भाषा

ENहिગુ
ग्रंथ पाठ

रसप्रकाशसुधाकर · अध्याय 13

13.1

श्रीवासमस्तकीनाग केसरं च लवंगकम्
कंकोलं तुलसीबीजं खुरासान्यहीफेनकम् ॥

13.2

जावित्रिकाब्धिशोषं च करभागुरुकुंकुमम्
कङ्कोलकतुगाक्षीरी जातीफलसमांशकान् ॥

13.3

सर्वाण्येवं विचूर्ण्याथ नालिकेरोदरे क्षिपेत्
दुग्धमध्ये विपाच्यैनं दिनान्येवं हि पञ्च च ॥

13.4

नालिकेरफलाद्ग्राह्यं मर्दयेन्मधुना सह
गुटिका कोलमात्रा हि भक्षणीया निशामुखे ॥

13.5

वीर्यस्तंभं करोत्युग्रं चतुर्यामावधिं तथा ॥

13.6

लवंगं शुद्धकर्पूरं जातीपत्रं फलं तथा
कुङ्कुमं स्वर्णबीजं च धूर्तपर्णं प्रसूनकम् ॥

13.7

मूलं त्वक् चाब्धिशोषस्य सर्वाण्येकत्र मर्दयेत्
गोदुग्धे शोधनीयं च भागमेकं प्रकल्पयेत् ॥

13.8

भृङ्गीपत्त्रभवं चूर्णं भागैकं स्वर्णगैरिकम्
भावनां पोस्ततोयेन एकविंशतिसंख्यया ॥

13.9

कारयेन्मतिमान् वैद्यः शुक्रस्तंभकरीं वटीम् ॥

13.10

जातीफलार्ककरहाटलवङ्गशुण्ठीकङ्कोलकेशरकणाहरिचन्दनानि एतैः समानमहिफेनमनेन चाभ्रं श्वेतं निधाय मधुना वटकान् विदध्यात्
माषद्वयोन्मितममुं निशि भक्षयित्वा मृष्टं पयस्तदनु माहिषमाशु पीत्वा कुर्वन्तु कामुकजनाः प्रतिरुद्धपाताश्चेतांसि तानि चकितानि कलावतीनाम् ॥

13.11

स्कन्धदेशाच्च संजातं वीर्यं दर्दुरसंभवम्
घनसारेण संयुक्तं करहाटस्य चूर्णकम् ॥

13.12

संमर्द्य कारयेच्चूर्णं वटीं मुद्गप्रमाणकाम्
संघर्ष्य मुखतोयेन लिंगलेपं प्रकारयेत् ॥

13.13

यामार्धं धारयेद्बिन्दुं सत्यं गुरुवचो यथा ॥

13.14*

पोस्तकं पलमेकं वै शुंठीकर्षः सिता पलैका च ।
कर्षमिता त्वक्पयसा पीतं रेतो ध्रुवं धत्ते ॥

13.15

श्रीगङ्गाधरभक्तिसक्तमनसो विद्याविनोदाम्बुधेः श्रीगोडान्वयपद्मनाभसुधियस् तस्यात्मजेनाप्ययम्
सद्वैद्येन यशोधरेण कविना विद्वज्जनानन्दकृद् ग्रन्थोऽयं ग्रथितः करोतु सततं सौख्यं सतां मानसे ॥

13.16

देशानां सुरराष्ट्रम् उत्तमतमं तत्रापि जीर्णाभिधः प्राकारोऽस्ति स वेदशास्त्रनिरतैर्विप्रैश्च संशोभितः
तस्मिन् शंभुपदारविन्दरतिकृच्छ्रीपद्मनाभः स्वयम् तत्पुत्रेण यशोधरेण कविना ग्रंथः स्वयं निर्मितः ॥

13.17

संबोधाय सतां सुखाय सरुजां शिष्यार्थसंसिद्धये वैद्यानामुपजीवनाय विदुषाम् उद्वेगनाशाय वै
श्रीमद्दुर्गपुरातने ऽतिनिपुणः श्रीपद्मनाभात्मजः श्रीमद्भट्टयशोधरः कविवरो ग्रन्थः स्वयं निर्ममे ॥

मूल पाठ: Rasaprakāśasudhākara · Edition: Jivram Kalidas Sastri Gondal : Rasasala Ausadhasram, 1940 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc