रसाध्यय · श्लोक 196xx95x-214xx113x
जालं कारयता सुते वस्त्रान्निःसरते पुनः
संस्थिते च निजे लौल्ये जीर्णजार्यस् तृतीयकः ॥
* रसेनौषधसर्वथाजीर्ण इत्यर्थः ।
* अत्राद्यम् एतद् द्वयमेव शुद्धकृतो यो भेदः शुद्धः ॥
कुम्भस्याधः कृते छिद्रे द्विग्रन्थिं दोरकं क्षिपेत्
एकं मध्ये परं बाह्ये कुम्भे कार्यो गलद्घटी ॥
महोडाकस्य मूलानां श्रीखण्डेन घटे ततः
क्षिप्त्वायःस्थालिकामध्ये पारदं जीर्णाहीरकम् ॥
सच्छिद्रां ढङ्कणीं दत्त्वा कुम्भं श्रीखण्डसंभृतम्
प्रध्वरायां च ढङ्कण्यां क्षिप्त्वाग्निं ज्वालयेद्धठात् ॥
स्थालिकाधश्चतुर्यामं ढङ्कणीछिद्रमध्यतः
श्रीपिण्डो दोरकाच्च्युत्वा मुहुः पतति पारदे ॥
तद्दग्धसूतसम्मिश्रं श्वेतभस्म प्रजायते
तत् क्षिपेद् अन्धमूषायां साकं मध्वाज्यटङ्कणैः ॥
ध्मातं सत्कुरुते बन्धं पारदस्य न संशयः
न क्षीयते मुहुर्ध्माते ऽतीवनिश्चलतां गतः ॥
जार्यमाणश्च यः सूतः स्वयमेव निबध्यते
स हि सिद्धरसानां हि देहलोहो निबध्यति ॥
मृगस्याकृष्णनेत्रे च प्ररोहत्यन्धचक्षुषि
रसाभ्यक्ते तयोः पीडा नश्यत्यन्धश्च पश्यति ॥
देवदानवगन्धर्व सिद्धगुह्यकखेचरैः
रसो वक्त्रे स्थितो यस्य तद्गतिः खे न हन्यते ॥
म्रियते न विषेणापि दह्यते नैव वह्निना
आकाशे सिद्धविद्यस्य मृतो जीवति तत्क्षणात् ॥
मणिमन्त्रौषधेभ्यो ऽपि प्रभावातिशयो महान्
मृतसंजीवनो नाम रसबन्धः प्रकीर्तितः ॥
बद्धसूतचतुःषष्टि पलान्य् आवर्तयेत् सुधीः
हेमराजिचतुःषष्टि पलान्य् आवर्तयेत् पृथक् ॥
ढालयेद्धेमराजिं तां बद्धसूतद्रवोपरि
रक्तषोटो भवत्येवं संस्कारः सारणो मतः ॥
तारमध्यगतं कृत्वा पूर्ववत्पातयेद्रसम्
हेमपिष्टानुसंपिष्टं कुमारीरसमर्दितम् ॥
उपरिस्थस्य भाण्डस्य बुध्नसंलेपितं ध्रुवम्
एवं तु गन्धकं ताम्र रजते हाटके तथा
पुनः पुनस्तथा पात्यं चेत्थं संसारयेत्ततः ॥
रक्तषोटस्य यावन्तो गद्याणाः सारणे कृते
द्विघ्नाः शुद्धशिलायास्ते भृशं चूर्णीकृता मुहुः ॥
विस्तीर्णकाचकूप्यां तद् देयं चूर्णमुपर्यधः
रक्तषोटं च तद्गर्भे क्षिप्त्वास्य चाभ्रचाचिकम् ॥
कूपिकायां वेष्टनानि सप्त देयानि च मृदः
नरप्रमाणिकं गर्तं खनित्वा छणकैर् भृतम् ॥
मूल पाठ: Rasādhyaya, 1-302+com with Ṭīkā · Edition: Ramakrsna Sarma Benares : Chowkhamba Sanskrit Series, north of Gopal Mandir, 1930 (Kashi Sanskrit Series, 79 [Haridas Sanskrit Granthamala], Ayurveda Section, 2) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0