रामायण · अध्याय 7.099
प्रभातायां तु शर्वर्यां पृथुवक्षा महायशाः
रामः कमलपत्राक्षः पुरोधसम् अथाब्रवीत्
अग्निहोत्रं व्रजत्व् अग्रे सर्पिर् ज्वलितपावकम्
वाजपेयातपत्रं च शोभयानं महापथम्
ततो वसिष्ठस् तेजस्वी सर्वं निरवशेषतः
चकार विधिवद् धर्म्यं महाप्रास्थानिकं विधिम्
ततः क्षौमाम्बरधरो ब्रह्म चावर्तयन् परम्
कुशान् गृहीत्वा पाणिभ्यां प्रसज्य प्रययाव् अथ
अव्याहरन् क्व चित् किं चिन् निश्चेष्टो निःसुखः पथि
निर्जगाम गृहात् तस्माद् दीप्यमानो यथांशुमान्
रामस्य पार्श्वे सव्ये तु पद्मा श्रीः सुसमाहिता
दक्षिणे ह्रीर् विशालाक्षी व्यवसायस् तथाग्रतः
शरा नानाविधाश् चापि धनुर् आयतविग्रहम्
अनुव्रजन्ति काकुत्स्थं सर्वे पुरुषविग्रहाः
वेदा ब्राह्मणरूपेण सावित्री सर्वरक्षिणी
ओंकारो ऽथ वषट्कारः सर्वे रामम् अनुव्रताः
ऋषयश् च महात्मानः सर्व एव महीसुराः
अन्वगच्छन्त काकुत्स्थं स्वर्गद्वारम् उपागतम्
तं यान्तम् अनुयान्ति स्म अन्तःपुरचराः स्त्रियः
सवृद्धबालदासीकाः सवर्षवरकिंकराः
सान्तःपुरश् च भरतः शत्रुघ्नसहितो ययौ
रामव्रतम् उपागम्य राघवं समनुव्रताः
ततो विप्रा महात्मानः साग्निहोत्राः समाहिताः
सपुत्रदाराः काकुत्स्थम् अन्वगच्छन् महामतिम्
मन्त्रिणो भृत्यवर्गाश् च सपुत्राः सहबान्धवाः
सानुगा राघवं सर्वे अन्वगच्छन् प्रहृष्टवत्
ततः सर्वाः प्रकृतयो हृष्टपुष्टजनावृताः
अनुजग्मुः प्रगच्छन्तं राघवं गुणरञ्जिताः
स्नातं प्रमुदितं सर्वं हृष्टपुष्पम् अनुत्तमम्
दृप्तं किलिकिलाशब्दैः सर्वं रामम् अनुव्रतम्
न तत्र कश् चिद् दीनो ऽभूद् व्रीडितो वापि दुःखितः
हृष्टं प्रमुदितं सर्वं बभूव परमाद्भुतम्
द्रष्टुकामो ऽथ निर्याणं राज्ञो जानपदो जनः
संप्राप्तः सो ऽपि दृष्ट्वैव सह सर्वैर् अनुव्रतः
ऋक्षवानररक्षांसि जनाश् च पुरवासिनः
अगछन् परया भक्त्या पृष्ठतः सुसमाहिताः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0