भाषा

ENहिગુ
ग्रंथ पाठ

रामोदन्त · श्लोक *6.65-156*

145*

राजा पर्यग्रहीद् एव भार्यां रावणदूषिताम्
इत्य् अज्ञजनवादेन रामस् तत्याज मैथिलीम् ॥

146*

तद् विदित्वाथ वाल्मीकिर् आनीयैनां निजाश्रमम्
अन्तर्वत्नीं समाश्वास्य तत्रैवावासयत् सुखम् ॥

14*7

ऋषिभिः प्रार्थितस्याथ राघवस्य नियोगतः
शत्रुघ्नो लवणं युद्धे निहत्यैनान् अपालयत् ॥

148

तपस्यन्तं ततः शूद्रं शम्बूकाख्यं रघूत्तमः
हत्वा विप्रस्य कस्यापि मृतं पुत्रम् अजीवयत् ॥

149*

रामे हेममयीं पत्नीं कृत्वा यज्ञं वितन्वति
आनीय ससुतां सीतां तस्मै प्राचेतसो ददौ ॥

150*

शङ्क्यमाना पुनश् चैवं रामेण जनकात्मजा
भूम्या प्रार्थितया दत्तं विवरं प्रविवेश सा ॥

151

लक्ष्मणः सभयभ्रंशाद् रामेण समुपेक्षितः
मानुषं देहम् उत्सृज्य स्वकं रूपं समाविशत् ॥

152*

अथ रामस्य निर्देशात् पौरैः सह वनौकसः
निमज्ज्य सरयूतीर्थे देहं त्यक्त्वा दिवं ययुः ॥

153*

ततो भरतशत्रुघ्नौ निजं रूपम् अवापतुः
रामो ऽपि मानुषं देहं त्यक्त्वा धामाविशत् स्वकम् ॥

154*

श्रीरामोदन्तम् आख्यातम् इदं मन्दधिया मया
समीक्ष्य निपुणैः सद्भिः संशोध्य परिगृह्यताम् ॥

155

येषां प्रसादाद् रामस्य चरितं कीर्तितं मया
तान् गुरून् सर्वदा नौमि नारायणपरायणान् ॥

156*

यस् तु दाशरथिर् भूत्वा रणे हत्वा च रावणम्
ररक्ष लोकान् वैकुण्ठः स मां रक्षतु चिन्मयः ॥

मूल पाठ: Rāmodanta · Data entry Christophe Vielle · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc