रसाध्यय · श्लोक 176xx75x-195xx94x
स्फाटिकान्तानि रत्नानि जीर्यन्ते चातिवेगतः
ततः कोटिगुणे जीर्णे शङ्खवेधी भवेद्रसः ॥
तत्क्षणाद् अमरत्वं च खेचरत्वं ददाति च
अजीर्णं तुम्बाबीजं तु सूतकं यस्तु वातयेत्
ब्रह्महा स दुराचारो मम द्रोही महेश्वरि ॥
तस्मात्सर्वप्रयत्नेन जारितं मारयेद्रसम्
संस्थाप्य गोमयं भूमौ पश्चात् मूषां तदोपरि ॥
तन्मध्ये कटुतुम्ब्योत्थं तैलं दत्त्वा रसं क्षिपेत्
काकमाचीरसो देयस् तैलतुल्यस्ततः पुनः ॥
गन्धकं व्रीहिमात्रं च क्षिप्त्वा तं च निरोधयेत्
तत्पृष्ठे श्रावकं दत्त्वा पूर्णतावद्भिषक् परम् ॥
स्वाङ्गशीतं च तं ज्ञात्वा जीर्णं तैलं च गन्धकम्
काकमाचीद्रवं चाग्निं दत्त्वा दत्त्वा तु जारयेत् ॥
मूषायां गोमयं सार्द्रं दत्त्वा चाधोऽथ पावकम्
षड्गुणं गन्धकं जार्यं सूतस्यैवं मुषं भवेत् ॥
तत्सूतं मर्दयेत् खल्वे जम्बीरोत्थद्रवैर्दिनम्
चतुःषष्ट्यंशकं पूर्वं द्वात्रिंशांशं ततः पुनः ॥
षोडशांशं शुद्धहेम पत्त्रं सूतेषु जारयेत्
साग्रे साग्रे तु तन्मर्द्यं जम्बीराणां द्रवैर्दृढम् ॥
मूलिका लवणं गन्धम् अभावे पित्ततैलयोः
पिष्यो जम्बीरनीरेण हेमपत्त्रं प्रलेपयेत्
इत्येवं जारणा कार्या ततः सूतं विमारयेत् ॥
अथ वा निर्मुषं चेमं विडयोगेन जारयेत्
विडम् अत्र प्रवक्ष्यामि साधयेद्भिषगुत्तमः ॥
शङ्खचूर्णं रविक्षीरैर् आतपे भावयेद्दिनम्
तद्वज्जम्बीरजैर् द्रवैर् दिनैकं धूमसारकम् ॥
सौवर्चलमजामूत्रैः क्वाथं यामचतुष्टयम्
कण्टकारीरसं क्वाथं दिनैकं नरमूत्रके ॥
साजीक्षारं च कासीसं तिन्तिणीकं शिलाजतु
जम्बीरोत्थद्रवैर् भाव्यं पृथक् यामचतुष्टयम् ॥
जेपालबीजं त्वग्घीनं मूलकानां द्रवैर् दिनम्
सैन्धवं टङ्कणं गुञ्जा शिग्रुमूलद्रवैर्दिनम् ॥
एतत्सर्वं समांशं तु मर्द्यं जम्बीरजैर्द्रवैः
तद्गोलं रक्षयेद्यत्नात् विडो ऽयं वडबानलः ॥
अनेन मर्दयेत्सूतं ग्रसते तप्तखल्वके
स्वर्णाभ्रसर्वलोहानि सत्त्वानि ग्रसते क्षणात् ॥
आद्यो गर्भपरः पिण्डः परिणामस्तृतीयकः
सूतातः सर्वजार्याणां जारणस्त्रिविधो विधिः ॥
जार्ये तु जारिते सूते वस्त्रेण गालिते सति
वस्त्रे तिष्ठति चेत् सर्वम् आद्यो वै गर्भसंज्ञकः ॥
पुनर्जारितजार्ये तु वस्त्रान् निःशेषनिर्गते
ख्यातोऽल्पादधिके सूते सोपरिपिण्डसंज्ञकः ॥
मूल पाठ: Rasādhyaya, 1-302+com with Ṭīkā · Edition: Ramakrsna Sarma Benares : Chowkhamba Sanskrit Series, north of Gopal Mandir, 1930 (Kashi Sanskrit Series, 79 [Haridas Sanskrit Granthamala], Ayurveda Section, 2) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0