ग्रंथ पाठ
रामोदन्त · श्लोक 141-*6.24
141
अयोध्यां प्रत्य् असौ गच्छन् प्रेषयित्वानिलात्मजम्
भरतस्य मतं ज्ञात्वा नन्दिग्रामम् उपागमत् ॥
142
भ्रातृभिः सह संगम्य वेषं संत्यज्य तापसं
अयोध्यां प्राविशद् रामः प्रीतैर् बन्धुजनैः सह ॥
143
वसिष्ठो ऽथ द्विजैः साकं मन्त्रिसामन्तसंनिधौ
सीतया सहितं रामम् अभ्यषिञ्चद् यथाविधि ॥
144
आह्लादयञ् जगत् सर्वं पौर्णमास्यां शशी यथा
अयोध्याम् अवसद् रामः सीतया सहितश् चिरम् ॥
मूल पाठ: Rāmodanta · Data entry Christophe Vielle · GRETIL (Göttingen) · CC BY-NC-SA 4.0