भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.100

7.100.001

अध्यर्धयोजनं गत्वा नदीं पश्चान् मुखाश्रिताम्
सरयूं पुण्यसलिलां ददर्श रघुनन्दनः

7.100.002

अथ तस्मिन् मुहूर्ते तु ब्रह्मा लोकपितामहः
सर्वैः परिवृतो देवैर् ऋषिभिश् च महात्मभिः

7.100.003

आययौ यत्र काकुत्स्थः स्वर्गाय समुपस्थितः
विमानशतकोटीभिर् दिव्याभिर् अभिसंवृतः

7.100.004

पपात पुष्पवृष्टिश् च वायुमुक्ता महौघवत्

7.100.005

तस्मिंस् तूर्यशताकीर्णे गन्धर्वाप्सरसंकुले
सरयूसलिलं रामः पद्भ्यां समुपचक्रमे

7.100.006

ततः पितामहो वाणीम् अन्तरिक्षाद् अभाषत
आगच्छ विष्णो भद्रं ते दिष्ट्या प्राप्तो ऽसि राघव

7.100.007

भ्रातृभिः सह देवाभैः प्रविशस्व स्वकां तनुम्
वैष्णवीं तां महातेजस् तद् आकाशं सनातनम्

7.100.008

त्वं हि लोकगतिर् देव न त्वां के चित् प्रजानते
ऋते मायां विशालाक्ष तव पूर्वपरिग्रहाम्

7.100.009

त्वम् अचिन्त्यं महद् भूतम् अक्षयं सर्वसंग्रहम्
याम् इच्छसि महातेजस् तां तनुं प्रविश स्वयम्

7.100.010

पितामहवचः श्रुत्वा विनिश्चित्य महामतिः
विवेश वैष्णवं तेजः सशरीरः सहानुजः

7.100.011

ततो विष्णुगतं देवं पूजयन्ति स्म देवताः
साध्या मरुद्गणाश् चैव सेन्द्राः साग्निपुरोगमाः

7.100.012

ये च दिव्या ऋषिगणा गन्धर्वाप्सरसश् च याः
सुपर्णनागयक्षाश् च दैत्यदानवराक्षसाः

7.100.013

सर्वं हृष्टं प्रमुदितं सर्वं पूर्णमनोरथम्
साधु साध्व् इति तत् सर्वं त्रिदिवं गतकल्मषम्

7.100.014

अथ विष्णुर् महातेजाः पितामहम् उवाच ह
एषां लोकाञ् जनौघानां दातुम् अर्हसि सुव्रत

7.100.015

इमे हि सर्वे स्नेहान् माम् अनुयाता मनस्विनः
भक्ता भाजयितव्याश् च त्यक्तात्मानश् च मत्कृते

7.100.016

तच् छ्रुत्वा विष्णुवचनं ब्रह्मा लोकगुरुः प्रभुः
लोकान् सान्तानिकान् नाम यास्यन्तीमे समागताः

7.100.017

यच् च तिर्यग्गतं किं चिद् रामम् एवानुचिन्तयत्
प्राणांस् त्यक्ष्यति भक्त्या वै संताने तु निवत्स्यति
सर्वैर् एव गुणैर् युक्ते ब्रह्मलोकाद् अनन्तरे

7.100.018

वानराश् च स्वकां योनिम् ऋक्षाश् चैव तथा ययुः

7.100.019

येभ्यो विनिःसृता ये ये सुरादिभ्यः सुसंभवाः
ऋषिभ्यो नागयक्षेभ्यस् तांस् तान् एव प्रपेदिरे

7.100.020

तथोक्तवति देवेशे गोप्रतारम् उपागताः
भेजिरे सरयूं सर्वे हर्षपूर्णाश्रुविक्लवाः

7.100.021

अवगाह्य जलं यो यः प्राणी ह्य् आसीत् प्रहृष्टवत्
मानुषं देहम् उत्सृज्य विमानं सो ऽध्यरोहत

7.100.022

तिर्यग्योनिगताश् चापि संप्राप्ताः सरयूजलम्
दिव्या दिव्येन वपुषा देवा दीप्ता इवाभवन्

7.100.023

गत्वा तु सरयूतोयं स्थावराणि चराणि च
प्राप्य तत् तोयविक्लेदं देवलोकम् उपागमन्

7.100.024

देवानां यस्य या योनिर् वानरा ऋष्कराक्षसाः
ताम् एव विविशुः सर्वे देहान् निक्षिप्य चाम्भसि

7.100.025

तथा स्वर्गगतं सर्वं कृत्वा लोकगुरुर् दिवम्
जगाम त्रिदशैः सार्धं हृष्टैर् हृष्टो महामतिः

7.100.026

एतावद् एव आख्यानं सोत्तरं ब्रह्मपूजितम्
रामायणम् इति ख्यातं मुख्यं वाल्मीकिना कृतम्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc