ब्रह्मायुर् यच्छति ध्रुवम् ।
कृष्णाष्टम्यां समादाय सहदेवीं सु चूर्णयेत्

2.3.20

कर्षैकां भक्षयेद् आज्यैरनु स्यात् क्रामेण हितम् ।
आरक्तं मेघनादं तु तथा पाषाणभेदकम्

2.3.21

स्त्रीस्तन्यसहितं पिष्ट्वा तेन मूषां प्रलेपयेत् ।
भगैकं मृतवज्रस्य स्वर्णचूर्णस्य षोडश

2.3.22

क्षिप्त्वा तस्यां निरुध्याथ याममात्रं दृढं धमेत् ।
उद्धृत्य निक्षिपेत्खल्वे शुद्धसूतं च तत्समम्

2.3.23

मर्दयेच् चार्द्रकद्रावैर् यावद्भवति गोलकः ।
चण्डालीकन्दमादाय स्त्रीस्तन्येन सु पेषयेत्

2.3.24

अनेन गोलकं लिप्त्वा वज्रमूषायां निरोधयेत् ।
पक्त्वा गजपुटे ग्राह्या गुटिका वज्रसुन्दरी

2.3.25

वर्षैकं धारयेद्वक्त्रे जीवेद्ब्रह्मदिनत्रयम् ।
ब्रह्मवृक्षस्य त्वक्चूर्णं क्षीरैर्नित्यं पलं पिबेत्

2.3.26

क्रामणं ह्य् अनुपानं स्यात् साधकस्यातिसिद्धिदम् ।
तदुद्भवमलैर् लिप्तं ताम्रं तु धमनेन हि

2.3.27

जायते कनकं दिव्यं सत्यं शंकरभाषितम् ।
समुखस्य रसेन्द्रस्य पूर्ववत्काञ्चनं समम्

2.3.28

जारयेद् विडयोगेन ततो मर्द्यं दिनत्रयम् ।
दिव्यौषधैः सगोमूत्रैर् वज्रमूषान्धितं धमेत्

2.3.29

उद्धृत्य धारयेद्वक्त्रे गुटिका हेमसुन्दरी ।
पलार्धं गन्धकं चाज्यैर् द्विगुणैर् लेहयेदनु

2.3.30

वर्षैकेन जरां हन्ति जीवेद् आचन्द्रतारकम् ।
शुद्धसूतं मृतं वज्रं व्योमसत्त्वं सहाटकम्

2.3.31

अम्लवर्गे समं सर्वं मर्दयेद् दिवसत्रयम् ।
तद्गोलकं दृढं कृत्वा छायायां शोषयेत्ततः

2.3.32

ब्रह्मकार्पासबीजानि राजिका यवचिञ्चिका ।
वन्ध्या सर्वं समं पिष्ट्वा पूर्वगोलं प्रलेपयेत्

2.3.33

रुद्ध्वा गजपुटे पच्यात् समुद्धृत्याथ लेपयेत् ।
रुद्ध्वा मूषायां धमेद्गाढं गुटिका वज्रखेचरी

2.3.34

जायते धारिता वक्त्रे वत्सरान् मृत्युनाशिनी ।
भूतारवटचूर्णं तु पलैकं सितया युतम्

2.3.35

भक्षयेत् क्रामणार्थं तु ब्रह्मायुर्जायते नरः ।
कार्पास्याः काकमाच्याश्च कन्यायाश्च दलद्रवैः

2.3.36

शुद्धसूतं दिनं मर्द्यं क्षाल्यम् अम्लैः समुद्धरेत् ।
तद्रसं निष्कचत्वारि निष्कार्धं ताम्रचूर्णकम्

2.3.37

पादोननिष्कमभ्रोत्थं सत्त्वं पादं च हाटकम् ।
हेमतुल्यं मुण्डचूर्णं सर्वमम्लैर्विमर्दयेत्

2.3.38

दिनान्ते गोलकं कृत्वा जम्बीरस्योदरे क्षिपेत् ।
त्रिदिनं दोलकायन्त्रे पाचयेत् सारनालके

2.3.39

उद्धृत्य धारयेद्वक्त्रे गुटिका व्योमसुन्दरी ।
वर्षमात्राज् जरां हन्ति जीवेद्ब्रह्मदिनं नरः

2.3.40

चित्रमूलस्य चूर्णं तु सक्षौद्रं कान्तपात्रके ।
आलोड्य भक्षयेत् कर्षमनु स्यात्क्रामणे हितम्

2.3.41

निष्कमेकं स्वर्णपत्त्रं त्रिनिष्कं शुद्धपारदम् ।
जम्बीरशरपुङ्खोत्थद्रवैर् मर्द्यं दिनावधि

2.3.42

तद्गोलं बन्धयेद्वस्त्रे पचेद् गोक्षीरपूरिते ।
दोलायन्त्रे दिवारात्रं गुटिका हाटकेश्वरी

2.3.43

जायते धारिता वक्त्रे जरामृत्युविनाशिनी ।
वर्षमात्रान् न संदेहो जीवेद्वर्षायुतं नरः

2.3.44

दिनैकं त्रिफलाचूर्णं क्वाथैः खदिरबीजकैः ।
भावितं मधुसर्पिर्भ्यां पलैकं क्रामकं लिहेत्

2.3.45

रसनिष्कत्रयं शुद्धं निष्कैकं ताम्रचूर्णकम् ।
चिञ्चाफलाम्लतक्राभ्यां खल्वे मर्द्यं दिनावधि

2.3.46

तद्गोलं बन्धयेद् वस्रैस् तक्रचिञ्चाम्लपूरिते ।
दोलायन्त्रे दिनं पच्याद्गुटिकार्कप्रभावती

2.3.47

वर्षैकं धारयेद्वक्त्रे सूर्यतुल्यो भवेन् नरः ।
पालाशबीजजं तैलं गोक्षीरैः कर्षमात्रकम्

2.3.48

क्रामकं ह्य् अनुपानं स्याज् जरामृत्युहरं परम् ।
स्वर्णमेकं कान्तमेकं पञ्चतारं द्विपारदम्

2.3.49

त्रिभागं व्योमसत्त्वं स्यात् षड्भागं शुल्बचूर्णकम् ।
सर्वमेतत्कृतं सूक्ष्मं तप्तखल्वे दिनत्रयम्

2.3.50

मर्दयेदम्लवर्गेण दोलायन्त्रे सकाञ्जिके ।
तद्गोलं त्रिदिनं पच्याद्गुटिका सुरसुन्दरी

2.3.51

जायते धारिता वक्त्रे वर्षान्मृत्युजरापहा ।
भूतारवटमूलं च कर्षं क्षीरैः पिबेदनु

2.3.52

स्वर्णतारार्कमुण्डं च वङ्गसीसाभ्रसत्त्वकम् ।
एतत्सर्वं समं चूर्णं चूर्णांशं मृतवज्रकम्

2.3.53

सर्वतुल्यं शुद्धसूतं सर्वं दिव्यौषधिद्रवैः ।
मर्दयेद् दिनमेकं तु वज्रमूषान्धितं धमेत्

2.3.54

गुटिका वज्रतुण्डेयं जायते धारिता मुखे ।
जरामृत्युं शस्त्रसंघं नाशयेद्वत्सरात्किल

2.3.55

वज्रकायो महावीरो जीवेद्वर्षशतत्रयम् ।
कुमार्याः स्वरसं ग्राह्यं गुडेन सह लोडयेत्

2.3.56

पलैकं क्रामकं लेह्यमनुपानं सदैव हि ।
स्वर्णचूर्णं तु भागैकं त्रिभागं शुद्धपारदम्

2.3.57

पादभागं मृतं वज्रं तत्सर्वं क्षीरकन्दजैः ।
द्रवैश्च देवदाल्युत्थैस्तप्तखल्वे दिनावधि

2.3.58

मर्दयेत् कान्तचूर्णं च वज्रतुल्यं क्षिपेच् च वै ।
वज्रमूषान्धितं धाम्यं गुटिका कामसुन्दरी

2.3.59

जायते धारिता वक्त्रे वर्षान्मृत्युजरापहा ।
निष्कत्रयं ब्रह्मतैलं गवां क्षीरं पलद्वयम्

2.3.60

मिश्रितं पाययेच् चानु लक्षायुर्जायते नरः ।
लोहपात्रे द्रुते गन्धे पादांशं पारदं क्षिपेत्

2.3.61

किंचिच् चाल्यं तु काष्ठेन मुहूर्ताद् अवतारयेत् ।
शतावरी क्षीरकन्दो वज्रवल्लीन्द्रवारुणी

2.3.62

पाठा पुनर्नवा चिञ्चा लाङ्गली सुरदालिका ।
एतासां वस्त्रपूतैश्च द्रवैर्मर्द्यं दिनत्रयम्

2.3.63

तस्मिन् पात्रे लोहमुष्ट्या छायाशुष्कं वटीकृतम् ।
लोहसम्पुटगं रुद्ध्वा संधिं मृल्लवणैर् दृढम्

2.3.64

तं धमेत् खदिराङ्गारे यावदारक्तमुद्धरेत् ।
उत्खन्योत्खन्य तन्मध्याद् उद्धरेत् तद्रसं पुनः

2.3.65

काचटङ्कणसंयुक्तं मूषायां चान्धितं पचेत् ।
गान्धारीगुटिका सिद्धा वर्षं वक्त्रे स्थिता सदा

2.3.66

काकतुण्डीबीजतैलं कर्षैकं नस्यमाचरेत् ।
क्रामकं ह्य् अनुपानं स्याज् जीवेद्वर्षसहस्रकम्

2.3.67

शुद्धसूतसमं गन्धं मर्दनात् कज्जलीकृतम् ।
तत् ताम्रसम्पुटे रुद्ध्वा लवणेन मृदा दृढम्

2.3.68

शुष्कं दीपाग्निना पच्याद् यामैकं भस्मयन्त्रके

2.3.69

सम्पुटस्योर्ध्वलग्नं तत्समुद्धृत्याथ मर्दयेत् ।
तुल्यपारदसंयुक्तं पूर्ववत्सम्पुटे पचेत्

2.3.70

उद्धृत्य तुल्यसूतेन संयुक्तं मर्दितं पचेत् ।
इत्येवं सप्तधा कुर्यात्पुनः पारदटङ्कणम्

2.3.71

तुल्यं तुल्यं क्षिपेत् तस्मिन् दिनं सर्वं विमर्दयेत् ।
वज्रमूषागतं रुद्ध्वा ध्माते खोटो भवेद्रसः

2.3.72

मार्तण्डी गुटिका ह्य् एषा वर्षैकं यस्य वक्त्रगा ।
वलीपलितमुक्तो ऽसौ जीवेदाचन्द्रतारकम्

2.3.73

पलाशबीजजं तैलं पलैकं क्षीरतुल्यकम् ।
क्रामणं प्रपिबेन् नित्यं तत्क्षणान् मूर्छितो भवेत्

2.3.74

तस्य वक्त्रे गवां क्षीरं स्तोकं स्तोकं निषेचयेत् ।
प्रबुद्धे क्षीरमन्नं स्याद्भोजने परमं हितम्

2.3.75

तस्य मूत्रपुरीषाभ्यां ताम्रं भवति काञ्चनम् ।
वायुवेगो महासिद्धश् छिद्रां पश्यति मेदिनीम्

2.3.76

काकमाच्यमृताद्रावैः पारदं तालकं समम् ।
मर्दयेद् दिनमेकं तु कृत्वा गोलं विशोषयेत्

2.3.77

निक्षिपेद् वज्रमूषायामाच्छाद्य लोहपर्पटैः ।
रुद्ध्वा संधिं धमेद्गाढं खोटबद्धो भवेद्रसः

2.3.78

लोहपर्पटकं दत्त्वा तद्वद् धाम्यं त्रिधा पुनः ।
वर्षैकं धारयेद्वक्त्रे गुटिका तारकेश्वरी

2.3.79

वाकुचीबीजकर्षैकं गवां क्षीरैः पिबेदनु ।
व्योमसत्त्वं मृतं वज्रं स्वर्णतारार्कमुण्डकम्

2.3.80

तीक्ष्णं कान्तं तालकं च शुद्धं कृत्वा विमिश्रयेत् ।
सूक्ष्मचूर्णं समं सर्वं चूर्णांशं शुद्धपारदम्

2.3.81

त्रिदिनं चाम्लवर्गेण मर्दितं चान्धितं धमेत् ।
विद्यावागीश्वरी ख्याता गुटिका वत्सरावधि

2.3.82

यस्य वक्त्रे स्थिता तस्य जरा मृत्युर्न विद्यते ।
कर्षं ज्योतिष्मतीतैलं क्रामणार्थं पिबेत्सदा

2.3.83

वाक्पतिर्जायते धीरो जीवेच् चन्द्रार्कतारकम् ।
कान्तपाषाणमाक्षीकं टङ्कणं कर्कटास्थि च

2.3.84

स्नुह्यर्कक्षीरभूनागं सर्वमेतत्समं भवेत् ।
स्त्रीस्तन्येन दिनं मर्द्यं तेन मूषां प्रलेपयेत्

2.3.85

तन्मध्ये द्रुतसूतं तु वज्रभस्म समं समम् ।
क्षिप्त्वा रुद्ध्वा पुटे पच्याद्गजाख्ये याममात्रकम्

2.3.86

ततः प्रलिप्तमूषायां क्षिप्त्वा रुद्ध्वा धमेद्धठात् ।
एवं पुनः पुनः कार्यं वज्रसूतं मिलत्यलम्

2.3.87

ततस्तस्यैव दातव्यं समं काचं सटङ्कणम् ।
एवं मूषाशते देयं तुल्यं तुल्यं धमन् धमन्

2.3.88

तेजःपुञ्जो रसेन्द्रोऽसौ भवेन् मार्तण्डसंनिभः ।
गुटिका वज्रतुण्डेयं वक्त्रस्था मृत्युनाशिनी

2.3.89

वर्षमात्रान् न संदेहो रुद्रतुल्यो भवेन् नरः ।
तस्य मूत्रपुरीषाभ्यां पूर्ववत्काञ्चनं भवेत्

2.3.90

पञ्चाङ्गं भक्षयेत्कर्षं रुदन्त्या मधुसर्पिषा ।
टङ्कणं कर्कटास्थीनि ऊर्णा चैव शिलाजतु

2.3.91

महिषीकर्णनेत्रोत्थं मलं स्त्रीस्तन्यकैः समम् ।
पिष्ट्वा तल्लिप्तमूषायाम् अभ्रसत्त्वं क्षिपेद्धमेत्

2.3.92

सत्त्वतुल्यं क्षिपेत्तत्र पूर्ववद् द्रुतपारदम् ।
द्रवं दिव्यौषधीनां च दत्त्वा तत्रैव तद्धमेत्

2.3.93

मिलितो जायते बद्धः पूर्ववत् काचटङ्कणैः ।
ध्मातो मूषाशतेनायं तेजःपुञ्जो भवेद्रसः

2.3.94

वर्षैकं धारयेद्वक्त्रे शिवतुल्यो भवेन् नरः ।
अजरामरकारीयं गुटिका गगनेश्वरी

2.3.95

बिल्वबीजोत्थितं तैलं निष्कमात्रं पिबेदनु ।
उदरे जायते वह्निः पिबेत्क्षीरं पुनः पुनः

2.3.96

साक्षाज् जातिस्मरत्वं च कवित्वं श्रुतधारणम् ।
खेचरत्वमदृश्यत्वं जायते नात्र संशयः

2.3.97

अग्निमन्थो वज्रवल्ली सूरणं वनशूरणम् ।
चित्रकश्च द्रवैरेषां शुद्धसूतं दिनावधि

2.3.98

मर्दयेत्तप्तखल्वे तु तं रसं पलमात्रकम् ।
पलं पलं तालवङ्गौ तत्सर्वं चाम्लवेतसैः

2.3.99

मर्दयेद् दिनमेकं तु कृत्वा तं गोलकं पुनः ।
चतुःपलां नागमूषां कृत्वा तस्यां तु तत्क्षिपेत्

2.3.100

चतुःपले शुद्धताम्रसम्पुटे तां निरोधयेत् ।
मृण्मूषायां तु तां रुद्ध्वा आरण्योत्पलकैः पुटेत्

2.3.101

शतद्वयप्रमाणैस्तु स्वाङ्गशीतं समुद्धरेत् ।
सर्वं दिव्यौषधद्रावैर् मर्दयेद् दिवसत्रयम्

2.3.102

चतुर्निष्कमिता कार्या वटिका शोषयेत्ततः ।
एकैकां वज्रमूषायां रुद्ध्वा तीव्राग्निना धमेत्

2.3.103

आनन्दगुटिका ह्य् एषा वक्त्रस्था मृत्युनाशिनी ।
वत्सरान् नात्र संदेहो जीवेद्ब्रह्मदिनत्रयम्

2.3.104

तैलं वातारिबीजोत्थं गोक्षीरैर् निष्कमात्रकम् ।
क्रामणार्थं पिबेन् नित्यं शीघ्रसिद्धिकरं परम्

2.3.105

वज्रभस्मसमं सूतं हंसपाद्या द्रवैस्त्र्यहम् ।
मर्दितं द्वंद्वलिप्तायां मूषायां चान्धितं पुटेत्

2.3.106

भूधराख्ये दिवारात्रौ समुद्धृत्याथ तस्य वै ।
पूर्वांशं पारदं दत्त्वा हंसपाद्या द्रवैस्त्र्यहम्

2.3.107

मर्दितं द्वंद्वलिप्तायां मूषायां चान्धितं धमेत् ।
तत्खोटं धमनाच्छोध्यं काचटङ्कणयोगतः

2.3.108

नक्षत्राभं भवेद् यावत्तावद्धाम्यं पुनः पुनः ।
तद्रसं व्योमसत्त्वं च काञ्चनं च समं समम्

2.3.109

समावर्त्य ततः कार्या गुटिका वक्त्रमध्यगा ।
वज्रखेचरिका नाम वत्सरान् मृत्युनाशिनी

2.3.110

वलीपलितनिर्मुक्तो दिव्यकायो भवेन् नरः ।
निर्गुण्डीमुनिचूर्णं तु कर्षमाज्यैः पिबेदनु

2.3.111

कान्तं शुल्बं समं चूर्णं वज्रमूषान्धितं धमेत् ।
तत्खोटसिद्धचूर्णं तु गन्धकाम्लेन मर्दयेत्

2.3.112

रुद्ध्वा सम्यक्पुटे पच्यात्समुद्धृत्याथ मर्दयेत् ।
पूर्ववत्क्रमयोगेन पुटेद् वारांश्चतुर्दश

2.3.113

वज्रेण द्वंद्वितं स्वर्णमनेनैव तु रञ्जयेत् ।
मूषामध्ये धमन्न् एवं सप्तवारं समं क्षिपेत्

2.3.114

तत्खोटं चूर्णितं भाव्यं स्त्रीपुष्पेण दिनावधि ।
तत्तुल्यं द्रुतसूतं तु सर्वं यामं विमर्दयेत्

2.3.115

वेष्टयेद् भूर्जपत्त्रेण वस्त्रे बद्ध्वा पचेत् त्र्यहम् ।
दोलायन्त्रे सारनाले जातं गोलं समुद्धरेत्

2.3.116

गान्धारी जीवनी चैव लाङ्गली चेन्द्रवारुणी ।
एतासां पिण्डकल्केन वेष्टयेत्पूर्वगोलकम्

2.3.117

अन्धयित्वा दिनं पच्याद्भूधरे तं समुद्धरेत् ।
पुनर्लेप्यं पुनः पाच्यं चतुर्दशदिनावधि

2.3.118

गुटिका जायते दिव्या नाम्ना रत्नेश्वरी तथा ।
वक्त्रस्था वर्षमात्रं तु नन्दितुल्यो भवेन् नरः

2.3.119

जीवेद्वर्षसहस्राणि दिव्यतेजा महाबलः ।
वर्षद्वादशपर्यन्तं यस्य वक्त्रे स्थिता तु सा

2.3.120

तस्य प्रस्वेदसम्पर्कादष्टलोहानि काञ्चनम् ।
जायन्ते नात्र संदेहः सत्यमीश्वरभाषितम्

2.3.121

पञ्चाङ्गचूर्णं मध्वाज्यै रुदन्त्युत्थं लिहेदनु ।
स्वर्णं कृष्णाभ्रसत्त्वं च तारं ताम्रं सुचूर्णितम्

2.3.122

समांशं द्वंद्वलिप्तायां मूषायां चान्धितं धमेत् ।
तत्खोटं भागचत्वारि भागैकं मृतवज्रकम्

2.3.123

माक्षिकं तीक्ष्णकान्तं च भागैकैकं सुचूर्णितम् ।
समस्तं द्वंद्वलिप्तायां मूषायां चान्धितं धमेत्

2.3.124

तत्खोटं सूक्ष्मचूर्णं तु चूर्णांशं द्रुतसूतकम् ।
त्रिदिनं तप्तखल्वे तु मर्द्यं दिव्यौषधिद्रवैः

2.3.125

रुद्ध्वाथ भूधरे पच्यादहोरात्रात्समुद्धरेत् ।
द्रुतसूतं पुनस्तुल्यं दत्त्वा मर्द्यं पुटेत्तथा

2.3.126

इत्येवं सप्तवारांस्तु द्रुतं सूतं समं समम् ।
दत्त्वा मर्द्यं पुटे पच्याज् जायते भस्मसूतकः

2.3.127

भस्मसूतसमं गन्धं दत्त्वा रुद्ध्वा धमेद् दृढम् ।
जायते गुटिका दिव्या विख्याता दिव्यखेचरी

2.3.128

वर्षैकं धारयेद्वक्त्रे जीवेत्कल्पसहस्रकम् ।
तस्य मूत्रपुरीषाभ्यां सर्वलोहस्य लेपनात्

2.3.129

जायते कनकं दिव्यं समावर्ते न संशयः ।
पलद्वयं भृङ्गराजद्रव्यं चानु पिबेत्सदा

2.3.130

पूर्वोक्तं भस्मसूतं वा गुञ्जामात्रं सदा लिहेत् ।
वर्षैकं मधुनाज्येन लक्षायुर्जायते नरः

2.3.131

वलीपलितनिर्मुक्तो महाबलपराक्रमः ।
स्वर्णं वैक्रान्तसत्त्वं च द्वंद्वितं जारयेद्रसे

2.3.132

समांशं तु भवेद् यावत्ततस्तेनैव सारयेत् ।
समेन जायते बद्धो धारयेत्तं मुखे सदा

2.3.133

संवत्सरप्रयोगेण जराकालापमृत्युजित् ।
कुमार्या दलजं द्रावं सितायुक्तं पिबेदनु

2.3.134

स्वर्णवैक्रान्तबद्धोऽयं ब्रह्मायुर्यच्छते नृणाम् ।
वैक्रान्तसत्त्वतुल्यांशं शुद्धसूतं विमर्दयेत्

2.3.135

दिनं दिव्यौषधद्रावैस् तद्गोलं निगडेन वै ।
लिप्त्वा लवणगर्भायां वज्रमूष्यां निरोधयेत्

2.3.136

छायायां शोषयेत्संधिं त्रिदिनं तुषवह्निना ।
स्वेदयेद्वा करीषाग्नौ दिवारात्रमथोद्धरेत्

2.3.137

तद्गोलं निगडेनैव लिप्त्वा तद्वन् निरुध्य च ।
छायाशुष्कं धमेद्गाढं बन्धमायाति निश्चितम्

2.3.138

वर्षैकं धारयेद्वक्त्रे जीवेद् ब्रह्मदिनत्रयम् ।
वैक्रान्तगुटिका ह्य् एषा सर्वकामफलप्रदा

2.3.139

कर्षैकं त्रिफलाचूर्णं मध्वाज्याभ्यां लिहेदनु ।
हेम्ना यद्द्वंद्वितं वज्रं कुर्यात्तत्सूक्ष्मचूर्णितम्

2.3.140

एतद्देयं गुह्यसूते मूषायामधरोत्तरम् ।
पादमात्रं प्रयत्नेन रुद्ध्वा संधिं विशोषयेत्

2.3.141

भूधराख्ये दिनं पच्यात्समुद्धृत्याथ मर्दयेत् ।
दिव्यौषधफलद्रावैस् तप्तखल्वे दिनावधि

2.3.142

रुद्ध्वाथ भूधरे पच्याद् दिनं लघुपुटैः पुटेत् ।
समुद्धृत्य पुनस्तद्वन्मर्द्यं रुद्ध्वा दिनत्रयम्

2.3.143

तुषाग्निना शनैः स्वेद्यम् ऊर्ध्वाधः परिवर्तयन् ।
जायते भस्मसूतोऽयं सर्वयोगेषु योजयेत्

2.3.144

द्रुतसूतस्य भागैकं भागैकं पूर्वभस्मकम् ।
शुद्धनागस्य भागैकं सर्वमम्लेन मर्दयेत्

2.3.145

अन्धमूषागतं धाम्यं खोटो भवति तद्रसः ।
धमेत्प्रकटमूषायां यावन् नागक्षयो भवेत्

2.3.146

द्रुतसूतप्रकारेण द्रावयित्वा त्व् इमं रसम् ।
निक्षिपेत्कच्छपे यन्त्रे विडं दत्त्वा दशांशतः

2.3.147

स्वर्णादिसर्वलोहानि क्रमेणैव च जारयेत् ।
प्रत्येकं षड्गुणं पश्चाद् वज्रद्वंद्वं च जारयेत्

2.3.148

त्रिगुणं तु भवेद्यावत्ततो रत्नानि वै क्रमात् ।
जारयेद् द्रावितान्य् एव प्रत्येकं त्रिगुणं शनैः

2.3.149

ततो यन्त्रात्समुद्धृत्य दिव्यौषधद्रवैर्दिनम् ।
मर्द्यं रुद्ध्वा धमेद्गाढं जायते गुटिका शुभा

2.3.150

पूजयेदङ्कुशीमन्त्रैर्नाम्नेयं दिव्यखेचरी ।
यस्य वक्त्रे स्थिता ह्य् एषा स भवेद्भैरवोपमः

2.3.151

दिव्यतेजा महाकायः खेचरत्वेन गच्छति ।
यत्रेच्छा तत्र तत्रैव क्रीडते ह्य् अङ्गनादिभिः

2.3.152

महाकल्पान्तपर्यन्तं तिष्ठत्येव न संशयः ।
तस्य मूत्रपुरीषाभ्यां ताम्रं भवति काञ्चनम्

2.3.153

पलाशपुष्पचूर्णं तु तिलाः कृष्णाः सशर्कराः ।
सर्वं पलत्रयं खादेन् नित्यं स्यात् क्रामणे हितम्

2.3.154

चूर्णम् अश्वखुरस्यैव गुह्यसूते समं क्षिपेत् ।
त्रिदिनं मातुलुङ्गाम्लैस्तत्सर्वं मर्दयेद् दृढम्

2.3.155

सूततुल्यं मृतं वज्रं तस्मिन् क्षिप्त्वाथ मर्दयेत् ।
तप्तखल्वे दिनं चाम्लैस्तद्गोलं चान्धितं पुटेत्

2.3.156

दिनैकं भूधरे यन्त्रे भागैकं पूर्वपारदम् ।
क्षिप्त्वा तस्मिन् दृढं मर्द्यं मातुलुङ्गद्रवैर्दिनम्

2.3.157

रुद्ध्वाथ पूर्ववत्पच्यात्पुनर्देयश्च पारदः ।
मर्द्यं पाच्यं यथापूर्वमेवं कुर्याच् च सप्तधा

2.3.158

रसं पुनः पुनर्दत्त्वा स्यादेवं भस्मसूतकः ।
योजयेत्सर्वयोगेषु जरामृत्युहरो भवेत्

2.3.159

भागैकं नागचूर्णस्य भागैकं पूर्वभस्मनः ।
द्रुतसूतस्य भागैकं खोटं कुर्याच् च पूर्ववत्

2.3.160

तद्वद्धाम्यं गते नागे द्रावितं जारयेत्पुनः ।
पूर्ववल् लोहरत्नान्तं जीर्णे बद्धा स्थिता मुखे

2.3.161

प्रचण्डखेचरीनाम्नी गुटिका खे गतिप्रदा ।
पूर्ववल् लभते वीरः फलमत्यन्तदुर्लभम्

2.3.162

निर्गुण्डीमूलचूर्णं तु कर्षं तक्रैः पिबेदनु ।
शुद्धसूतस्य दातव्यं कलांशं मृतवज्रकम्

2.3.163

तत्सर्वमम्लवर्गेण तप्तखल्वे दिनत्रयम् ।
मर्दयित्वा ततस्तेन लेपयेत्समभागतः

2.3.164

पक्वबीजस्य पत्त्राणि तानि भानुदलैः पुनः ।
वेष्टितानि निरुध्याथ निखनेच् चुल्लिगर्भतः

2.3.165

आच्छाद्य ज्वालयेत्तत्र काष्ठाग्निं दिवसत्रयम् ।
उद्धृत्य द्वंद्वलिप्तायां मूषायां तं निरोधयेत्

2.3.166

करीषाग्नौ पुटे पच्यादहोरात्रात्समुद्धरेत् ।
वासनामुखिते सूते तुल्यमेतद्विनिक्षिपेत्

2.3.167

अम्लेन मर्दयेद्यामं जातं गोलं समुद्धरेत् ।
क्षिपेज्जम्बीरगर्भे तं वस्त्रे बद्ध्वा त्र्यहं पचेत्

2.3.168

दोलायन्त्रे सारनाले जायते गुटिका शुभा ।
कङ्कालखेचरी नाम्ना वक्त्रस्था मृत्युनाशिनी

2.3.169

वर्षैकं धारयेद्यस्तु स जीवेद्ब्रह्मणो दिनम् ।
गन्धकं गुग्गुलुं तुल्यमाज्यैः कर्षं लिहेदनु

2.3.170

कृष्णाभ्रकस्य सत्त्वं तु कान्तमाक्षीककाञ्चनम् ।
तीक्ष्णं सौवीरचूर्णं च तुल्यं रुद्ध्वा धमेद् दृढम्

2.3.171

तत्खोटं सूक्ष्मचूर्णं तु द्रुतसूतसमं भवेत् ।
सूतार्धं मारितं वज्रं सर्वमम्लेन मर्दयेत्

2.3.172

दिनैकं तप्तखल्वे तु तं रुद्ध्वा भूधरे पचेत् ।
अहोरात्रात्समुद्धृत्य तत्समं पूर्वसूतकम्

2.3.173

दत्त्वा दिव्यौषधद्रावैर्मर्द्यं सर्वं दिनावधि ।
पूर्ववद्भूधरे पच्याद् द्रुतसूतं पुनः समम्

2.3.174

दत्त्वा मर्द्यं पुनः पच्यादित्येवं सप्तवारकम् ।
एतद्भस्मसमं गन्धं दत्त्वा चान्ध्यं धमेद् दृढम्

2.3.175

जायते गुटिका दिव्या कालविध्वंसिका परा ।
यस्य वक्त्रे स्थिता ह्य् एषा तस्य कालः करोति किम्

2.3.176

वर्षषट्कप्रयोगेण जीवेत्कल्पसहस्रकम् ।
तद्गात्रस्वेदमात्रेण सर्वलोहानि काञ्चनम्

2.3.177

जायन्ते नात्र संदेहः शिवाम्बु क्रामकं पिबेत् ।
स्वर्णतारार्ककान्तं च तीक्ष्णचूर्णं समं समम्

2.3.178

द्वंद्वमेलापलिप्तायां मूषायां चान्धितं धमेत् ।
तत्खोटं चूर्णितं कृत्वा चाभिषिक्तं तु पूर्ववत्

2.3.179

समुखे जारयेत्सूते यावत्पञ्चगुणं क्रमात् ।
दिव्यौषधद्रवैस्तं वै मर्दयेद् दिवसत्रयम्

2.3.180

अन्धमूषागतं ध्मातं जायते गुटिका शुभा ।
नाम्ना पञ्चानना धार्या वक्त्रे संवत्सरावधि

2.3.181

वलीपलितनिर्मुक्तो जीवेच् चन्द्रार्कतारकम् ।
हस्तिकर्णी समूला तु चूर्ण्या मध्वाज्यसंयुता

2.3.182

स्निग्धभाण्डे तु तां रुद्ध्वा धान्यराशौ निवेशयेत् ।
त्रिसप्ताहात्समुद्धृत्य पलैकं भक्षयेदनु

2.3.183

ऋद्धिखण्डे तु यत्प्रोक्तं विविधं रसबन्धनम् ।
अत्र तस्यैव वक्ष्यामि देहवेधक्रमं यथा

2.3.184

जारितैर् बन्धितैस् तैस् तै रसराजैः पृथक्पृथक् ।
कारयेद्गुटिकां दिव्यां बदराण्डप्रमाणकाम्

2.3.185

सा धार्या वत्सरं वक्त्रे स्वानुरूपफलप्रदा ।
गुटिका शतवेधी स्याद्युगायुष्यकरी नृणाम्

2.3.186

सहस्रवेधी गुटिका अष्टकल्पान्तरक्षिका ।
लक्षवेधकरी या तु सा दत्ते विष्णुवद्बलम्

2.3.187

वेधिका दशलक्षे या सा रुद्रपददायिनी ।
कोटिवेधकरी या सा ईश्वरत्वकरी नृणाम्

2.3.188

वेधिका दशकोटीनां सा सदाख्यपदप्रदा ।
गुटिकार्बुदवेधी या सा श्रीकण्ठपदप्रदा

2.3.189

सम्यग्भवपदं दत्ते गुटिका शङ्खवेधिका ।
धूम्रवेधी तु या सिद्धा सा शक्तिपददायिनी

2.3.190

पराशक्तिपदं दत्ते स्पर्शवेधकरी तु या ।
शब्दवेधकरा या तु सा यस्य वत्सरावधि

2.3.191

वक्त्रे स्थिता स वै सिद्धो नित्यं नित्यपदं लभेत् ।
स्वेच्छाचारी वज्रकायो वज्रपातैर्न भिद्यते

2.3.192

तस्य मूत्रपुरीषाभ्यां सर्वलोहानि काञ्चनम् ।
जायन्ते स्वेदसम्पर्काद् गात्रसंस्पर्शनादपि

2.3.193

सर्वेषाम् उक्तयोगानाम् अनु स्याच्छुद्धगन्धकम् ।
पलार्धं भक्षयेन् नित्यं रससंक्रामणे हितम्

2.3.194

कालि कालि महाकालि मांसशोणितभोजिनि ।
रक्तकृष्णमुखे देवि रससिद्धिं ददस्व मे

2.3.195

स्वाहा अनेन सिद्धमन्त्रेण शक्तिचक्रं प्रपूजयेत् ।
कालिकां भैरवं सिद्धान् कुमारीं साधितं रसम्

2.3.196

ततो रसायनं दिव्यं सेवयेत् सिद्धिमाप्नुयात् ।
गुटिकां धारयेद्वक्त्रे पूर्वमन्त्रं जपेत्सदा

2.3.197

रसमन्त्रप्रयोगेण शीघ्रं सिद्धिमवाप्नुयात् ।
कालान्तरससिद्धिर्या प्रोक्ता मन्थानभैरवे

2.3.198

तदर्थं पञ्च तत्त्वानि षष्ठं जीवं च साधयेत् ।
काकिन्याः पुष्पकाले तु सङ्गं कृत्वा समाहरेत्

2.3.199

तद्योनिस्थं रजोबीजं गगनं तं विदुर्बुधाः ।
काकिन्युत्पन्नपुत्रस्य सद्योविड्वायुरुच्यते

2.3.200

तेजस्तु काकिनीपुष्पं जलं तत्पुत्रशोणितम् ।
काकिनीपुत्रसर्वाङ्गं पृथिवीतत्त्वमुच्यते

2.3.201

रससेवकदेहोत्थवीर्यं जीवस्तु कथ्यते ।
तत्प्रत्येकं कोटिवेधं कर्षैकं रससंयुतम्

2.3.202

कृत्वा संरक्षयेद्भिन्नं सुपिष्टं गोलकीकृतम् ।
उन्नतं पौरुषं यावद्विस्तारेण तदर्धकम्

2.3.203

कुर्यात्ताम्रकटाहं तु स्थूलं यावत् षडङ्गुलम् ।
चतुर्मुखस्य कोष्ठस्य पृष्ठे धार्यं दृढं यथा

2.3.204

गोघृतं नरतैलं च समभागेन मेलयेत् ।
तेनापूर्य कटाहं तं सिद्धचक्रं ततो ऽर्चयेत्

2.3.205

कुमारीगुरुदेवाग्नीन् भैरवं भैरवीयुतम् ।
तर्पयेद् बलिमांसेन क्षेत्रपालं च पूजयेत्

2.3.206

धमनं तत्र कुर्वीत चतुर्दिक्षु शनैः शनैः ।
चतुर्भिर् वङ्कनालैश्च खदिराङ्गारयोगतः

2.3.207

सुतप्तं फेननिर्मुक्तं निर्धूमं च यदा भवेत् ।
चन्द्रार्कग्रहनक्षत्रदेवताभुवनानि च

2.3.208

नमस्कृत्य गुरुं देवं देहं तत्र विनिक्षिपेत् ।
सुद्रुतं तं विजानीयान् निक्षिपेत्पार्थिवं रसम्

2.3.209

धमन्न् अत्रैव यत्नेन यावत् तत् कल्कतां व्रजेत् ।
अप्तत्त्वाख्यं रसं तस्मिन् क्षिपेद् रक्तं भवेत् तु तत्

2.3.210

वायुयुक्तं रसं क्षिप्त्वा शुभ्रवर्णं प्रजायते ।
तेजोयुक्तं रसं क्षिप्याद् घनीभूतं भवेत्तु तत्

2.3.211

तत आकाशसंयुक्तं रसं तत्र विनिक्षिपेत् ।
आवर्तितं सुवर्णाभं जायते तत्र निक्षिपेत्

2.3.212

जीवयुक्तं रसं दिव्यं ततो हुंकारमुच्चरेत् ।
कृत्वा तत्र महारावं हुंकारत्रयसंयुतम्

2.3.213

ततश् चोत्तिष्ठते सिद्धः पूर्वाह्णे भास्करो यथा ।
दिव्यतेजा महाकायो महाबलपराक्रमः

2.3.214

नवनागसहस्राणां बलं तस्याधिकं भवेत् ।
जीवते वज्रदेहः सन् सत्यं सत्यं शिवोदितम्

2.3.215

जराजर्जरिताङ्गानाम् अन्धानां पङ्गुकुष्ठिनाम् ।
नष्टवाग्जडषण्डानां कुब्जानां कुष्ठदेहिनाम्

2.3.216

अनेकव्याधियुक्तानां भ्रान्तोन्मत्तपिशाचिनाम् ।
किं पुनः स्वच्छदेहानां भूपानां रससेविनाम्

2.3.217

वीराणां साधकानां च दिव्यसिद्धिप्रदो भवेत् ।
तस्माद्वीरतरो यो ऽत्र भैरवोऽसौ न संशयः

2.3.218

वज्रकायो भवेत्सिद्धो मेधावी दिव्यरूपवान् ।
अर्धयोजनविस्तीर्णं विमानं चाप्सरोयुतम्

2.3.219

आयाति नात्र संदेहस्तस्य सिद्धस्य सम्मुखम् ।
तत्रारूढो रुद्रलोके क्रीडते भैरवो यथा

2.3.220

क्षुत्पिपासाविनिर्मुक्तो जगन्नाशे न नश्यति ।
भुञ्जानः सर्वभोगांश्च योगिनां स प्रियो भवेत् ।
इच्छासिद्धो महावीरो नित्यानन्दमयो भवेत्

2.3.221

दृष्ट्वा समस्तमनुभूय रसायनेषु सारातिसारसुखसाध्यतरं नराणाम् ।
देहस्य दार्ढ्यकरणे गुटिकाप्रयोगाः प्रोक्ताः परं शिवकराः सततं सुसिद्ध्यै

मूल पाठ: Rasaratnākara · Edition: Vaidya Jadavji Tricumji Acarya Benares : Caukhamba Sanskrit Office, 1939 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc