भाषा

ENहिગુ
ग्रंथ पाठ

रसाध्यय · श्लोक 1-19cd

1

सिद्धिः श्रीनामतो येषां भवेत्सर्वेप्सितं श्रियाम्
नत्वा तानर्हतः कुर्वे कङ्कालाध्यायवार्त्तिकम् ॥

2

गुरुभ्यः किंचिदाकर्ण्य तज्ज्ञैः संसृज्य किंचन
किंचिदप्यनुभूयासौ ग्रन्थो विव्रीयते मया ॥

3

प्रोक्तोऽपि गुरुणा साक्षाद् धातुवादो न सिध्यति
यावन् न दृश्यते द्विस्त्रिर् गुरुपार्श्वे क्रियाविधिः ॥

4

यस्मात्तस्मादपि श्रुत्वा यत्र कुत्रापि वीक्ष्य च
द्रव्यव्ययं प्रकुर्वन्तो मुधा ताम्यन्ति बालिशाः ॥

5

प्रसन्नीभूय चेत्सर्वं दर्शयेत्कर्म सद्गुरुः
लीलयापि तदा सर्वे योगाः सिध्यन्त्यसंशयम् ॥

6

ततोऽत्र व्यक्तम् उक्तेऽपि ग्रन्थार्थे मुख्यनिश्चयात्
गुरूनुपेक्ष्य नो कार्यो धातुवादे परिश्रमः ॥

7

वक्ति यो न स जानाति यो जानाति न वक्ति सः
ततो यत्रापि तत्रापि प्रसार्यं न मुखं बुधैः ॥

8

रसगुट्यञ्जनाभिज्ञः श्रीकङ्कालययोग्यभूत्
तेन स्वशिष्यशिक्षार्थं रसतत्त्वं निवेदितम् ॥

9

श्रीकङ्कालयशिष्योऽपि स्वान्योपकृतये कृती
एकविंशत्यधीकारं रसाध्यायं निबद्धवान् ॥

10

श्रीभैरवं प्रणम्यादौ सर्वज्ञं त्रिजगत्प्रभुम्
श्रीभारतीं च विघ्नेशं वन्दे प्रत्यूहशान्तये ॥

11

ब्रह्मचर्यं तपः कार्यं हविष्यान्नस्य भोजनम्
क्रियाभ्रष्टे न सिध्यन्ति तपोनष्टे फलन्ति न ॥

12

अथाध्यायं समायातं श्रीकङ्कालययोगिनः
वदामि व्यञ्जितो यत्र युक्तिभिः शृङ्खलारसः ॥

13

सूतदोषांस् ततः शुद्धिं संस्कारात् प्राक् वदाम्यहम्
रसानां फलमुत्पत्तिं देहलोहरसायनम् ॥

5

* ततो देहसाधकम् ।
* लोहसाधकं च रसायनं वदामीति श्रीकङ्कालयशिष्यवचः ॥

14

मृन्मयः कञ्चुकश्चैको द्विकः पाषाणकञ्चुकः
तृतीयो जलजातश्च द्वौ द्वौ च नागवङ्गजौ ॥

15

कपालि कालिका वङ्गे नागे श्यामकपालिके
यादृशा च तरा दुग्धे तद्रूपे द्वे कपालिके ॥

16

पञ्चवर्णा भवेत् श्यामा कालिका कृष्णवर्णिका
सदा सूतस्य जायन्ते सहजाः सप्त कञ्चुकाः ॥

17

मलदोषो भवेदेको द्वितीयो वह्निसम्भवः
विषदोषस्तृतीयस्तु चतुर्थो दर्पसंज्ञकः ॥

19ab

उन्मत्तः पञ्चमो दोषो दोषाः पञ्च सदा रसे

19cd

मृण्मयात् कञ्चुकात् कुष्ठं जायते च शरीरिणाम् ॥

मूल पाठ: Rasādhyaya, 1-302+com with Ṭīkā · Edition: Ramakrsna Sarma Benares : Chowkhamba Sanskrit Series, north of Gopal Mandir, 1930 (Kashi Sanskrit Series, 79 [Haridas Sanskrit Granthamala], Ayurveda Section, 2) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc