भाषा

ENहिગુ
ग्रंथ पाठ

रामोदन्त · अध्याय *6

*6.9

ततो वानरसंघांश् च भक्षयन्तं निशाचरम्
ऐन्द्रेणास्त्रेण रामो ऽपि निजघान रणे भृशम् ॥

*6.10

ततो रावणसंदिष्टौ देवान्तकनरान्तकौ
हनूमदङ्गदाभ्यां तु निहतौ रणमूर्धनि ॥

*6.11

अथातिकायम् आयान्तं रथम् आरुह्य वाहिनीम्
अर्दयन्तं महाकायं लक्ष्मणश् चावधीच् छरैः ॥

*6.12

ततो रावणसंदिष्टः शक्रजिद् राघवौ रणे
ब्रह्मास्त्रेण च तौ बद्ध्वा वानरांश् चावधीच् छरैः ॥

*6.13

अथ जाम्बवतो वाक्याद् गत्वा चौषधिपर्वतम्
मारुतिश् चौषधीस् तत्रा दृष्ट्वा कोपं चकार सः ॥

*6.14

भूधरं तं समुत्पट्य गृहीत्वा पुनर् आगतः
तासां गन्धेन वै सर्वान् राघवादीन् अजीवयत् ॥

*6.15

रावणः कपिभिर् दग्धां पुरीं वीक्ष्य रुषान्वितः
न्ययुङ्क्त कुम्भकर्णस्य पुत्रौ हन्तुं च राघवौ ॥

*6.16

अथार्दयन्तौ तत् सैन्यं वीक्ष्य तौ बलशालिनौ
कुम्भं रामो ऽवधीद् बाणैर् निकुम्भं चात्मजो रवेः ॥

*6.17

ततः खरात्मजं तेन रावणेन प्रचोदितम्
पीडयन्तं कपीन् बाणैर् जघानास्त्रेण राघवः ॥

*6.18

ततः संतप्तहृदयो रावणो युद्धदुर्मदम्
प्रचोदयाम् आस सुतम् युद्धे हन्तुं स राघवौ ॥

*6.19

नगरान् निर्ययौ तूर्णम् इन्द्रजित् समितिञ्जयः
मायासीतां विनिक्षिप्य सर्वेषां मोहनाय वै ॥

*6.20

वानरेष्व् अपि पश्यत्सु हनूमत्प्रमुखेषु च
जघान सीतां खड्गेन शितेन समितिञ्जयः ॥

*6.21

युद्धं त्यक्त्वा ततः सर्वैर् वानरैः स परीवृतः
दुःखितो हनुमांस् तत्र यत्र रमो ऽव्रजल् लघु ॥

*6.22

उपगम्याब्रवीद् रामं हनूमान् निखिलं तदा
श्रुत्वा वृत्तान्तम् अखिलं रामो मोहम् अवाप सः ॥

*6.23

विभीषणो ऽथ संप्राप्य दृष्ट्वा रामं च मूर्छितम्
विषण्णान् वानरान् वाचा सान्त्वयन्न् इदम् अब्रवीत् ॥

*6.24

मिथ्या विषादं संत्यज्य जगन्नायक हे प्रभो
शृणु मे ऽभिहितं वाक्यं ज्ञात्वा रावणिमानसम् ॥

*6.25

दुरात्मना कृता माया राक्षसेन्द्रसुतेन वै
निकुम्भिलायां होमं तु कृतं तेनाधुना किल ॥

*6.26

लक्ष्मणं प्रेषयाद्यैव मया सह समन्त्रिणा
कृते होमे तत्र रिपुर् अजेयो भवति ध्रुवम् ॥

*6.27

उवाच रामः सौमित्रिं राक्षसेन्द्रसुतं जहि
गच्छेति शीघ्रं सुहृदा रावणस्यानुजेन सः ॥

*6.28

लक्ष्मणस् तु तदा रामम् आमन्त्र्य सविभीषणः
निकुम्भिलां प्राप तूर्णम् इन्द्रजिद् यत्र वर्तते ॥

*6.29

अदर्शयद् भ्रातृपुत्रं धर्मात्मा स विभीषणः
लक्ष्मणो भेदयाम् आस राक्षसाञ् शरसंचयैः ॥

*6.30

कृत्वा चिरं तत्र युद्धम् ऐन्द्रेणास्त्रेण वै रुषा
शिरश् चिच्छेद सौमित्रिर् दशाननसुतस्य हि ॥

*6.31

स सुतस्य वधं श्रुत्वा रावणः सोककर्शितः
नष्टधैर्यो विह्वलाङ्गो विललापाकुलेन्द्रियः ॥

*6.32

निरर्थकं तु मज्जन्म जल्पितं च निरर्थकम्
येनाहम् अद्य पश्यामि हतम् इन्द्रजितं रणे ॥

*6.33

क्व गतो ऽसि हतः शूर मानुषेण पदातिना
राज्याद् भ्रष्टेन दीनेन त्यक्त्वा मां पुत्र जीवितम् ॥

*6.34

इन्द्रं जित्वा तु तं बद्ध्वा लङ्काम् आनीय वै बलात्
अकरोस् त्वं प्रतापेन कारागृहनिवासिनम् ॥

*6.35

मोचयाम् आस ब्रह्मा त्वां सान्त्वयित्वामराधिपम्
तादृक् त्वं कुत्र मां त्यक्त्वा गतो ऽद्य सुदुरासदः ॥

*6.36

किं करिष्याम्य् अहम् पुत्र क्व गच्छामि वदाधुना
नय मां यत्र गन्तासि तत्र ते न विलम्बनम् ॥

*6.37

लोकेषु त्वत्समो नास्ति तादृशस्य पितास्म्य् अहम्
इत्याशया स्थितं पुत्र गर्वितेन मयात्र हि ॥

*6.38

धूम्राक्षो वज्रदंष्ट्रश् च कुम्भकर्णः प्रतापवान्
राक्षसा निहताः सर्वे प्रहस्तप्रमुखा अपि ॥

*6.39

अनादृत्य तु तान् सर्वान् राक्षसान् प्रहृतान् अपि
अवष्टभ्य बलं पुत्र सुखेनावस्थितं तव ॥

*6.40

इत्य् एवं बहुधा तत्र विलप्य स तु रावणः
अन्तर्नियम्य दुःखानि कोपं चक्रे सुदारुणम् ॥

*6.41

रथं सूत ममाग्रे त्वं क्षिप्रं कुरु जयैषिणः
रामं सलक्ष्मणं हन्तुं निर्गमिष्याम्य् अहं गृहात् ॥

*6.42

इत्य् उक्त्वा रथम् आरुह्य शीघ्रं सारथिवाहितम्
रामेण सह संगम्य युद्धं चक्रे सुदारुणम् ॥

*6.43

ततो मातलिनानीतं रथम् ऐन्द्रं समारुहन्
रराज रामो धर्मात्मा ह्य् उदयस्थो यथा रविः ॥

*6.44

चकार युद्धम् तुमुलं देववृन्दे च पश्यति
सीताहरणजात् कोपाद् रामो धर्मभृतां वरः ॥

*6.45

अथागस्त्यस्य वचनाद् रावणं लोककण्टकम्
जघान रामो लक्ष्मीवान् ब्राह्मेणास्त्रेण तं रणे ॥

*6.46

मन्दोदरी वधं श्रुत्वा भर्तुः प्रियतरस्य सा
विललाप रणं गत्वा कुररीव भृशातुरा ॥

*6.47

विभीषणो ऽथ रामेण संदिष्टः सह राक्षसैः
चकार दहनं तस्य रावणस्य गतायुषः ॥

*6.48

अथाग्निवचनात् सीतां रामो वीक्ष्य सुनिर्मलाम्
संदिष्टो देववृन्दैश् च जग्राह पितृसंनिधौ ॥

*6.49

तवैव युक्तं कर्मैतत् सर्वलोकभयङ्करम्
तद् वैदेह्याः कृते राम सा तु लक्ष्मीर् भवान् स्वभूः ॥

*6.50

इत्य् एवं देवसंघैश् च मुनिभिश् चाभिपूजितः
लक्ष्मणश् च तुतोषाथ रामो विश्वासम् आययौ ॥

*6.51

विभीषणस्य धर्मात्मा सत्यसंध उदारधीः
कारयाम् आस लक्ष्मीवान् अनुजेनाभिषेचनम् ॥

*6.52

ततः पुष्पकम् आरुह्य सह मित्रैर् जगत्पतिः
भार्यानुजाभ्यां सहितः किष्किन्धां प्राप राघवः ॥

*6.53

किष्किन्धानिलयाः सर्वाः कपीनां योषितः प्रियाः
सीताकुतूहलात् पुष्पं विमानं ताः समारुहन् ॥

*6.54

अथ दाशरथिः श्रीमान् भरतं द्रष्टुम् इच्छया
भरद्वाजाश्रमं प्राप्तस् तत्र तेन निवारितः ॥

*6.55

भरतस्यान्तिकं रामः प्रेषयाम् आस मारुतिम्
रामस्यादर्शनाद् वह्नि प्रवेशं काङ्क्षतो भृशं ॥

*6.56

तत्र तेन मुनीन्द्रेण सानुजः ससुहृद्गणः
संतोषविवशेनाथ रामो ऽपि विधिपूजितः ॥

*6.57

रामो ऽथ सह संगम्य भरतेनारिघातिना
अयोध्यां प्राविशत् तूर्णं मातृभिश् चाभिनन्दितः ॥

*6.58

अथायोध्यानिवासास् ते जनाः सर्वे ऽपि तोषिताः
अभिगम्याब्रुवन् रामं धन्या वयम् इति द्रुतम् ॥

*6.59

चातकास् तु घनान् दृष्ट्वा मयूराश् च यथा शिशून्
आसाद्य मातरस् तोषं तथा प्रापुर् जना भुवि ॥

*6.60

अथाभिषेकं रामस्य वसिष्ठाद्या मुदान्विताः
सहिता मन्त्रिभिश् चक्रुर् वसवो वासवं यथा ॥

*6.61

अभिषेकोत्सवे सर्वे सुग्रीवाद्याः कपीश्वराः
यथार्हं पूजिताश् चासन् स्रग्गन्धाम्बरभूषणैः ॥

*6.62

विशिष्य मुक्ताहारेण सीतया हनुमान् मुदम्
पूजितश् च तथा लेभे यथा सीतावलोकने ॥

*6.63

सर्वासां वानरीणां च कौसल्या पुत्रवत्सला
भूषणैर् भूषयाम् आस वस्त्रचन्दनकुङ्कुमैः ॥

*6.64

रामाज्ञयाथ सर्वे ऽपि सुग्रीवादिप्लवङ्गमाः
किष्किन्धां लेभिरे कृच्छ्राच् छ्रीरामविरहातुराः ॥

*6.65

अतिभक्तो दीर्घजीवी लङ्कासमरसाधकः
अनुज्ञातः स रामेण लङ्कां प्रायाद् विभीषणः ॥

*6.66

पितुः सिंहासनं प्राप्य भ्रातृभिः सहितो ऽनघः
विरराज तथा रामो यथा विष्णुस् त्रिविष्टपे ॥

*6.67

लक्ष्मणानुमते रामो यौवराज्यं तु दत्तवान्
भरतायाप्रमेयाय प्राणात् प्रियतराय सः ॥

*6.68

चत्वारस् ते महात्मानः सभार्या रघुसत्तमाः
खे सतारो यथा चन्द्रस् तथा रेजुः स्वपत्तने ॥

मूल पाठ: Rāmodanta · Data entry Christophe Vielle · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc